अथ स्नपनविधिः उच्यते- विषुसंक्रमण,ग्रहणाऽयनद्वय, द्वादशी, श्रवण, कर्तृजन्मदिनत्रय,
तिथित्रय, व्यतीपात, रोहिणी, दर्श, पौर्णमासी, पुनर्वसु, पञ्चम्यादि शुभतिथि नक्षत्रवारादिषु
कृतं स्नपनं केवलम् । प्रतिष्ठोत्सवादिषुकर्माङ्गं । कर्माङ्गेनाऽङ्कुरावापन निशाचूर्ण स्नपनादिकम्
। केवले सर्वं चतुस्थानार्चनयुतं कुर्यात्।
आचार्यःतत्पूर्वेद्युर्देवस्याङ्कुरप्रतिसर पुरस्सरं अधिवासं सद्यो वा कुर्यात् । अधिवासस्तु
स्नपनप्रतिमायां तीर्थप्रतिकृतौ वा तदलाभे उत्सवबिंब बलिबिंब कर्मार्चा कूर्चादिषु लेपमृण्मय
भित्तिस्थ पटस्थ विषये सकूर्च दर्पणेऽधिवासं कुर्यात्।
स्नपनार्थं प्रासादस्य अग्रतः सर्वासु आवरणभूमिषु सर्वासु दिक्षु यथावकाशं चतुर्द्वार
चतुस्तोरणस्तम्भवेष्टन वितान मुक्तादामपूर्णकुम्भदर्भमालादिभिः अलङ्कृतं दशहस्तविस्तृतं
द्विगुणेन आयतं मण्डपं कारयित्वा । तस्मिन्पूर्वक्लृप्ते वा मण्डपे तत् त्रेधा विभज्य । तृतीयेंशे
पश्चिमे चतुरश्रां चतुर्हस्तविस्तारां शिलादिनिर्मितां उपानादियुतां वेदिकां कल्पयित्वा । तदुपरि
चतुरश्रां वृत्तं वा प्रादेशेन विस्तीर्णं अष्टाङ्गुलेन चतुरङ्गुलेन वा उन्नतं वलयं वेदिकोपरि च
आधारतुल्यं आश्वभ्रमेदिनीं कुर्यात् ।
मृण्मयादिषुबिम्बेषु बहिर्वेदि प्रकल्पनम्।
एकबेरे तु न बहिः स्नान वेदिप्रकल्पनम्।
तोरणादि न कर्तव्यं गृहार्चा स्नपने तथा।
इति विधाय । तत् गोमयेन अनुलिप्य । सुधाचूर्णाऽक्षत दूर्वाङ्कुर दीप सांकुर
पालिकादिभिःअलङ्कृत्य । तस्य रौद्रेकोणे गालितवस्तु सुगन्धिजलपूरितानि जलद्रोण्यादि
भाजनानि च। वेदिकायां दक्षिणे भूतले पवमानादिभिः सूक्तैः अभिमन्त्रितं सापिधानं
उपस्नानाम्बुभाजनं च कल्पयित्वा । अर्घ्यादि दीपपर्यन्तानि पूजाद्रव्याणि स्नानोपयुक्तानि च।
तदनु वेदिकाग्रे ।
अधमोत्तमस्नपनविधिः(81 कलशाः)
चन्दनार्द्राणिसूत्राणि चतुर्दश प्रागायतानि उदगायतानि च आस्फाल्य तेषु
एकोनसप्तत्युत्तरशतकोष्ठेषु धान्यपीठानुरूप्येण षोडशाङ्गुलायामविस्तारेषु ब्रह्मादीशानपर्यन्तं
नव नव पदानि एकाधिकाशीति संख्याकानि कलशास्पदानि विसृज्य। शेषाणि
अष्टोत्तराशीतिसंख्याकानि वीथ्यर्थं संमार्ज्य । प्रतिपदं व्रीह्याढकेन तदर्धेन वा तण्डुलेन तदर्धेन
तिलेन च पीठिकां आरचय्य। तदुपरि द्वौद्वौ दर्भौ प्रत्यस्य । तदुपरिष्टात् सौवर्णान् राजतान्
ताम्रान्वा मृण्मयान् पक्वबिम्ब फलोपमान् अच्छिद्रान् स्वनवतः कालमण्डलवर्जितान्
अभिन्नान् पाषाणस्फोटवर्जितान् द्रोणेन तदर्धेन वा वारिणा परिपूरणोचितान् सप्तदशकुम्भान्
वार्याढकेन पूरणोचितान् चतुष्षष्टिशुद्धोदककुम्भान् च तन्तुना ‘इन्द्रं नत्वा”इति परिवेष्टितान्
विष्णुगायत्र्या प्रक्षाल्य । कलशास्पदमेदिन्याः पश्चिमे भागे धान्यपीठं विधाय । आचार्यः स्वयं
