श्रीमतेरामानुजाय नमः
दीक्षा विधिः
अथ तावत् दीक्षाविधिः उच्यते।
दीक्षामण्डपं प्रतिष्ठामण्डपवत् समध्यवेदिकं कल्पयित्वा। वेदिकायाः पश्चिमे तालत्रयात् बहिः,
ब्राह्मणस्यचेत् दीक्षा तालद्वय सम्मित चतुरश्रंकुण्डं, क्षत्रियस्य यदि गोकर्णयुग्मेन वृत्तं,
यदिवैश्यस्य वितस्तिभ्यां चतुरश्राकारं, पादजस्य प्रादेशद्वयेन त्रिकोणं च कुण्डं कल्पयित्वा ।
स्रुक्स्रुवौ च एवमेव वर्णानुपूर्वेण, एवं अन्यानि पात्राणि समिदादीन् यागसंभारान् च दशंयां
संपाद्य।तदनु एकादश्यां सायाह्ने दीक्षाचार्यः मण्डपे सर्वालङ्कारयुते पूर्ववत् द्वारतोरण
कुम्भादीन् संस्थाप्य.पूर्ववत् अङ्कुरावापनं कृत्वा।पुण्याहजलेन मध्यवेदिकां प्रोक्ष्य।
प्राणायामपूर्वकं तस्यां चन्दनार्द्राणि सूत्राणि प्रागायतानि सप्तदश तावन्ति उदगायतानि च
निपात्य । तेषु षट्पञ्चाशदुत्तरद्विशतपदेषु मध्ये षट्त्रिंशत् कोष्टानि संमृज्य।तन्मध्ये शङकुं
संस्थाप्य । वृत्तानि समानि पञ्चबिंबानि यथा स्युः तथा भ्रामयित्वा। तेषु प्रथमं बिम्बं
कर्णिकाक्षेत्रं। द्वितीयं त्रेधा विभज्य। तथा कृतेषु प्रथमं केसरान्तवलयं, द्वितीयं दलान्तवलयं,
तृतीयं नाभिमण्डलं ।
तन्नाभिमण्डलमपि त्रेधा विभज्य। तद्बहिः शिष्टेषु बिंबेषु अरक्षेत्रं द्वाभ्यां । तद्बहिः एकेन
नेमिमण्डलं च कल्पयित्वा । तद्बहिः अष्टाविंशति पदैः पीठिकां, तद्बहिः पङ्क्तिद्वयेन अशीतिपदैः
वीथिकां च कल्पयेत्।
तद्बहिः पङ्क्तिद्वितयेन द्वादशाधिकशतपदैः द्वयोः पङ्क्तयोः चतुरश्रं कृत्वा। तन्मध्ये पूर्वादि
उत्तरान्तं चतुश्चतुष्पदैः चतुर्द्वाराणि आग्नेयादिषु कोणेषु अपि तथैव च कृत्वा। द्वारपार्श्वयोः
बाह्यरथ्यायां द्वे द्वे अवान्तररथ्यायां एकैकं च परिमार्जयेत्। एवं चेत् अर्धशोभाः भवन्ति।
अर्धशोभयोः मध्ये बहिः पङ्क्तौ एकैकं आन्तर पङ्क्तौ त्रीणि च एवं चतुर्भिः पदैःशोभाः भवन्ति।
एवं चतसृषुदिक्षु शोभानां अष्टकं, अर्धशोभानां षोडशकं च कृत्वा। ततः वर्णकलापपरिपूरणं
कुर्यात्।
पञ्चरत्नैः धातुभिः वा तेषां चूर्णैः वा पञ्चवर्णैः पुष्पैः वा मण्डलपदानां परिपूरणंकुर्यात्।सितस्य
शाल्यादि तण्डुलपिष्टं, कृष्णस्य पुटदग्धं श्यामस्य क्षुण्णशुष्फपत्रचूर्णं, रक्तस्यकौसुम्भं,
पीतस्य हरिद्राचूर्णं, सर्वत्र वर्णानां इति अनुषङ्काः। पीतेनकर्णिकां, शुक्लैः बिन्दून् ।
कर्णिकारेखाः पाटलैः केसरावलिं द्विधाकृत्वा । श्वेतेन पूर्वभागं, उत्तरं पीतेन, केसराणि शुक्लेन,
बिन्दून् रक्तेन, अष्टदलानि श्वेतेन। दलान्तानिरक्तैः दलान्तवलयं रक्तेनश्वेतेन वा
नाभिमण्डलत्रयं श्यामेन, पीतेन, रक्तेन, अरान्त वलयं कृष्णेन, द्वादशाराणि रक्तेन,
नेम्यन्तमेदिनीं सितेन, नेमिं द्वेधा कृत्वा। कृष्णेनपूर्वभागं, उत्तरंसितेन, अन्तरालानि
श्यामेन।कृष्णेन पूर्वभागं, उत्तरं सितेन, अन्तरालानि श्यामेन कृष्णेन वा तद्बहिः पीठं पीतेन
पाटलेन श्वेतेन वा, तद्बहिः वीथिकां सितेन लतावितानयुतां, शोभाष्टकं रक्तेन, अर्धशोभाः
षोडश पीतेन, उत्तरादि द्वार चतुष्टयं क्रमेण शुक्ल. रक्त. पीत. कृष्णैः, कोणान् कृष्णेन च वर्णेन,
सर्वत्र अन्तरालानि कृष्णेन श्यामेन वा वर्णेन आपूर्य। चतुर्षुकोणेषु श्वेतेन शङ्कान् कृत्वा।ततः
मण्डलाराधनं कुर्यात्।
कर्णिकायां मन्त्राध्वानं अर्चयेत्।तत्सवरूपं तु द्वादशाक्षर अष्टाक्षर बलमन्त्र, विष्णुगायत्री,
सुदर्शनमन्त्र, पवित्रन्त्र, चतुर्मूर्तिमन्त्र, नृसिंहमन्त्र, राममन्त्र, कृष्णमन्त्र, वराहमन्त्रान् उच्चार्य
अर्चयेत्।
केसरेषु तत्वाध्वा अर्चनम्-जीवप्राणमनोबुद्धि-अहङ्कार शब्दस्पर्श रूप रस गन्ध श्रोत्र त्वक्चक्षु
जिह्वा घ्राण वाक्पाणिपादपायूपस्थ पृथिव्यप्तेजो वाय्वाकाशरूपाणि जीवतत्वानि धातृ विधातृ
मित्रावरुण भग विवस्वत्पूष सवितृ रवि त्वष्टृ विष्णु वीरभद्र , शंभु गिरीशशर्वोमापतीशान
हरस्थाणु भव शिव शूल्यादि रूपतत्वानि च प्रणवादि चतुर्थ्यन्तानि अर्चयेत्।
दलेष्वर्णाध्वाऽर्चनम्- ॐ कं नमः पराय इत्यारभ्य क्षं नमं पराय इत्यन्तेन नाभिभागे
पदाध्वाऽर्चनम्। तत्र केशवादीन् सप्तऋषीन् च, प्राच्यादिषु आदिवराह नारसिंह श्रीधर हयवक्त्र
भार्गवराम राघव वामनवासुदेवान् च, कुमुदादिसुप्रतिष्ठान्तांश्च, जयविजय चण्डप्रचण्ड भद्र
सुभद्र धातृ विधातृ सूर्यचन्द्र काम ब्रह्म विनायक षण्मुख दुर्गा कुबेर शंकरान्,
च,विमलोत्कर्षणी, ज्ञान, क्रिया, योगि प्रह्वी, सत्या, ईशाना अनुग्रहशक्तीश्च,
आदित्यादिकेत्वन्तान् च, लक्ष्मी सरस्वती रति शान्ति तुष्टि पुष्टि क्रिया कीर्ति वाराहीश्च,
प्रणवादिचतुर्थ्यन्तं अर्चयेत्।
अरेषु कलाध्वापूजनं तत्र अकारादि स्वरार्चनं कुर्यात्। नेमिभागे भुवनाध्वाऽर्चनं; तत्प्रकारस्तु
अतल वितल,सुतल, नितल महातल, रसातल, तलातल, पाताल,
भूर्भुवस्सुवर्महर्जनस्तपस्सत्यलोक गन्धर्वलोक, यक्षलोक, अप्सरलोक, किन्नरलोक, यमलोक,
निऋतिलोक वरुणलोक, रुद्रलोक, देवलोक, ब्रह्मलोक, शिवलोक, विष्णुलोक,
सदाविष्णुलोक, कुम्भीपाक, महारौरव, क्षुराल, सन्निमाल, शीतल उष्णजल सन्तपन तप्तलोह
शाल्मलीरूपधीयन्त्रधनुर्भिन्न, शुद्धनिरयान्, प्रणवादि चतुर्थ्यन्तं अर्चयेत्।
बिन्दुषु द्वादशाक्षराणि कर्णिकायां परमात्मानं केसरेषु श्री सरस्वति रति शान्ति प्रीति कीर्ति पुष्टि
तुष्टीः दलभूमिषु श्रीवत्सादि द्वादशशक्तीः दलस्य परितः व्याप्त्याद्याः, प्रथमनाभौ विष्णुं,
द्वितीये ब्रह्माणं, तृतीयेरुद्रं, द्वादशारेषुविष्ण्वादीन् द्वादश अरान्तवलये मत्स्यादि दशमूर्तीः,
प्रथम नेमिवलये शंखादीन्, आग्नेयादि पीठकोणचतुष्फे अनन्त,वराह नारसिंह हयग्रीवान्
लतावीथिकायां इन्द्रादिलोकपालान्, द्वारचतुष्फे चण्डादिद्वन्द्वं,वीथ्यां ईशाने विष्वक्सेनं,
पूर्वद्वारबाह्ये वैनतेयं, दक्षिणे पद्मं, पश्चिमे गदां, उत्तरे शंखं च प्रणवादिं चतुर्थ्यन्तैः स्वस्व मन्त्रैः
अर्चयेत्।
तदनु हेमादिमयं कुम्भं तादृशं करकं च मृण्मयं चेत् सूत्रवेष्टितं तद्युगलं गालितोदकेन आपूर्य।
न्यस्तरत्नसुवर्ण स्रवचन्दन परिष्फृतं अहतवास युग्मसंवेष्टितं कृत्वा। करकं अस्त्रमन्त्रेण
शतवारं अभिमन्त्य। अविच्छिन्नधारया वेदिकां परितः प्रादक्षिण्येन करकं तस्याः पृष्टतः कुम्भं
च नीत्वा। चक्रपद्मस्य ईशान कोणे धान्यराशौ दक्षिणे कलशं वामे करकं च सम्स्थाप्य।
(करके षडक्षरेण सुदर्शनं,अथ) कुम्भे मूलमन्त्रेण हरिं पीठकल्पनपूर्वकं आवाह्य अभ्यर्च्य।
मण्डले सांगं सपरिवारं परमात्मानं यथाविधि समभ्यर्च्य। तदनु अष्टाक्षरेण अग्निं मथित्वा।
कुण्डमध्ये निधाय । तत्र श्रृतं चरुं चतुर्धा विभज्य। भागमेकं मण्डलस्थाय हरये,कुम्भस्थाया
अंशंएकं च निवेद्य।अग्नौ एकंअंशं हुत्वा। गुरुः स्वयं एकं अंशं उपयुञ्जीत।तत्र अग्नौ समिधां
अष्टोत्तरशतं आज्याहुतीनां अपि तथा मूलमन्त्रेण चरुं पुरुष सूक्तेन हुत्वा। पूर्णाहुतिं कुर्यात्।
तदनु आचार्यः स्नातं जितक्रोधं मदादिरहितं शुचिं अहतक्षौमवसनं सोत्तरीयं अलंकृतं शिष्यं
आहूय नवेन वाससा नेत्रे स्वमन्त्रेण बद्ध्वा तं आत्मनः दक्षिणपार्श्वे प्राङ्मुखं विनिवेश्य। तेन
दर्भैः संस्पृष्टः सन् द्वादशाक्षरेण आज्य, चरु, समित्पुष्पतिलैः, द्वादशाहुतीः जुहुयात्। ततः
गुरुः शिष्यस्य मूर्धानं प्रसृतिमुद्रया त्रिः प्रादक्षिण्येन अष्टाक्षरेन स्पृशन् भस्मना पाण्डरेण
मूलमनुना शिरः स्पृष्ट्वा,शिष्यस्य ऊर्ध्वपुण्ड्रं विधाय। अस्त्रमन्त्रेण प्रतिसरं बद्ध्वा । शिष्यं
पञ्चगव्यं चरुं च प्रणवेन प्राशयित्वा। दन्तान् धावयित्वा । दन्तकाष्ठं भूमौ निपात्य
अवलोकयेत्।
नैऋत वारुणयाम्येषु यद्यग्रं अशुभं भवति। तदा नृसिंहमन्त्रेण तिलैः अष्टोत्तरशतं आहुतीनां
जुहुयात्। ततःगुरुःशिष्यं आचान्तं करे गृहीत्वा देवेशं प्रणम्य।
संसार पाश बद्धानां पशूनां पाशमोक्षणे।
त्वमेव शरणं देव गतिरन्या न विद्यते।
पाशमोक्षणहेतुर्यः त्वत्समाराधनात्मकः।
तेनेमान् जन्मपाशेन पाशितान् पशु जन्मनः।
विपाशयामि देवेश तदनुज्ञातुमर्हसि।
इति इमां गाथां उदीर्य. शुक्ल,कृष्णरक्तवर्णं तन्तुं त्रिगुणीकृत्य.पुनश्च त्रिगुणीकृतेन तेन
