संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः २३

भूमिखंडः - अध्यायः २३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ऋषय ऊचुः-
विचित्रेयं कथा पुण्या धन्या यशोविधायिनी
सर्वपापहरा प्रोक्ता भवता वदतां वर ॥१॥
सृष्टिसंबंधमेतन्नस्तद्भवान्वक्तुमर्हति
पूर्वमेव यथासृष्टिर्विस्तरात्सूतनंदन ॥२॥
सूत उवाच-
विस्तरेण प्रवक्ष्यामि सृष्टिसंहारकारणम्
श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेत् ॥३॥
हिरण्यकश्यपेनापि व्यापितं भुवनत्रयम्
तपसाराध्य प्रबह्माणं वरं प्राप्तं सुदुर्लभम् ॥४॥
तस्माद्देवान्महाभागादमरत्वं तथैव च
देवाँल्लोकान्स संव्याप्य प्रभुत्वं स्वयमर्जितम् ॥५॥
ततो देवाः सगंधर्वा मुनयो वेदपारगाः
नागाश्च किन्नराः सिद्धा यक्षाश्चैव तथापरे ॥६॥
ब्रह्माणं तु पुरस्कृत्य जग्मुर्नारायणं प्रभुम्
क्षीरसागरसंसुप्तं योगनिद्रां गतं प्रभुम् ॥७॥
तं संबोध्य महास्तोत्रैर्देवाः प्रांजलयस्तथा
संबुद्धे सति देवेशे वृत्तं तस्य दुरात्मनः ॥८॥
आचचक्षुर्महाप्राज्ञ समाकर्ण्य जगत्पतिः
नृसिंहरूपमास्थाय हिरण्यकशिपुं व्यहन् ॥९॥
पुनर्वाराहरूपेण हिरण्याक्षो महाबलः
उद्धृता वसुधा पुण्या असुरो घातितस्तदा ॥१०॥
अन्यांश्चघातयामास दानवान्घोरदर्शनान्
एवं चैतेषु नष्टेषु दानवेषु महत्सु च ॥११॥
अन्येषु तेषु नष्टेषु दितिपुत्रेषु वै तदा
पुनः स्थानेषु प्राप्तेषु देवेषु च महत्सु च ॥१२॥
यज्ञेष्वेव प्रवृत्तेषु सर्वेषु धर्मकर्मसु
सुस्थेषु सर्वलोकेषु सा दितिर्दुःखपीडिता ॥१३॥
पुत्रशोकेन संतप्ता हाहाभूता विचेतना
भर्तारं सूर्यसंकाशं तपस्तेजः समन्वितम् ॥१४॥
दातारं च महात्मानं भर्तारं कश्यपं तदा
भक्त्या प्रणम्य विप्रेन्द्र तमुवाच महामतिम् ॥१५॥
भगवन्नष्टपुत्राहं कृता देवेन चक्रिणा
दैतेया दानवाः सर्वे देवैश्चैव निपातिताः ॥१६॥
पुत्रशोकानलेनाहं संतप्ता मुनिसत्तम
ममानंदकरं पुत्रं सर्वतेजोहरं विभो ॥१७॥
सुबलं चारुसर्वांगं देवराजसमप्रभम्
बुद्धिमंतं सुसर्वज्ञं ज्ञातारं सर्वपंडितम् ॥१८॥
तपस्तेजः समायुक्तं सबलं चारुलक्षणम्
ब्रह्मण्यं ज्ञानवेत्तारं देवब्राह्मणपूजकम् ॥१९॥
जेतारं सर्वलोकानां ममानंदकरं द्विज
सर्वलक्षणसंपन्नं पुत्रं मे देहि त्वं विभो ॥२०॥
एवमाकर्ण्य वै तस्याः कश्यपो वाक्यमुत्तमम्
कृपाविष्टमनास्तुष्टो दुःखिताया द्विजोत्तम ॥२१॥
तामुवाच महाभाग कृपणां दीनमानसाम्
