संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १७

भूमिखंडः - अध्यायः १७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सोमशर्मोवाच-
सर्वं देवि समाख्यातं धर्मसंस्थानमुत्तमम्
कथं पुत्रमहं विंद्यां सर्वज्ञं गुणसंयुतम् ॥१॥
वद त्वं मे महाभागे यदि जानासि सुव्रते
दानधर्मादिकं भद्रे परत्रेह न संशयः ॥२॥
सुमनोवाच-
वसिष्ठं गच्छ धर्मज्ञं तं प्रार्थय महामुनिम्
तस्मात्प्राप्स्यसि वै पुत्रं धर्मज्ञं धर्मवत्सलम् ॥३॥
सूत उवाच-
एवमुक्ते तया वाक्ये सोमशर्मा द्विजोत्तमः
एवं करिष्ये कल्याणि तव वाक्यं न संशयः ॥४॥
एवमुक्त्वा जगामाशु सोमशर्मा द्विजोत्तमः
वसिष्ठं सर्ववेत्तारं दिव्यं तं तपतां वरम् ॥५॥
गंगातीरे स्थितं पुण्यमाश्रमस्थं द्विजोत्तमम्
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् ॥६॥
राजमानं महात्मानं ब्रह्मण्यं च द्विजोत्तमम्
भक्त्या प्रणम्य विप्रेशं दंडवच्च पुनः पुनः ॥७॥
तमुवाच महातेजा ब्रह्मसूनुरकल्मषः
उपाविशासने पुण्ये सुखेन सुमहामते ॥८॥
एवमुक्त्वा स योगींद्रः पुनः प्राह तपोधनम्
गृहे पुत्रेषु ते वत्स दारभृत्येषु सर्वदा ॥९॥
क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु
निरामयोसि चांगेषु धर्मं पालयसे सदा ॥१०॥
एवमुक्त्वा महाप्राज्ञः पुनः प्राह सुशर्मणम्
किं करोमि प्रियं कार्यं सुप्रियं ते द्विजोत्तम ॥११॥
एवं संभाषितं विप्रं विरराम स कुंभजः
तस्मिन्नुक्ते महाभागे वसिष्ठे मुनिपुंगवे ॥१२॥
स होवाच महात्मानं वसिष्ठं तपतां वरम्
भगवञ्छ्रूयतां वाक्यं सुप्रसन्नेन चेतसा ॥१३॥
यदि मे सुप्रियं कार्यं त्वयैव मुनिपुंगव
मम प्रश्नार्थसंदेहं विच्छेदय द्विजोत्तम ॥१४॥
दारिद्र्यं केन पापेन पुत्रसौख्यं कथं नहि
एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे ॥१५॥
महामोहेन संमुग्धः प्रियया बोधितो द्विज
तयाहं प्रेषितस्तात तव पार्श्वं समातुरः ॥१६॥
तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम्
मुक्तिदाता भवस्व त्वं ममसंसारबंधनात् ॥१७॥
वसिष्ठ उवाच-
पुत्रा मित्राण्यथ भ्राता अन्ये स्वजनबांधवाः
पंचभेदास्तु संभेदात्पुरुषस्य भवंति ते ॥१८॥
ते ते सुमनया प्रोक्ताः पूर्वमेव तवाग्रतः
ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम ॥१९॥
पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम्
पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा ॥२०॥
शुद्धिविज्ञानसंपन्नस्तपस्वी वाग्विदां वरः
सर्वकर्मसुसंधीरो वेदाध्ययनतत्परः ॥२१॥
स सर्वशास्त्रवेत्ता च देवब्राह्मणपूजकः
याजकः सर्वयज्ञानां दाता त्यागी प्रियंवदः ॥२२॥
विष्णुध्यानपरो नित्यं शांतो दांतः सुहृत्सदा
पितृमातृपरोनित्यं सर्वस्वजनवत्सलः ॥२३॥
कुलस्य तारको विद्वान्कुलस्य परिपोषकः
एवं गुणैश्च संयुक्तः सपुत्रः सुखदायकः ॥२४॥
अन्ये संबंधसंयुक्ताः शोकसंतापदायकाः
एतादृशेन किं कार्यं फलहीनेन तेन च ॥२५॥
आयांति यांति ते सर्वे तापं दत्वा सुदारुणम्
पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम ॥२६॥
पूर्वजन्मकृतं पुण्यं यत्त्वया परिपालितम्
तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः ॥२७॥
वसिष्ठ उवाच-
भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा
कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः ॥२८॥
एकभार्या सदा द्वेषी बहुपुत्रो ह्यदत्तवान्
धर्मं नैव विजानासि सत्यं नैव परिश्रुतम् ॥२९॥
दानं नैव त्वया दत्तं शास्त्रं नैव प्रतिश्रुतम्
कृता नैव त्वया तीर्थे यात्रा चैव महामते ॥३०॥
एवं कृतं त्वया विप्र कृषिमार्गं पुनः पुनः
पशूनां पालनं सर्व गवां चैव द्विजोत्तम ॥३१॥
महिषीणां तथाऽश्वानां पालनं च पुनः पुनः
एवं पू र्वंकृतं कर्म त्वयैव द्विजसत्तम ॥३२॥
विपुलं च धनं तद्वल्लोभेन परिसंचितम्
तस्य व्ययं सुपुण्येन न कृतं तु त्वया कदा ॥३३॥
पात्रे दानं न दत्तं तु दृष्ट्वा दुर्बलमेव च
कृपां कृत्वा न दत्तं तु भवता धनमेव च ॥३४॥
गोमहिष्यादिकं सर्वं पशूनां संचितं त्वया
विक्रीय च धनं विप्र संचितं विपुलं त्वया ॥३५॥
तक्रं घृतं तथा क्षीरं विक्रयित्वा ततो दधि
दुष्कालं चिंतितं विप्र मोहितो विष्णुमायया ॥३६॥
कृतं महार्घमेवात्र अन्नं ब्राह्मणसत्तम
निर्दयेन त्वया दानं न दत्तं तु कदाचन ॥३७॥
देवानां पूजनं विप्र भवता न कृतं कदा
प्राप्य पर्वाणि विप्रेभ्यो द्रव्यं न च समर्पितम् ॥३८॥
श्राद्धंकालंतुसंप्राप्यश्रद्धयानकृतंत्वया
भार्या वदति ते साध्वी दिनमेनं समागतम् ॥३९॥
श्वशुरस्य श्राद्धकालः श्वश्र्वाश्चैव महामते
त्वं श्रुत्वा तद्वचस्तस्या गृहं त्यक्त्वा पलायसे ॥४०॥
धर्ममार्गं न दृष्टं ते श्रुतं नैव कदा त्वया
लोभो मातापिता भ्राता लोभः स्वजनबांधवाः ॥४१॥
पालितं लोभमेवैकं त्यक्त्वा धर्मं सदैव हि
तस्माद्दुःखी भवाञ्जातो दरिद्रेणातिपीडितः ॥४२॥
दिनेदिने महातृष्णा हृदये ते प्रवर्द्धते
यदायदा गृहे द्रव्यं वृद्धिमायाति ते तदा ॥४३॥
तृष्णया दह्यमानस्तु तया त्वं वह्निरूपया
रात्रौ वा सुप्रसुप्तस्तु निश्चितो हि प्रचिंतसि ॥४४॥
दिनं प्राप्य महामोहैर्व्यापितोसि सदैव हि
सहस्रं लक्षं मे कोटिः कदा अर्बुदमेव च ॥४५॥
भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे
एवं सहस्रं लक्षं च कोटिरर्बुदमेव च ॥४६॥
खर्वो निखर्वः संजातस्तृष्णा नैव प्रगच्छति
तव कायं परित्यज्य वृद्धिमायाति सर्वदा ॥४७॥
नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया
खनितं भूमिमध्ये तु क्षिप्तं पुत्रानजानते ॥४८॥
अन्यमेवमुपायं तु द्रव्यागमनकारणात्
कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान् ॥४९॥
खनित्रमंजनं वादं धातुवादमतः परम्
पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः ॥५०॥
स्पर्शंचिंतयसेनित्यंकल्पान्सिद्धिप्रदायकान्
प्रवेशं विवराणां तु चिंतमानः सु पृच्छसि ॥५१॥
तृष्णानलेन दग्धेन सुखं नैव प्रगच्छसि
तृष्णानलेन संदीप्तो हाहाभूतो विचेतनः ॥५२॥
एवं मुग्धोसि विप्रेंद्र गतस्त्वं कालवश्यताम्
दारापुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया ॥५३॥
कथितं नैव वृत्तांतं प्राणांस्त्यक्त्वा गतो यमम्
एवं सर्वं मया ख्यातं वृत्तांतं तव पूर्वकम् ॥५४॥
अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान्
संसारे यस्य सत्पुत्रा भक्तिमंतः सदैव हि ॥५५॥
सुशीला ज्ञानसंपन्नाः सत्यधर्मरताः सदा
संभवंति गृहे तस्य यस्य विष्णुः प्रसीदति ॥५६॥
धनं धान्यं कलत्रं तु पुत्रपौत्रमनंतकम्
स भुंक्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान् ॥५७॥
विना विष्णोः प्रसादेन दारापुत्रान्न चाप्नुयात्
सुजन्म च कुलं विप्र तद्विष्णोः परमं पदम् ॥५८॥

इति श्रीपद्मपुराणेभूमिखंडेएंद्रे सुमनोपाख्यानेसप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP