भूमिखंडः - अध्यायः १०१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच-
देवदेवो हृषीकेशस्त्वंगपुत्रं नृपोत्तमम्
समाचष्ट महाश्रेय आख्यानं पापनाशनम् ॥१॥
श्रूयतामभिधास्यामि चरित्रं श्रेयदायकम्
द्विजस्यापि च वृत्तांतं कुंजलस्य महात्मनः ॥२॥
विष्णुरुवाच-
कुंजलश्चापि धर्मात्मा चतुर्थं पुत्रमेव च
समाहूय मुदायुक्त उवाचैनं कपिंजलम् ॥३॥
किं नु पुत्र त्वया दृष्टमपूर्वं कथयस्व मे
भोजनार्थं तु यासि त्वमितः कस्मिन्सुतोत्तम ॥४॥
तदाचक्ष्व महाभाग यदि दृष्टं सुपुण्यदम्
कपिंजल उवाच-
यच्च तात त्वया पृष्टमपूर्वं प्रवदाम्यहम् ॥५॥
यन्न दृष्टं श्रुतं केन कस्मान्नैव श्रुतं मया
तदिहैव प्रवक्ष्यामि श्रूयतामधुना पितः ॥६॥
शृण्वंतु भ्रातरः सर्वे मातस्त्वं शृणु सांप्रतम्
कैलासः पर्वतश्रेष्ठो धवलश्चंद्र सन्निभः ॥७॥
नानाधातुसमाकीर्णो नानावृक्षोपशोभितः
गंगाजलैः शुभैः पुण्यैः क्षालितः सर्वतः पितः ॥८॥
नदीनां तु सहस्राणि दिव्यानि विविधानि च
यस्मात्तात प्रसूतानि जलानि विविधानि च ॥९॥
तडागानि सहस्राणि सोदकानि महागिरौ
नद्यः संति विशालिन्यो हंससारससेविताः ॥१०॥
तस्मिञ्छिखरिणां श्रेष्ठे पुण्यदाः पापनाशनाः
वनानि विविधान्येव पुष्पितानि फलानि च ॥११॥
नानावृक्षोपयुक्तानि हरितानि शुभानि च
किन्नराणां गणैर्युक्तश्चाप्सरोभिः समाकुलः ॥१२॥
गंधर्वचारणैः सिद्धैर्देववृंदैः सुशोभितः
दिव्यवृक्षवनोपेतो दिव्यभावैः समाकुलः ॥१३॥
दिव्यगंधैः सुशोभाढ्यैर्नानारत्नसमन्वितः
शिलाभिः स्फटिकस्यापि शुक्लाभिस्तु सुशोभनः ॥१४॥
सूर्यतेजोमयो राजंस्तेजोभिस्तु समाकुलः
चंदनैश्चारुगंधैश्च बकुलैर्नीलपुष्पकैः ॥१५॥
नानापुष्पमयैर्वृक्षैः सर्वत्र समलंकृतः
पक्षिणां सुनिनादैश्च दिव्यानां मधुरायते ॥१६॥
षट्पदानां निनादैश्च वृक्षौघैर्मधुरायते
रुतैश्च कोकिलानां तु शोभते स वनो गिरिः ॥१७॥
गणकोटिसमाकीर्णं तत्रास्ति शिवमंदिरम्
अंशुभिर्धवलं पुण्यं पुण्यराशिशिलोच्चयम् ॥१८॥
सिंहैश्च गर्जमानैश्च सैरिभैः कुंजरैस्ततः
दिग्गजानां सुघोषैश्च शब्दितं च समंततः ॥१९॥
नानामृगैः समाकीर्णं शाखामृगगणाकुलम्
मयूरकेकाघोषैश्च गुहासु च विनादितम् ॥२०॥
कंदरैर्लेपनैः कूटैः सानुभिश्च विराजितम्
नानाप्रस्रवणोपेतमोषधीभिर्विराजितम् ॥२१॥
दिव्यं दिव्यगुणं पुण्यं पुण्यधाम समाकुलम्
सेवितं पुण्यलोकैश्च पुण्यराशिं महागिरिम् ॥२२॥
पुलिंदभिल्लकोलैश्च सेवितं पर्वतोत्तमम्
विकटैः शिखरैः कोटैरद्रिराजः प्रकाशते ॥२३॥
अन्यैर्नानाविधैः पुण्यैः कौतुकैर्मंगलैः शुभैः
गंगोदकप्रवाहैश्च महाशब्दं प्रसुस्रुवे ॥२४॥
शंकरस्य गृहं तत्र कैलासं गतवानहम्
तत्राश्चर्यं मया दृष्टं यन्न दृष्टं कदा श्रुतम् ॥२५॥
श्रूयतामभिधास्यामि तात सर्वं मयोदितम्
शिखराद्गिरिराजस्य मेरोः पुण्यान्महोदयात् ॥२६॥
हिमक्षीरसुवर्णस्तु प्रवाहः पतते भुवि
गंगायाश्च महाभाग रंहसा घोषभूषितः ॥२७॥
कैलासस्य शिरः प्राप्य तत्र विस्तरतां गतः
दशयोजनमानेन तत्र गंगा ह्रदो महान् ॥२८॥
महातोयेन पुण्येन विमलेन विराजते