तस्याः शिरसि संन्यस्य स्वहस्तं भावतत्परः ॥२२॥
भविष्यति महाभागे यादृशो वांछितः सुतः
एवमुक्त्वा जगामासौ मेरुं गिरिवरोत्तमम् ॥२३॥
तपस्तेपे निरालंबः साधयन्परमव्रतः
एतस्मिन्नंतरे सा तु दधार गर्भमुत्तमम् ॥२४॥
सा दितिः सर्वधर्मज्ञा चारुकर्मा मनस्विनी
शतवर्षप्रमाणं सा शुचि स्वांता बभूव ह ॥२५॥
तया वै जनितः पुत्रो ब्रह्मतेजः समन्वितः
अथ कश्यप आयातो हर्षेण महतान्वितः ॥२६॥
चकार नाम मेधावी तस्य पुत्रस्य सत्तमः
बलमित्यब्रवीत्पुत्रं नामतः सदृशो महान् ॥२७॥
एवं नाम चकाराथ व्रतबंधं चकार सः
प्राह पुत्र महाभाग ब्रह्मचर्यं प्रसाधय ॥२८॥
एवमेवं करिष्यामि तव वाक्यं द्विजोत्तम
वेदस्याध्ययनं कुर्यां ब्रह्मचर्येण सत्तम ॥२९॥
एवं वर्षशतं साग्रं गतं तस्य तपस्यतः
मातुः समक्षमायातस्तपस्तेजः समन्वितः ॥३०॥
तपोवीर्यमयं दिव्यं ब्रह्मचर्यं महात्मनः
दितिः पश्यति पुत्रस्य हर्षेण महतान्विता ॥३१॥
तमुवाच महात्मानं बलं पुत्रं तपस्विनम्
मेधाविनं महात्मानं प्रज्ञाज्ञानविशारदम् ॥३२॥
त्वयि जीवति मेधाविन्प्रजीवंति सुता मम
हिरण्यकशिपाद्यास्ते ये हताश्चक्रपाणिना ॥३३॥
वैरं साधय मे वत्स जहि देवान्रिपून्रणे
सा दनुस्तमुवाचेदं बलं पुत्रं महाबलम् ॥३४॥
आदाविंद्रं हि देवेंद्रं द्रुतं सूदय पुत्रक
पश्चाद्देवा निपात्यंतां ततो गरुडवाहनः ॥३५॥
तयोराकर्ण्य सा देवी अदितिः पतिदेवता
दुःखेन महताविष्टा पुत्रमिंद्रमभाषत ॥३६॥
दितिपुत्रो महाकायो वर्द्धते ब्रह्मतेजसा
देवानां हि वधार्थाय तपस्तेपे निरंजने ॥३७॥
एवं जानीहि देवेश यदि क्षेममिहेच्छसि
एवमाकर्ण्य तद्वाक्यं स मातुः पाकशासनः ॥३८॥
चिंतामवाप दुःखेन महतीं देवराट्तदा
महाभयेन संत्रस्तश्चिंतयामास वै ततः ॥३९॥
कथमेनं हनिष्यामि देवधर्मविदूषकम्
इति निश्चित्य देवेशो बलस्य निधनं प्रति ॥४०॥
एकदा हि बलः सोपि संध्यार्थं सिंधुमाश्रितः
कृष्णाजिनेन दिव्येन दंडकाष्ठेन राजितः ॥४१॥
अमलेनापि पुण्येन ब्रह्मचर्येण तेन सः
सागरस्योपकंठे तं संध्यासनमुपागतम् ॥४२॥
जपमानं सुशांतं तं ददृशे पाकशासनः
वज्रेण तेन दिव्येन ताडितो दितिनंदनः ॥४३॥
बलं निपतितं दृष्ट्वा गतसत्वं गतं भुवि
हर्षेण महताविष्टो देवराण्मुमुदे तदा ॥४४॥
एवं निपात्य तं दैत्यं दितिनंदनमेव च
राज्यं चकार धर्मात्मा सुखेन पाकशासनः ॥४५॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे बल-दैत्यवधोनाम त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP