अथ बलिपीठनिर्माण विधिः उच्यते-
बलिपीठिकां गर्भमन्दिरसमायाम विस्तारां, तदर्धां, तुरीयांश समां वा, यद्वा गर्भमन्दिरं
पञ्चधा विभज्य। तद्व्यंशां एकांशां वा अथवा नवसु एकभागसमां यद्वा हस्तवशेन
एकहस्तावरां, पञ्चहस्तपरां वा विस्तार द्विगुणोत्सेधां, त्रिगुणोत्सेधां, अर्धार्धिकां,
विस्तारतुल्योत्सेधां वा, पञ्चाङ्गकल्पनोपेताम्, कपोतभूतमाला हंसमालादि विराजितां
निर्माय, तदग्रविस्तृतिं त्रेधा विभज्य, द्वाभ्यां पंकजं विधाय।
पीठिकाकोणेषु गरुडान् सिह्मान् वा प्रागादिषु विघ्नराडीशपक्षीश दुर्गाः यथोन्नति पार्श्वे
सोपानपङ्क्तीश्च कल्पयेत्।
बलिपीठप्रतिष्ठा विधिः उच्यते-
एवं पीठिकां गोपुरास्थानमण्डपयोः मध्ये कल्पयित्वा। यथायोगं अष्टसु दिक्षु बलिपीठानि
तालद्वयेन विस्तारायामयुतानि प्रत्येकं चतुरङ्गुलोन्नत मेखलात्रययुतानि, तन्मध्ये
वृत्ताकारेण चतुरश्राकारेण वा चतुरङ्गुलायाम विस्तारकर्णिकायुतानि च कृत्वा।
गेहस्यपरितः पूर्वाद्यासु संस्थापयेत् । माहापीठस्य पश्चिमभागे ध्वजस्तंभस्य
पीठं च निर्मिमीत। प्रासादाभिमुखः स्तंभः कल्पनीयः। यथा
पूर्वाभिमुखे देवे प्रत्यङ्मुखः, पश्चिमाभिमुखे देवे पूर्वाभिमुखः, सर्वं संस्थाप्य। आचार्यः
वास्तुहोमाङ्कुरावापनादिकं सर्वं क्रियाकलापं शान्तिहोमावसानिकं मन्दिरस्य इव कृत्वा।
ततः प्रभाते सुमुहूर्ते मूलविद्यया महाकुम्भजलेन पीठं कूर्चेन सम्प्रोक्ष्य। तस्मिन् प्राच्यां
विघ्नराजाय नमः,दक्षिणे ओं ईशानाय नमः,पश्चिमे ओं पक्षिराजाय नमः,उत्तरे ओं दुर्गायै
नमः, मध्यकर्णिकायां ओं सर्वेभ्यः विष्णुपार्षदेभ्यः नमः इति प्रोक्ष्य। अष्टास्वपि दिक्षु
कुमुदादिगणेशान् स्वैः स्वैः अनुचरैः सह, स्वस्वमन्त्रेण आवाह्यसान्निध्यं प्राथ्र्य। तेषु
नित्यं बलिं दद्यात्। यजमानः यथाशक्ति ब्राह्मणान् भोजयित्वा। तेभ्यः दक्षिणां वितीर्य।
आचार्याय शतनिष्फां दक्षिणां दद्यात्।
अथ महानस प्रतिष्ठाविधिः-
आचार्यः तत्र वास्तुहोमादिकं सर्वं कृत्वा।धान्यराशौ सलक्षणं कुम्भं एकं विन्यस्य।
तस्मिन् मूलेन आवाह्य, अभ्यर्च्य। अग्निं संसाध्य। समिदाज्य चरुपायसैः प्रतिद्रव्यं
मूलमन्त्रेण अष्टोत्तरशताहुतीः हुत्वा। तत्रस्थानां देवानां चण्डप्रचण्ड क्षेत्रपालरुद्र गणेश
जृंभल मणिभद्र शिभिकुण्डल धर्म अधर्म धातृविधातृ लक्ष्म्याद्यानां होमपूर्वं
तत्वन्यासादिकं कर्म कृत्वा। चुल्लीषु ‘‘अग्निमीले इति मन्त्रेण अग्निं निदधीत। तत्र
पायसादीनां हविषां श्रपणं परिचारकाःकुर्युः।नित्यहोमार्थं कुण्डे अग्निं पुरस्तात्तन्त्रपूर्वकं
यथाविधि स्थापयित्वा। तदनु महाकुम्भजलेन चण्डादीनां न्यसनं कुर्यात्।
महानस द्वारे- ओं चण्डाय नमः, ओं प्रचण्डाय नमः,
दक्षिण पार्श्वे -ओं क्षेत्रपालाय नमः,ओं ईश्वराय नमः,उत्तरे-ओं गणपतये नमः,ओं
जृंभलाय नमः,पश्चिमे ओं मणिभद्राय नमः, ओं शिबिकुण्डलाय नमः, अन्येषु द्वारेषु
सत्सु, प्रासादद्वारवत् लक्ष्म्यादीनां कल्पनं चरेत्। चुल्याः वामे ओं धर्माय नमः,ओं
अधर्माय नमः,पृष्ठतःओं धात्रे नमः,अग्रेओं विधात्रे नमः, तत्रैव चुल्ल्याभिमुखं महालक्ष्म्यै
नमः, दीर्घचुल्यास्तु उभयोः पार्श्वयोः,धर्माऽधर्मौ कल्पयेत्।सर्वान् तान् अभ्यर्च्य। तत्र
स्थानि सकलानि पात्राणि कुम्भजलेन श्रीसूक्तेन प्रोक्षयेत्।गुरवे दक्षिणा च पूर्ववत्।
धान्यागार प्रतिष्ठा-
धान्यागार धनागार सारस्वतगृह मज्जनशाला पुष्पवाटिकासदन तांबूलकल्पन गृहतैल
स्थानादीनां धाम्नाम् शिल्पिभिः कल्पितानां आचार्यः शास्त्रोक्तेन विधिना वास्तुहोमादि
प्रोक्षणान्तं सर्वं मण्डपस्य इव कुर्यात्। दक्षिणाच यथावसु देया।
अथ वापीकूप तटाकप्रतिष्ठा-
तेषां भागे पश्चिमे चतुर्हस्तायामं एकहस्तोच्छ्रितां वेदिकां कल्पयित्वा। सुवर्णेन
अल्पकायं जलाधिदैवतं निर्माय। सुवर्णादिलोहजान् मृण्मयान् वा कलशान् सरत्न
लोहकूर्चापिधानान् नव धान्यराशौ संस्थाप्य।यथाविधि आवाह्य अभ्यर्च्य। तैः
जलाधिदैवतं विधिवत् स्नापयित्वा। तदनु वेदिकायां सलक्षणायां शाययित्वा। तत्र
महाकुम्भं संस्थाप्य। तस्मिन् जलाधिदैवतं आवाह्य अभ्यर्च्य। चतुर्षु कुण्डेषु एकस्मिन्
वा अग्निं उपसमिध्य।तत्र तं आवाह्य। तद्दैवत्यैः मन्त्रैः समिदाज्य चरुभिः पृथक्
अष्टोत्तरशताहुतीः हुत्वा। भूसुरैः वारुणसूक्तानि पाठयित्वा। ततः प्रभाते सुलग्ने पुण्याहं
वाचयित्वा। वाप्यादीन् प्रोक्ष्य। आचार्यः अमृतवारिभिः पूरितान् विचिन्त्य। ततः
सुवर्णादि लोहकृतानि मत्स्यकूर्मादीनि जलाधिदेवताप्रतिमां महाकुम्भं च वाप्यादिषु
निक्षिप्य।तत्र गङ्गादिसर्वसरितः स्वस्वमन्त्रैरेव आवाहयेत्। यजमानः गुरवे यथावसु
दक्षिणां दत्वा। तत्र ब्राह्मणान् भोजयित्वा। तेभ्यः अपि यथाशक्ति दक्षिणां दद्यात्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायांबलिपीठनिर्माण तत्प्रतिष्ठा-
महानसधान्यागार-वापीकूप तटाकप्रतिष्ठा- विधिः नाम त्रयोविंशः परिच्छेदः