संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ११४

भूमिखंडः - अध्यायः ११४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
अथ ते दानवाः सर्वे हुंडस्य परिचारकाः
नहुषस्यापि संवादं रंभया तु यथाश्रुतम् ॥१॥
आचचक्षुश्च दैत्येंद्रं हुंडं सर्वं सुभाषितम्
तमाकर्ण्य स चुक्रोध दूतं वाक्यमथाब्रवीत् ॥२॥
गच्छ वीर ममादेशाज्जानीहि पुरुषं हि तम्
संभाषते तया सार्द्धं पुरुषः शिवकन्यया ॥३॥
स्वामिनिर्देशमाकर्ण्य जगाम लघुदानवः
विविक्ते नहुषं वीरमिदं वचनमब्रवीत् ॥४॥
रथेन साश्वसूतेन दिव्येन परितिष्ठति
धनुषा दिव्यबाणैस्तु सभायां हि भयंकरः ॥५॥
कस्य केन तु कार्येण प्रेषितः केन वैभवान्
अनया रंभया तेऽद्य अन्यया शिवकन्यया ॥६॥
किमुक्तं तत्स्फुटं सर्वं कथयस्व ममाग्रतः
हुंडस्य देवमर्दस्य न बिभेति भवान्कथम् ॥७॥
एतन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छसि
सत्वरं गच्छ मा तिष्ठ दुःसहो दानवाधिपः ॥८॥
नहुष उवाच-
योऽसावायुर्बली राजा सप्तद्वीपाधिपः प्रभुः
तस्य मां तनयं विद्धि सर्वदैत्यविनाशनम् ॥९॥
नहुषं नाम विख्यातं देवब्राह्मणपूजकम्
हुंडेनापहृतं बाल्ये स्वामिना तव दानव ॥१०॥
सेयं कन्या शिवस्यापि दैत्येनापहृता पुरा
घोरं तपश्चरत्येषा हुंडस्यापि वधाय च ॥११॥
योहमादौ हृतो बालस्त्वया यः सूतिकागृहात्
दास्या अपि करे दत्तः सूदस्यापि दुरात्मना ॥१२॥
वधार्थं श्रूयतां पाप सोहमद्य समागतः
अस्यापि हुंडदैत्यस्य दुष्टस्य पापकर्मणः ॥१३॥
अन्यांश्च दानवान्घोरान्नयिष्ये यमसादनम्
मामेवं विद्धि पापिष्ठ एवं कथय दानवम् ॥१४॥
एवमाकर्ण्य तत्सर्वं नहुषस्य महात्मनः
गत्वा हुंडं स दुष्टात्मा आचचक्षेऽस्य भाषितम् ॥१५॥
निशम्य तन्मुखात्तूर्णं चुक्रोध दितिजेश्वरः
कस्मात्सूदेन पापेन तया दास्या न घातितः ॥१६॥
सोयं वृद्धिं समायातो मया व्याधिरुपेक्षितः
अथैनं घातयिष्यामि अनया शिवकन्यया ॥१७॥
आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः
एवं सचिंतयित्वा तु सारथिं वाक्यमब्रवीत् ॥१८॥
स्यंदनं योजयस्व त्वं तुरगैः साधुभिः शिवैः
सेनाध्यक्षं समाहूय इत्युवाच समातुरः ॥१९॥
सज्जतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय
सारोहैस्तुरगान्योधान्पताकाच्छत्रचामरैः ॥२०॥
चतुरंगबलं मेऽद्य योजयस्व हि सत्वरम्
एवमाकर्ण्य तत्तस्य हुंडस्यापि ततो लघुः ॥२१॥
सेनाध्यक्षो महाप्राज्ञः सर्वं चक्रे यथाविधि
चतुरंगेन तेनासौ बलेन महता वृतः ॥२२॥
जगाम नहुषं वीरं चापबाणधरं रणे
इंद्रस्य स्यंदने युक्तं सर्वशस्त्रभृतां वरम् ॥२३॥
उद्यंतं समरे वीरं दुरापं देवदानवैः
पश्यंति गगने देवा विमानस्था महौजसः ॥२४॥
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम्
सूत उवाच-
अथ ते दानवाः सर्वे ववृषुस्तं शरोत्तमैः ॥२५॥
खड्गैः पाशैर्महाशूलैः शक्तिभिस्तु परश्वधैः
युयुधुः संयुगे तेन नहुषेण महात्मना ॥२६॥
संरब्धा गर्जमानास्ते यथा मेघा गिरौ तथा
तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान् ॥२७॥
इंद्रायुधसमं चापं विस्फार्य स गुणस्वरम्
वज्रस्फोटसमः शब्दश्चापस्यापि महात्मनः ॥२८॥
नहुषेण कृतो विप्रा दानवानां भयप्रदः
महता तेन घोषेण दानवाः प्रचकंपिरे ॥२९॥
कश्मलाविष्टहृदया भग्नसत्वा महाहवे ॥३०॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने चतुर्दशाधिकशततमोऽध्यायः ॥११४॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP