अथ कर्षण विधिः: उच्यते-
एवं ग्रामादि कल्पयित्वा, तन्मध्ये मन्दिरनिर्माणार्थं पूर्वोक्तां भूंमि प्रवेश बलिपूर्वकम्
आसाद्य तां प्रदक्षिणीकृत्य,
यक्षा: पिशाचा: नागाश्च येऽत्र तिष्ठन्ति सर्वदा।
सर्वे प्रयांतु तेऽन्यत्र विष्णो: स्थानं करोम्यहम्।
इति मंत्रेण अस्त्रमंत्रसंसिद्धान् सिद्धार्थान् सर्वत: दिक्षु विकीर्य, पूर्ववत् वास्तु पूजां होमं च
बल्यन्तम् कृत्वा। अनन्तरम् आचार्य: वक्ष्यमाणेन विधिना हलेन भूमिं
विलिखेत्।यजमान: ब्राह्मणश्चेत् अनङ्वाहौ गौरवर्णौ।यदिक्षत्रिय: लोहितौ। यदि वैश्य:
पीतौ। यदि शूद्र: मेचकौ। उक्तवर्णानां अलाभे कपिलौ गौरौ रक्तौ वा। तौ महान्तौ
बलशालिनौ वृषभौ क्षालयित्वा। खुर
शृङ्गादीनि कनकमयै: भूषणै: भूषयेत् ।
ब्राह्मणो यजमान: चेत् युगं हलं च पालाशम्, क्षत्रिय: यदि नैयग्रोधम्, यदि वैश्य:
प्लाक्षम्, सर्वेषां वर्णानां नैयग्रोध पैप्पले वा स्याताम्।सर्वेषां कौशिक: सौवर्णा योक्त्रं राजतं
ताम्रं वा।कुशा:, धनुज्र्या, वीरण्य:, काशाश्च यथावर्णम् क्रमात् रज्जु:। हलभूतमध्यौ
एकयोनिके।सर्वं एवं कृत्वा। तत: स्नात: नवांबरधर: सर्वालङ्कारसंयुक्त: आचार्य: पादौ
प्रक्षाळ्य। आचम्य। प्राणानायम्य. भूतशुद्धिं कृत्वा। ब्राह्मणै: अनुज्ञात: मन्त्रज्ञै: वैष्णवै:
सह पुण्याहं वाचयित्वा। तज्जलेन सर्वं द्रव्यजातं आत्मानं च प्रोक्ष्य। मूलमन्त्रेण
वृषस्कन्धे युगं संयोज्य। तेनैव मन्त्रेण हलं युगे संयोज्य। सुमुहूर्ते भेरी पटह शङ्खादिवाद्य
घोषपुरस्सरं शाकुन सूक्तादि वेदघोषसहितं प्राङ्मुखः गुरु: हृदयकमले नारायणं ध्यायन्।
पालाशादि दण्डं प्रवहणं कृत्वा। तत: तोदनं आदाय। हुंफडादिना आपीड्य। प्राङ्मुखः
मूलविद्यया प्रथमं कर्षयेत्। पौरुषेण सूक्तेन द्वितीयं, विष्णुसूक्तेन तृतीयं, विष्णु गाय र्त्या
तुरीयम्, नारायणानुवाकेन पञ्चमम्, पञ्चोपनिषन्मंत्रै: षष्टम्, भूसूक्तेन सप्तमम् कर्षणम्।
सर्वं प्रादक्षिण्य क्रमेण। दक्षिणोत्तरतश्च एवं कर्षयेत्। तत्काले निमित्तानि परीक्षेत्।
आचार्यस्यमनस्तुष्टि: मन्दिर यजमानयो: शर्मणे भवेत् । तद्विपर्ययश्च असुखाय।
अनडुहो: शयने, योक्त्रादिभेदने, व्यत्यासभ्रमणे, अन्यनिमित्तोदये च सर्व दोषशान्त्यर्थं
पञ्चोपनिषदा सर्पिषा शतमाहुतीनां जुहुयात्। तत: आचार्य: यजमानश्च ब्राह्मणान्
तोषयित्वा।तां भुवं महतायत्नेन समीकृत्य, पृथक् पृथक् आलवालानि जलकुल्यायुतानि
कारयित्वा। तोयेन आसिच्य। तत्र शाली मुद्ग यवादि बीजानि वापयेत्। तदभिवृद्ध्यर्थं
प्रतिदिनं महताजलेन संसिच्य। परिपाकावसानिकं रक्षेत्।तत: फलानि पक्वानि लूत्वा।
फलरहितं क्षेत्रं गाः समानीय चारयेत्। सस्य भूरिफले तद्धाम दीर्घकालं भविष्यति।
अल्पे तु अल्पतरं कालम्। हरे: सन्निधानं च पूर्ववदेव। फलहीने
प्रक्षीणधनधान्यकम्।तत्र सहस्रं शतं वा ब्राह्मणान् भोजयित्वा। तेभ्यश्च गो धनादि
दक्षिणान् वितीर्य। पञ्चगव्येन पञ्चोपनिषदा तत्क्षेत्रं संप्रोक्ष्य। कुद्दालै: खनित्रै: वा, यावंब:
तावत् भूमिं खनेत्। यावत् प्रथमावरण विस्तार: तावत् दण्डमात्रं वा क्षेत्रदोषानुरूप्येण,
मन्दिरोच्छ्रायानुगुण्येन वा, भूतले खन्यमाने ;भस्माङ्गार तुषदुष्ट सत्वक्रिमि कीटादि
दर्शने घृतादिना शान्ति होमं कृत्वा;ब्राह्मणेभ्य: यथाशक्ति सुवर्णादि दक्षिणां दद्यात्।
रत्नादि दर्शने धाम सदासमृद्धं भवेत्।खातात् बहि: चतुरश्रे स्थण्डिले अग्निं प्रतिष्ठाप्य,
मूलमन्त्रेण आज्येन नृसूक्तेन चरुणा गुग्गुलु तिल नीवारै: मूलमन्त्रेण च खातहोमं कृत्वा।
पुण्याहं वाचयित्वा प्रोक्ष्य। शालीन् खाते प्रक्षिप्य।तदुपरि वस्त्रसूत्रादि वेष्टितान्
लोहमयान् मृण्मयान् वा कुम्भान् नव संस्थाप्य।आधारशक्तिं सौवर्णीं मध्यकुम्भे
निक्षिप्य।प्राच्यां बीजानि आग्नेय्यां सर्वलोहानि, दक्षिणे सर्वधातून्, नैॠते पुण्यतीर्थमृदम्,
वारुणे मधु, वायवीये सर्पि:, उत्तरस्यां दिशि रत्नानि, ऐशाने शैलमृत्तिकां च निक्षिप्य।
पुनश्च मध्ये शालिक्षेत्र मृदम् आशोष्य ह्रदसंभूतां मृदम् वल्मीकमृदम् उत्पलकन्दानि च
प्राङ्मुखः स्थित्वा निक्षिप्य। तत्र लोहानि रत्नानि दर्भकूर्चं च निक्षिप्य शरावेण
पिदाय।मध्यकुम्भस्य उपरि अन्य कुंभम् निधाय, तस्मिन् सौवर्णं कूर्मकालाग्निं
निक्षिप्य।तस्य उपरि कुम्भं अन्यं निधाय।
तस्मिन् सौवर्णीं अनन्ताकृतिं निक्षिप्य। तदुपरि च अन्यं कुम्भं तस्मिन् सौवर्णीं वसुधां
तदुपरि च अन्यं कुंभं तस्मिन् सौवर्णे अंबुजं च निक्षिप्य।सर्वान् गन्धोदकेन
संपूर्य।पुण्याभिः खात मृद्भिः अदुष्टाभिः वालुकाभिश्च पूरयित्वा। जलै: खात भूतलं
संपूर्य। हस्तिपादैः धृडीकृत्य।पुन: जलेन परिपूरयेत्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव
चन्द्रिकायां कर्षणविधिः नाम द्वितीयः परिच्छेदः