भूमिखंडः - अध्यायः ५०
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सुकलोवाच-
तस्यास्तु वचनं श्रुत्वा गोभिलो वाक्यमब्रवीत्
भवती शप्तुकामासि कस्मान्मे कारणं वद ॥१॥
केन दोषेण लिप्तोस्मि यस्मात्त्वं शप्तुमुद्यता
गोभिलो नाम दैत्योस्मि पौलस्त्यस्य भटः शुभे ॥२॥
दैत्याचारेण वर्तामि जाने विद्यामनुत्तमाम्
वेदशास्त्रार्थवेत्तास्मि कलासु निपुणः पुनः ॥३॥
एवं सर्वं विजानामि दैत्याचारं शृणुष्व मे
परस्वं परदारांश्च बलाद्भुंजामि नान्यथा ॥४॥
वयं दैत्याः समाकर्ण्य दैत्याचारेण सांप्रतम्
वर्त्तामो ज्ञानिभावेन सत्यं सत्यं वदाम्यहम् ॥५॥
ब्राह्मणानां हि च्छिद्राणि विपश्यामो दिने दिने
तेषां हि तपसो नाशं विघ्नैः कुर्मो न संशयः ॥६॥
छिद्रं प्राप्य वयं देवि नाशयामो न संशयः
ब्राह्मणाञ्छ्रूयतां भद्रे देवयज्ञं वरानने ॥७॥
नाशयामो वयं यज्ञान्धर्मयज्ञं न संशयः
सुब्राह्मणान्परित्यज्य देवं नारायणं प्रभुम् ॥८॥
पतिव्रतां महाभागां सुमतिं भर्तृतत्पराम्
दूरेणापि परित्यज्य तिष्ठामो नात्र संशयः ॥९॥
तेजो देवि सुविप्रस्य हरेश्चैव महात्मनः
नार्याः पतिव्रतायाश्च सोढुं दैत्याश्च न क्षमाः ॥१०॥
पतिव्रताभयेनापि विष्णोः सुब्राह्मणस्य च
नश्यंति दानवाः सर्वे दूरं राक्षसपुंगवाः ॥११॥
अहं दानवधर्मेण विचरामि महीतलम्
कस्मात्त्वं शप्तुकामासि मम दोषो विचार्यताम् ॥१२॥
पद्मावत्युवाच-
मम धर्मः सुकायश्च त्वयैव परिनाशितः
अहं पतिव्रता साध्वी पतिकामा तपस्विनी ॥१३॥
स्वमार्गे संस्थिता पाप मायया परिनाशिता
तस्मात्त्वामप्यहं दुष्ट आधक्ष्यामि न संशयः ॥१४॥
गोभिल उवाच-
धर्ममेव प्रवक्ष्यामि भवती यदि मन्यते
अग्निचिद्ब्राह्मणस्यापि श्रूयतां नृपनंदिनी ॥१५॥
जुह्वन्देवं द्विकालं यो न त्यजेदग्निमंदिरम्
स चाग्निहोत्री भवति यजत्येव दिनेदिने ॥१६॥
अन्यच्चैवं प्रवक्ष्यामि भृत्यधर्मं वरानने
मनसा कर्मणा वाचा विशुद्धो योऽपि नित्यशः ॥१७॥
नित्यमादेशकारी यः पश्चात्तिष्ठति चाग्रतः
स भृत्यः कथ्यते देवि पुण्यभागी न संशयः ॥१८॥
यः पुत्रो गुणवाञ्ज्ञाता पितरं पालयेच्छुभः
मातरं च विशेषेण मनसा काय कर्मभिः ॥१९॥
तस्य भागीरथी स्नानमहन्यहनि जायते
अन्यथा कुरुते यो हि स पापीयान्न संशयः ॥२०॥
अन्यच्चैवं प्रवक्ष्यामि पतिव्रतमनुत्तमम्
वाचा सुमनसा चैव कर्मणा शृणु भामिनि ॥२१॥
शुश्रूषां कुरुते या हि भर्तुश्चैव दिन दिने
तुष्टे भर्त्तरि या प्रीता न त्यजेत्क्रोधनं पुनः ॥२२॥
तस्य दोषं न गृह्णाति ताडिता तुष्यते पुनः
भर्त्तुः कर्मसु सर्वेषु पुरतस्तिष्ठते सदा ॥२३॥
सा चापि कथ्यते नारी पतिव्रतपरायणा
पतितोपि पितापुत्रैर्बहुदोषसमन्वितः ॥२४॥
कस्मादपि च न त्याज्यः कुष्ठितः क्रुधितोऽपि वा
एवं पुत्राः शुश्रूषंति पितरं मातरं किल ॥२५॥
ते यांति परमं लोकं तद्विष्णोः परमं पदम्
एवं हि स्वामिनं ये वै उपाचरंति भृत्यकाः ॥२६॥
पत्युर्लोकं प्रयांत्येते प्रसादात्स्वामिनस्तदा
अग्निं नैव त्यजेद्विप्रो ब्रह्मलोकं प्रयाति सः ॥२७॥
अग्नित्यागकरो विप्रो वृषलीपतिरुच्यते
स्वामिद्रोही भवेद्भृत्यः स्वामित्यागान्न संशयः ॥२८॥
अग्निं च पितरं चैव न त्यजेत्स्वामिनं शुभे
सदा विप्रः सुतो भृत्यः सत्यं सत्यं वदाम्यहम् ॥२९॥
परित्यज्य प्रगच्छंति ते यांति नरकार्णवम्
पतितं व्याधितं देवि विकलं कुष्ठिनं तथा ॥३०॥
सर्वकर्मविहीनं च गतवित्तादिसंचयम्
भर्तारं न त्यजेन्नारी यदि श्रेय इहेच्छति ॥३१॥
त्यक्त्वा कांतं व्रजेन्नारी अन्यत्कार्यमिहेच्छति
सा मता पुंश्चली लोके सर्वधर्मबहिष्कृता ॥३२॥
गते भर्तरि या ग्रामं भोगं शृंगारमेव च
लौल्याच्च कुरुते नारी पुंश्चली वदते जनः ॥३३॥
एवं धर्मं विजानामि वेदशास्त्रैश्च संमतम्
दानवा राक्षसाः प्रेता धात्रा सृष्टा यदादितः ॥३४॥
तत्रेह कारणं सर्वं प्रवक्ष्यामि न संशयः
ब्राह्मणा दानवाश्चैव पिशाचाश्चैव राक्षसाः ॥३५॥
धर्मार्थं सकलं प्रोक्तमधीतं तैस्तु सुंदरि
विंदंति सकलं सर्वे आचरंति न दानवाः ॥३६॥
विधिहीनं प्रकुर्वंति दानवा ज्ञानवर्जिताः
अन्यायेन व्रजंत्येते मानवा विधिवर्जिताः ॥३७॥
तेषां शासनहेत्वर्थं कृता एतेपि नान्यथा
विधिहीनं प्रकुर्वंति ये हि धर्मं नराधमाः ॥३८॥
तान्वयं शासयामो वै दंडेन महता किल
भवत्या दारुणं कर्म कृतमेव सुनिर्घृणम् ॥३९॥
गार्हस्थ्यं च परित्यज्य अत्रायाता किमर्थतः
वदस्येवं मुखेनापि अहं हि पतिदेवता ॥४०॥
कर्मणा नास्ति तद्दृष्टं पतिदैवत्यमेव ते
भर्तारं तं परित्यज्य किमर्थं त्वमिहागता ॥४१॥
शृंगारं भूषणं वेषं कृत्वा तिष्ठसि निर्घृणा
किमर्थं हि कृतं पापे कस्यहेतोर्वदस्व मे ॥४२॥
निःशंका वर्त्तसे चापि प्रमत्ता गिरिकानने
मया त्वं साधिता पापा दंडेन महता शृणु ॥४३॥
अधर्मचारिणी दुष्टा पतिं त्यक्त्वा समागता
क्वास्ते तत्पतिदेवत्वं दर्शय त्वं ममाग्रतः ॥४४॥
भवती पुंश्चली नाम यया त्यक्तः स्वकः पतिः
पृथक्छय्या यदा नारी तदा सा पुंश्चली मता ॥४५॥
योजनानां शतैकस्य सोन्तरेण प्रवर्त्तते
क्वास्ति ते पतिदैवत्यं पुंश्चल्याचारचारिणी ॥४६॥
निर्लज्जे निर्घृणे दुष्टे किं मे वदसि संमुखी
तपसः क्वास्ति ते भावः क्व तेजोबलमेव च ॥४७॥
दर्शयस्व ममाद्यैव बलवीर्यपराक्रमम्
पद्मावत्युवाच-
स्नेहेनापि समानीता श्रूयतामसुराधम ॥४८॥
भर्तुर्गेहादहं पित्रा क्वास्ते तत्र च पातकम्
नैव कामान्न लोभाच्च न मोहान्न च मत्सरात् ॥४९॥
आगताहं पतिं त्यक्त्वा पतिभावेन संस्थिता
भर्तृरूपच्छलेनापि त्वयैव परिवंचिता ॥५०॥
भवंतं माथुरं ज्ञात्वा गताहं सम्मुखं तव
मायाविनं यदा जाने त्वामेवं दानवाधम ॥५१॥
एकेन हुंकृतेनैव भस्मीभूतं करोम्यहम्
गोभिल उवाच-
चक्षुर्हीना न पश्यंति मानवाः शृणु सांप्रतम् ॥५२॥
धर्मनेत्रविहीना त्वं कथं जानासि मामिह
यदा ते भाव उत्पन्नः पितुर्गेहं प्रति शृणु ॥५३॥
पतिध्यानं परित्यज्य मुक्ता ध्यानेन त्वं तदा
ज्ञाननेत्रं तदा नष्टं स्फुटं च हृदये तव ॥५४॥
कथं मां त्वं विजानासि ज्ञानचक्षुर्हता भुवि
कस्या माता पिता भ्राता कस्याः स्वजनबांधवाः ॥५५॥
सर्वस्थाने पतिर्ह्येको भार्यायास्तु न संशयः
इत्युक्त्वा हि प्रहस्यैव गोभिलो दानवाधमः ॥५६॥
न भयं विद्यते तेऽद्य ममापि शृणु पुंश्चलि
किं भवेत्तव शापेन वृथैव परिकंपसे ॥५७॥
ममगेहं समाश्रित्य भुंक्ष्व भोगान्मनोऽनुगान्
पद्मावत्युवाच-
गच्छ पापसमाचार किं त्वं वदसि निर्घृणः ॥५८॥
सतीभावेन संस्थास्मि पतिव्रतपरायणा
धक्ष्यामि त्वां महापाप यद्येवं तु वदिष्यसि ॥५९॥
एवमुक्त्वा तथैकांते निषसाद महीतले
दुःखेन महताविष्टां तामुवाच स गोभिलः ॥६०॥
तवोदरे मया न्यस्तं स्ववीर्यं सुकृतं शुभे
तस्मादुत्पत्स्यते पुत्रस्त्रैलोक्यक्षोभकारकः ॥६१॥
एवमुक्त्वा जगामाथ गोभिलो दानवस्तदा
गते तस्मिन्दुराचारे दानवे पापचारिणी ॥६२॥
दुःखेन महताविष्टा नृपकन्या रुरोद ह ॥६३॥
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे पंचाशत्तमोऽध्यायः ॥५०॥
N/A
References : N/A
Last Updated : October 26, 2020
TOP