मायासूत्रेण शिष्यस्य शिखां उपक्रम्य।
पादान्तं पञ्चविंशति संख्यया मूलमन्त्रेण वेष्टयित्वा। तेनैव मन्त्रेण सर्पिषा अष्टोत्तरशतं
आहुतीश्च हुत्वा ।माषोदनेन भूतेभ्यः बलिं दत्वा।शिष्य नेत्रबन्धं देहबन्धं च विमोच्य ।
मायासूत्रं अन्यस्मिन्शरावे निधाय अन्येन पिधाय । कुम्भपार्श्वे निधाय।दर्भान् भूमौ संस्तीर्य ।
तत्रशिष्यं शाययेत् । तदा मण्डल कुण्डाग्निस्थ देवान् न उद्वासयेत्।
प्रभाते शिष्यस्य सुस्वप्नदर्शने सद्य एव दीक्षेत । दुस्वप्नदर्शने तु सद्यःगुरुः स्नात्वा यागमण्डपं
समासाद्य । दुस्वप्न दोषशान्त्यर्थं शान्ति होमंकरिष्ये इति संकल्प्य. पूर्ववत् शान्तिहोमंकृत्वा ।
पूर्ववत् तोरण, ध्वज कुम्भपूजनं कृत्वा । मन्डलस्थं कुम्भस्थं च देवं अभ्यर्च्य । चतुर्विधं अन्नं
निवेद्य । नत्वा प्रदक्षिणीकृत्य। शिष्यस्य नेत्रे पूर्ववत् बद्ध्वा । तं आत्मनः दक्षिणे पार्श्वं
प्रापय्य.समिदादिभिः मूलमन्त्रेण प्रत्येकं अष्टोत्तरशतं आहुतीनां हुत्वा। ततः मायासूत्रं
पञ्चविंशतिधा छित्वा । तेन प्रत्येकं अष्टोत्तरशतं अष्टकृत्वा । प्रकृत्यादीनि हुत्वा । गुरुः
स्वहृत्पद्मे परमपुरुषं ध्यायन् । तस्मिन् शिष्यजीवं संहारक्रमेणसंहृत्य । तस्य शोषणादि कृत्वा
। तदनु तत्व सृष्टिहोमपूर्वकं शिष्यस्य स्थूलशरीरंसृष्ट्वा । स्वहृदयस्थं मण्डले विचिन्त्य ।
मण्डलस्थं शिष्ये ध्यात्वा । शिष्यं सजीवं ध्यात्वा । मूलमन्त्रेण कुम्भजलेन प्रोक्ष्य । शिष्यस्य
नेत्रबन्धं उन्मुच्य। मूलमन्त्रेण अन्यत् वासः परिधाप्य । तस्य पादप्रक्षाळनं आचमनान्तं
कारयित्वा । अन्येन वाससा शिष्यस्य नेत्रे बद्ध्वा । गुरुः तं अन्तिके प्राङ्मुखं उपवेश्य ।
षडध्वनः शोधयित्वा । महाव्याहृतिमन्त्रेण आज्येन अष्टोत्तरशतमाहुतीनां हुत्वा। हुतशेषेण
शिष्यस्य पादौ तिलैः तावतीः तन्मन्त्रेण हुत्वा । हुतशेषेण शिष्यस्यनाभिं, कुशेशयैः तावतीः
पूर्वोक्त विद्यया हुत्वा ।हुतशेषेण शिष्यस्य हृदयं, पूर्वोक्तेन मनुना चरुणापूर्वोक्त संख्यया हुत्वा।
हुतशेषेण शिष्यस्य मूर्धानं च संस्पृश्य।होमान्ते गुरुः शिष्यं दक्षिणे करे गृहीत्वा ।कुम्भं
मण्डलं च प्रदक्षिणं प्रक्रमय्य।मण्डलस्य चतुर्णां द्वाराणां मध्ये यस्मिन् कस्मिंश्चित् द्वारि तिष्ठन्
गुरुः शिष्याञ्जलिं मणिभिः मुक्ताभिः प्रवालैः केवलैः पुष्पैः वा पूरयेत्।
तदनु सदस्यनुज्ञया गुरुणा अभ्यनुज्ञातः तस्मिन् मण्डले पूर्वं अञ्जलिपूरितं पुष्पादि शिष्यो
विकिरेत्।तदुत्करः यत्र पतति तद्भागाधिपमूर्तीनां नामानि केशवादीनि तदन्ते भागवतः इति
भट्टारकः इति वा गुरुः शिष्यस्य विनिर्दिशेत् । क्षत्रियस्य तु देवान्तं नाम, वैश्यस्य
पालशब्दान्तं, शूद्रस्य दासान्तं । तदनुगुरुः शिष्यस्य नेत्रबन्धं विमुच्य । चक्राब्जमण्डलं
प्रदर्श्य । तेन सह आचार्यःदेवं नारायणं ध्यात्वा । शिष्यस्य कर्णे सप्रणवं, सऋषिछन्दोदैवतं,
सांगं द्वादशाक्षरं, तदनु अष्टाक्षरं, पश्चात्मूर्तिमन्त्रान् च यथाविधि अध्यापयेत् । क्षत्रि
यवैश्योश्च एवं । शूद्राणां,स्त्रीणां अनुलोमजानां च नमःप्रणव हुंफट् स्वाहाकार वर्जितं केवलं
केशवादिकं वैष्णवं नाम अध्यापयेत्।
तदनु कुम्भस्थं मण्डलस्थं च हरिं अर्चयित्वा।ध्यात्वा गुरुः स्वहस्ते चक्राब्जमण्डलं
ध्यात्वा।विष्णुहस्तंकृत्वा।स्थितस्य प्राञ्जलेः शिष्यस्य मूर्ध्नि निधाय।देशिकः तत्र अग्निसन्निधौ
शिष्यस्य आचारान्नियमान् च सर्वान् बोधयेत्।यथा
मंत्रःपरस्य नाख्येयः नाक्षसूत्रं प्रदर्शयेत्।
न च मुद्रां नापि सिद्धिमन्त्रस्य कथयेत् स्वयम्।
आचार्य नाम न वदेत् नियोगं नास्य लंघयेत्।
न गुरून् दूषयेत् वाचा नाचरेत् तस्य विप्रियम्।
शयनादींश्च न गुरोः आक्रमेत् न च लंघयेत्.
गुरुवत् गुरु दारेषु वर्तितव्यमसन्निधौ।
आचार्यं अच्युतं शास्त्रं त्रयं सम्मानयेत् सदा।
नास्तिकान् भिन्नमर्यादान् वेदब्राह्मण निन्दकान्।
न स्पृशेत् नैव तैस्सार्धं संवसेत् दुर्दशास्वपि।
प्रसारयेत् नैव पादौ गुरुदेवाग्निसन्निधौ।
वेदितव्यं जगत्सर्वं वासुदेवमयं सदा।
अनर्चयित्वा देवेशं नात्मपोषणमाचरेत्.
जपस्तोत्रप्रणामादीन् सन्ध्याकाले समाचरेत्।
भगवध्यानतत्कर्म कर्तव्येषु सदा रमेत्।
वैष्णवान् च यतीन् चैव दृष्ट्वा तान् प्रणमेत् क्षितौ।
पुत्रदारा गृहक्षेत्रपश्वादि धनमात्मनः।
व्यपदेश्यमशेषेण नाम्ना भगवतो वदेत्।
समस्सर्वेषु भूतेषु कामक्रोधविवर्जितः.
शनैश्शनैरिन्द्रियाणि विषयेभ्यो निवारयेत्.
संसारविमुखैःसार्धं शास्त्राभ्यासं समाचरेत्.
श्रौतस्मार्तानि कर्माणि सदासेवेत नेतरत्।
स्वसूत्रोक्तेनविधिना निषेकादिक्रिया भवेत्.
गुह्यं नाम च गोत्रं च प्राकृतं नान्यदिष्यते।
आसीनो वा शयानो वा गच्छन् भुञ्जान एव वा।
कीर्तयेत् सम्स्मरेत् चैव वासुदेवं सनातनम्।
इति गुरुः शिष्याय नियमान् संबोध्य।ततः पूर्णाहुत्यन्तं शान्तिहोमं अखिलं च कृत्वा।अग्निं
विसृज्य।कुम्भस्थं मण्डलस्थं च देवं उद्वास्य।शिष्याय आशिषःवाचयेत्। तदनु शिष्यश्च गुरवे
गोभूहिरण्यभूषण यान दासीदासादि यथावित्तानुसारतःवितीर्य। ब्राह्मणान् भोजयित्वा। तेभ्यश्च
दक्षिणां वितीर्य।तत्रैव हुतशेषं भुक्त्वा। अहश्शेषं उषित्वा।रवौ अस्तंगते सर्वाऽलंकार युतः
गुरुणा अनुज्ञातः बन्धुभिःसह अलंकृतं स्वगृहं प्रविशेत्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
दीक्षा विधिः नाम षड्विंशः परिच्छेदः