सर्वतोभद्रतां प्राप्तो महाहंसैः प्रशोभते ॥२९॥
सामोच्चारेण पुण्येन दिव्येन मधुरेण च
हंसास्तत्र प्रकूजंति सरस्तेन विराजते ॥३०॥
तस्य तीरे शिलायां वै हिमकन्या महामते
आसीना मुक्तकेशांता रूपद्रविणशालिनी ॥३१॥
दिव्यरूपसुसंपन्ना सगुणा दिव्यलक्षणा
दिव्यालंकारभूषा च तस्यास्तीरे विराजते ॥३२॥
न जाने गिरिराजस्य तनया वा महोदधेः
नो वास्ति ब्रह्मणः पत्नी सा वा स्वाहा भविष्यति ॥३३॥
इंद्राणी वा महाभागा रोहिणी वा भविष्यति
ईदृशी रूपसंपत्तिर्युवतीनां न दृश्यते ॥३४॥
अन्यासां च सुदिव्यानां नारीणां तात सर्वथा
यादृशं रूपसंभावं गुणशीलं प्रदृश्यते ॥३५॥
अप्सरसां कदा नास्ति तादृशं रूपलक्षणम्
यादृशं तु मया दृष्टं तदंगं विश्वमोहनम् ॥३६॥
शिलापदे समासीना दुःखेनापि समाकुला
रुदते सुस्वरैर्बाला अनेकैः स्वजनैर्विना ॥३७॥
अश्रूणि मुंचमाना सा मुक्ताभानि बहूनि च
निर्मलानि सरस्यत्र पतंत्येव महामते ॥३८॥
बिंदवो मौक्तिकाभास्ते निपतंति महोदके
तेभ्यो भवंति पद्मानि हृद्यानि सुरभीणि तु ॥३९॥
पद्मानि जज्ञिरे तेभ्यो नेत्राश्रुभ्यो महामते
गंगांभसि तरंत्येव असंख्यातानि तानि तु ॥४०॥
पतितानि सुहृद्यानि रंहसा यानि तानि तु
गंगाप्रवाहमध्ये तु हंसवृंदैः सुसेविते ॥४१॥
भागीरथ्याः प्रवाहस्तु तस्मात्स्थानाद्विनिर्गतः
कैलासशिखरं प्राप्य रत्नाख्यं चारुकंदरम् ॥४२॥
वर्तते तोयपूर्णस्तु योजनद्वयविस्तृतः
हंसवृंदसमाकीर्णो जलपक्षि समाकुलः ॥४३॥
नानावर्णविशेषाणि संति पद्मानि तत्र च
प्रवाहे निर्मले तात मुनिवृंदनिषेविते ॥४४॥
अश्रुभ्यो यानि जातानि प्रभाते कमलानि तु
गंगोदकप्लुतान्येव सौरभाणि महांति च ॥४५॥
प्रतरंति प्रवाहे तु निर्मले जलपूरिते
मध्ये मध्ये सुहंसैश्च जलपक्षिनिनादिते ॥४६॥
सूत उवाच-
रत्नाख्ये तु गिरौ तस्मिन्रत्नेश्वरमहेश्वरः
देवदैत्यसुपूज्योपि तिष्ठते तात सर्वदा ॥४७॥
तत्र दृष्टो मया तात कश्चित्पुण्यमयो मुनिः
जटाभारसमाक्रांतो निर्वासा दंडधारकः ॥४८॥
निराधारो निराहारस्तपसातीव दुर्बलः
कृशांगोऽप्यस्थिसंघातस्त्वचामात्रेण वेष्टितः ॥४९॥
भस्मोद्धूलितमात्राणि सर्वांगानि महात्मनः
शुष्कपत्राणि भक्षेत शीर्णानि पतितानि च ॥५०॥
शिवभक्तिसमासीनो दुराधारो महातपाः
अश्रुभ्यो यानि जातानि पद्मानि सुरभीणि च ॥५१॥
गंगातोयात्समानीय देवदेवं प्रपूजयेत्
रत्नेश्वरं महाभागो गीतनृत्यविशारदः ॥५२॥
गायते नृत्यते तस्य द्वारस्थस्त्रिपुरद्विषः
मठमागत्य धर्मात्मा रोदते सुस्वरैरपि ॥५३॥
एतद्दृष्टं मया तात अपूर्वं वदतांवर
कथयस्व प्रसादान्मे यदि त्वं वेत्सि कारणम् ॥५४॥
सा का नारी महाभागा कस्मात्तात प्ररोदिति
कस्मात्स देवपुरुषो देवमर्चेन्महेश्वरम् ॥५५॥
तन्मे त्वं विस्तराद्ब्रूहि सर्वसंदेहकारणम्
एवमुक्तो महाप्राज्ञः कुंजलोपि सुतेन हि ॥५६॥
कपिंजलेन प्रोवाच विस्तराच्छृण्वतो मुनेः ॥५७॥
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये- च्यवनचरित्रे एकाधिकशततमोऽध्यायः ॥१०१॥
N/A
References : N/A
Last Updated : October 29, 2020
TOP