भूतशुद्धिं कृत्वा । पुण्याहं वाचयित्वा । संप्रोक्ष्य । तस्मिन् प्रागग्रान् उदगग्रान् वा दर्भान्
संस्तीर्य । तेषु एतान् ॐ इति ब्रह्मादीशानन्तं अधोमुखान् संस्थाप्य । तेषां उपरि ॐ षौं नमः
पराय परमेष्ट्यात्मने नमः इति त्रीन् त्रीन् दर्भान् विन्यस्य । प्राङ्मुखः सन् अर्घ्यातोयेन ॐ यां
नमः पराय पुरुषात्मने नमः इति प्रोक्ष्य । ॐ रां नमःपराय विश्वात्मने नमः इति अक्षतान्
विकीर्य । ॐ वां नमः पराय निवृत्यात्मने नमः इति उत्तानीकृत्य । विधिवत् अग्निं संसाध्य ।
विष्णुगायत्र्या आज्येन स्नपनद्रव्याणि संसिच्य । यथोचितं वस्त्रपूतैः घृतादि स्नपनद्रव्यैः
तत्तन्मन्त्रैः कुम्भान् आपूरयेत्।
ॐ लां नमः पराय सर्वात्मने नमः इति सप्तदशकलशान् उद्धृत्य । तेषु एकं मध्यमनवक
मध्यमं कुम्भं द्रोणमाणेन घृतेन ॐ वासुदेवाय नमः इति संपूर्य । मध्ये संस्थाप्य । तादृश
प्रमाणेन उष्णोदकेन आपूर्य । ॐ पुरुषाय नमः इति घृतकुम्भस्य प्राच्यां च । तस्य
आग्नेयदिक्कुम्भं माणिक्यपद्मरागनील वज्रपुष्यराग प्रवाल मौक्तिक मरतक वैदूर्यनामभिः
नवरत्नैः सरत्नोदकं ॐ केशवाय नमः इतिसंपूर्य । तद्याम्यायां सोदकुम्भं कदलीदाडिम
चूतामलकबिल्वनालिकेरपनस मातुलङ्गाभिधैः भिन्नैः फलैः ॐ सत्याय नमः इति । घृतस्य
नैॠतकुम्भं लोहोदकेन सुवर्ण रजतताम्र सीस त्रपुकांस्यायोभिधानैः प्रत्येकं निष्फप्रमाणैः
सप्तभिः लोहैः ॐ नमो नारायणाय‘ इति। तत्पश्चिमेसजलं कुम्भं रजनीसूर्यवर्तिनीसहदेवी
शिरीष सदाभद्र कुशाग्रैः मार्जनद्रव्यैः प्रत्येकं मुष्टिमाणैः ॐ अच्युताय नमः इति। तस्य मारुतं
सजलं कुम्भं चन्दनकुष्ट कुङ्गुमागरु उशीर ह्रीबेर गिरिसंभव मांसीमुराभिधैः पृथक् पलमितैः
गन्धद्रव्यैः ॐ माधवाय नमःइति। तस्य कौबेरं सजलं कुम्भं नीवारवेणुशालि प्रियङ्गु यव कङ्गु
षाष्टिक गोधूमतण्डुलैः प्रत्येकं मुष्टिमात्रैः ॐ अनन्ताय नमः इति। तस्य ऐशानं सजलं कुम्भं
यव वेणु व्रीहिभिः प्रत्येकं कुडुप प्रमाणैः ॐ गोविंदाय नमः इति च संपूर्य । ब्रह्मस्थान
नवकस्य मध्यमं कुम्भं सोदकं पाद्याभिधानं तुलसी पद्म दूर्वाक्षत श्यामाक विष्णुपर्णी बिल्वपत्रैः
पलमात्रेण चन्दनेन च ॐ विष्णवे नमः इति संपूर्य । याम्य नवकस्य मध्यमं अर्घ्याख्यं सोदकं
कुम्भं सिद्धार्थाक्षत कुशाग्र पूर्वोक्त फलयव तिल चन्दनपुष्पैः प्रत्येकं मुष्टिमात्रैः, चन्दनेन
त्रिनिष्फमात्रेण ॐ मधुसूदनाय नमः इति । पश्चिम कुम्भनवकस्य मध्यमं उपस्पर्शनाख्यं
सजलं कुम्भं तक्कोल चंपकमुकुलकर्पूर जातीफल एलालवङ्गत्वक्चन्दनपुष्पैः प्रत्येकं
पलार्धपरिमाणैः ॐ त्रिविक्रमाय नमःइति । उत्तर नवकस्य मध्यमं पञ्चगव्याख्यं कुम्भं
दधिद्विगुणेन आघारेण,तस्मात् त्रिगुणेन पयसा तच्चतुर्गुणेन मूत्रेण तस्मात् चतुर्गुणेन
शकृद्वारिणा च.
गोमूत्रं विष्णुगायत्र्या गन्धद्वारेति गोमयं।
आप्यायस्वेति च क्षीरं दधिक्राविण्णेति वै दधि।
घृतं शुक्रमसीत्येवं गव्यानि सहयोजयेत्।
अथवा विष्णुगायत्र्या,यद्वा ‘‘परमेष्टी शकृन्मन्त्रः,गोमूत्रस्य तु पूरुषः। विश्वमन्त्रः भवेत् दध्नः
निवृत्तिः सर्पिषा भवेत्।पयसः सर्वमन्त्रः स्यात् यद्वाचाष्टाक्षरेण वा । एवं संयोज्य । देवस्यत्वेति
सर्वाणि एकीकृत्य । एवं साधितेन एतेन पञ्चगव्येन द्रोणमानेन । एवं संयोजनप्रकारः
स्नपनविधौ, प्रोक्षणे तु एतत्सर्वं पञ्चकं समं।प्राशने तु
गोमयेन समं मूत्रं दधिस्यात् द्विगुणं ततः।
ततः चतुर्गुणं सर्पिः सर्पिषाऽष्टगुणं पयः।
प्राशने पञ्चगव्यस्य प्रमाणमिदमीरितम्।
द्रोणमानं पञ्चगव्यं घृतमानं च तादृशम्।
तादृगेव दधि क्षीरं तावदेव च माक्षिकम्।
अर्धं वास्यादाढकं वा न्यूनंचेदासुरं भवेत्।
गृहार्चास्नपने न्यूनं प्रस्थेनैव प्रकल्पयेत्।
पञ्चगव्यानि गृह्णीयात् मृत्पात्रे नूतने शुभे।
कपिलायाः जरायाः वा पञ्चगव्यं प्रशस्यते।
न आर्तायाः न च गर्भिण्याः न वृद्धायाः कदाचन।
न अवत्सायः उपादद्यात् धेनोमूत्रं शकृद्द्वयम्।
भूमिष्ठं गोमयं ग्राह्यं सोष्णं कृम्यादि धूषितम्।
निष्पीड्य सम्यक् गृह्णीयात् गोमयस्य रसं पुनः।
सद्यस्तप्तं घृतं शुद्धं अहोरात्रोषितं दधि।
क्षीरं ग्राह्यमतप्तं च दशहाज्जन्मनः परम्।एवं संपाद्य ।
ॐ वामनाय नमः इति । आग्नेय नवकस्य मध्यमं कुम्भं दध्ना ॐ श्रीधराय नमः इति
नैॠतकुम्भ नवकस्य मध्य कुम्भं पयसा ॐ हृषीकेशाय नमः इति, वायवीयकुम्भ नवकुम्भ
नवकस्य मध्यमं कुम्भं मधुना ॐ पद्मनाभाय नमः इति, ऐशान्यां कुम्भनवकस्य मध्यमं कुम्भं
शमीपलाशखादिर बिल्वाश्वत्थ विकङ्ग त औदुम्बर न्यग्रोधत्वक्भिः पलार्धपरिमिताभिः कृतेन
कषायेन ॐ दामोदराय नमः इति च संपूर्य । विष्णुगायत्र्या सप्तदश द्रव्य कुम्भान् संस्थाप्य ।
मध्यमनवकस्य पूर्वनवकाद्यष्टनवकमध्यद्रव्यकुम्भानां च परितोऽष्टावष्टौ शुद्धोदकलशान्
द्वादशाक्षरमन्त्रेण संस्थापयेत् ।
पूर्वोक्तद्रव्याऽलाभे तु-
पाद्यद्रव्यांतरालाभे दूर्वाग्रेपि च सर्षपः।
शस्तमाचमनीये तु तक्कोलं मार्जनांबसि।
सहदेवी गन्धतोये चन्दनक्षोद इष्यते।
कषायतोयेचाश्वत्थं शीतमुष्णोदके सति।
रत्नोदके वज्रमेकं कदळ्येका फलांबसि।
सुवर्णं लोहपानीये शालितण्डुलमक्षते.
यवोदकघटे व्रीहिः शस्यते कमलासन।
अलब्धे दधिनीक्षीरं क्षीरालाभे तु तद्दधि।
मधून्यलब्धे सर्पींषि तदलाभे भवेन् मधु।
अलाभे पञ्चगव्यानां घृतमेवैकमिष्यते।
पञ्चगव्येषु यस्यस्यात् अलाभस्तत्पदे घृतम्।
इति भगवदुक्तैः एवं द्रव्यपूरणं कृत्वा । परिस्तीर्य। सप्तभिः पञ्चभिस्तृभिः वा दर्भैः कृतान्
कूर्चान् कुम्भेष्ववागग्रान् महाकुम्भे चर्तुींवशतिभिर्दर्भैःकृतं कूर्चं कर्णमानं तथा निक्षिप्य.तां
चक्रमन्त्रेन शरावैः पिधाय । ‘युवासुवासा इति मन्त्रेण वाससा प्रत्येकमलाभे, प्रतिव्यूहं वा
सर्वानावेष्ट्य । आचार्यो मूर्तिपैर्ब्राह्मणैस्सह देवसमीपमासाद्य । ‘उत्तिष्ठ ब्रह्मणस्पत इति
देवमुत्थाप्य । भद्रंकर्णेभिः इति स्नानसनवेदिकायां विनिवेश्य। वेदविद्ब्राह्मणैरयुग्मैस्सह
पुण्याहं वाचयित्वा । तान्यथावित्तानुसारं तोषयित्वा । गुरुः प्राणानायम्य । स्थापितेषु
तोरणध्वजकुम्भेषु तत्तद्देवानावाह्य अभ्यर्च्य । मण्टपद्वारेषु तौर्यत्रिकं प्रवर्तयित्वा ।
पूर्वसंसाधिताऽग्नौ यावत्कलशसंख्यया मूलमन्त्रेणाज्याहुतीर्हुत्वा । अन्यस्मिन् संपाताज्यं
संगृह्य । चरुणा नृसूक्तेन षोडशाहुतीश्च हुत्वा । देवं गन्धादिभिरभ्यर्च्य । कुम्भेषु
संपाताज्यारोपणमारचय्य । घृतादि द्रव्यकुम्भेषु आधारादि पद्मान्तं पीठं संकल्प्याऽभ्यर्च्य ।
घृतकुम्भे ॐ नमो भगवते परमात्मने वासुदेवायागच्छागच्छ इत्यावाह्य । अभ्यर्च्य ।
अर्घ्यादिताम्बूलान्तं संपूज्य । उष्णोदक फलमार्जनाक्षत रत्नलोह गन्धयव पाद्याऽर्घ्य आचमन
पञ्चगव्य दधिपयो मधुकषायकुम्भेषु पुरुषसत्य अच्युतानन्त केशव नारायण माधव
गोविन्दविष्णु मधुसूदन त्रिविक्रम वामन श्रीधर हृषीकेश पद्मनाभ दामोदरान् क्रमेण आवाह्य
अभ्यर्च्य । अर्घ्यादि तांबूलान्तं संपूज्य । सर्वेषु शुद्धोदकुम्भेषु च अष्टाक्षरेण आवाह्य अभ्यर्च्य।
तदनु ॐ धान्याधि दैवतायै भूम्यै नमः, ॐ कूर्चाधि दैवताय अस्त्रायफट्, ॐ
चक्रिकाधिदैवताय ॐ सुदर्शनाय नमः, ॐ वासोधिदैवताय विष्णवे नमः । अन्येषां
यागद्रव्याणां ॐ जनार्दनाय नमः । इति च आवाह्य अभ्यर्च्य । देवस्य विष्णु गायत्र्या अर्घ्यं
त्रीणि पदेति पाद्यं, आपःपुनन्तु इति आचमनं, तद्विष्णोः इति दन्तधावनं, विष्णु गायत्र्या
जिह्वानिर्लेपनं, वामदेव्यं इति अभ्यङ्गं, विष्णोर्नुकं इति आमलक वारि, नते विष्णुः इति
अभिषेकं, अग्निःमूर्धा इति प्लोतवस्त्रं, प्रणवेन वस्त्रं, उत्तरीयं च दत्वा।पुनः अर्घ्यादि दीपान्तं
अर्चयित्वा ।
छिन्नकौतुकतन्तुं सपुष्पं समर्चितं पाद्यकुम्भं विष्णुगायत्र्या उद्धृत्य।मूर्तिप दत्तं आचार्यः करे
गृहीत्वा । पाद्यकुम्भस्थाऽवागग्रकूर्चाहृतजलेन देवस्य शिरसि प्रणवेन संप्रोक्ष्य । विष्णुगायत्र्या
पाद्यवारिणा, प्रविष्णुरस्तु इति अर्घ्याजलेन, न ते विष्णुः इति आचमनाम्बुना, विष्णोः कर्माणि
इति पञ्चगव्येन, दधिक्राविण्णेति दध्ना, पयोव्रत साम्ना पयसा, मधुवातेति मधुना ओषध्यः इति
कषायेन, त्वं विष्णुः इति उष्णजलेन, याः फलनीः इति फलवारिणा, शन्नोदेवीः इति
मार्जनांभसा, सावित्र्या अक्षतोदकेन, त्रातारमितिरत्नोदकेन,महाव्याहृत्या लोहवारिणा,
गन्धद्वारेति गन्धांबुना, शतधारेति यवोदकेन, घृतस्नातेति साम्नाघृतेन च अथवा पुरुषसूक्तस्य
ऋग्भिः षोडशभिः इदं विष्णुः इत्यनयार्चया वा, द्वादशाक्षरेण, षडक्षरेण विष्णुगायत्र्या वा स्वैः
स्वैः मूर्तिमन्त्रैः वा पाद्यादि घृतान्तैः प्रतिद्रव्यकुम्भस्नपनं उपस्नानोत्तरीयार्घ्यचमनीय
गन्धपुष्पधूपदीपान्तं देवं अभ्यर्च्य अभिषिच्य। द्रव्यकुम्भोद्धरणान्तरान्तरा शुद्धोदकुम्भान्
द्वादशाक्षरेण उद्धृत्य, अभिषिच्य । तदनु नव सप्त पञ्च त्रीन् वा कुम्भान् एकं वा कुम्भं
पुण्याहपुरस्सरं हरिद्रातण्डुलस्य चूर्णैः संपूर्य । धान्य पीठे निधाय । तान् सवस्त्र रत्नलोहकूर्च
पल्लवापिधानान् कृत्वा । तत्र श्रियं आवाह्य अभ्यर्च्य । श्रीसूक्तेन तैः अभिषिच्य ।ततः देवं
प्रदक्षिणीकृत्य । नत्वा, सहस्रधारया स्नापयित्वा । प्रणवेन अलङ्कारासनं दत्वा. अर्घ्यं आरभ्य
नीराजनान्तं इष्ट्वा।खारिद्रोणं तदर्धं वा तण्डुलं दत्वा। चतुर्विधं अन्नं निवेद्य। नित्यहोमं कृत्वा।
ततः सुखासीनं देवं नत्वा। स्तुत्वा।मनोरथं प्रार्थयेत्।
यजमानोऽपि गुरवे शतनिष्फपरिमितां दक्षिणां ऋत्विजां तदर्धं पादं वा परिचारक
वेदपाठकादीनां दत्वा । पूजार्थं आहृतं शिष्टं सर्वं आचार्याय दद्यात् । एतदधमोत्तमम् । एतेषु
एकोत्तराशीतिकुम्भेषु सर्वकोणस्थ द्वात्रिंशच्छुद्धोदकुम्भहीनं (49कलशाः)अधममध्यमम् ।
सर्वैः चतुष्षष्टि शुद्धोककुम्भैः हीनं (17कलशाः)अधमाधमम् ।
मध्यमोत्तमस्नपनविधिः(277 कुम्भैः)
अथ मध्यमोत्तमस्नपनविधिः उच्यते-
मध्ये पूर्वोक्ताधमोत्तमैकाशीतिकलशस्थापने विहितेनसूत्रवर्त्मनैव तद्बहिः चतुर्दिक्षु तथा
सूत्राणि आस्फाल्य । द्वे द्वे पङ्क्ति वीथ्यर्थं तत्परितः संमार्ज्य । शिष्टेषु एकाशीतिपदेषु मध्ये
कुम्भानां नवकं इन्द्रादि सोमान्तासु दिक्षु प्रतिदिशं षट्कं, आग्नेयादिषु कोणेषु प्रत्येकं चतुष्फं, एवं
एकोनपञ्चाशत्कलशान् संस्थाप्य । शेषाणि द्वात्रिंशत्पदानि वीथ्यर्थं परिमार्ज्य । एवं चतुर्दिक्षु
कृत्वा । प्राक्स्थित एकोनपञ्चाशत्कलश मध्यनवकमध्यमं ॐ वराहाय नमः इति गुडोदकेन ।
दक्षिणे एकोनपञ्चाशत्कलश मध्यनवकमध्यमं ॐ नारसिंहाय नमः इति इक्षुरसेन । पश्चिम
एकोनपञ्चाशत्कलश मध्यनवकमध्यमं ॐ श्रीधराय नमः इति नालिकेरजलेन । उत्तर
एकोनपञ्चाशत्कलश मध्यनवकमध्यमं शान्तिकुम्भं तुलसीवेणुनीवारशालिश्वेतसर्षपतिलैः
तुलसीं विना प्रत्येकं कुडुब प्रमाणैः मुष्टिमात्रतुलस्या च, शान्तिद्रव्याऽभावे तुलस्या एकया वा
ॐ हयग्रीवाय नमः इति च।
गुडाभावे च इक्षुरसं तस्य अभावे गुडोदकम्।
गुडमानं पलाशीतिः अर्धं अर्धार्धमेव वा।
नालिकेरजलाभावे तत्स्थाने क्षीरमिष्यते।
आपूर्य । गुडोदके ॐ वराहाय नमः, इक्षुरसे ॐ नृसिंहाय नमः, नालिकेरोदके ॐ श्रीधराय
नमः, शान्तिवारिणी ॐ हयग्रीवाय नमः इत्यावाह्य अभ्यर्च्य । ‘मधुवातेति गुडोदकेन,
मधुनक्तं इति इक्षुरसेन, मधुमाम्न इति नालिकेरांभसा, वेदाहं इति शान्तिजलेन, जितंते इति
शुद्धोदकुम्भैः सम्स्नाप्य । तदनु पाद्यादिघृतान्तैः स्नपनं आचरेत् । स्नपनान्ते निशाचूर्णैः स्नपनं
कुर्यात्। इति मध्यमोत्तम स्नपनविधिः।
एकोत्तराशीति कलशस्थ चतुष्षष्टिशुद्धोदकुम्भान् तत्परितः चतसृषु दिक्षु स्थापितैकोन
पञ्चाशत्कलशस्थ द्विनवत्युत्तर संख्याकान् शुद्धोद कुम्भान् च क्रोडीकृत्य.
षट्पञ्चाशदुत्तरशतशुद्धोदकुम्भेषु अर्धशुद्धोदकुम्भहीनं मध्यममध्यमं, सर्वशुद्धोदकुम्भैः विना
मध्यमाऽधमम्।
उत्तमोत्तमस्नपनविधिः(कलशस्नपनविधिः)
अथ तावत् उत्तमोत्तमस्नपनविधिः उच्यते ।
पूर्वोक्त एकाशीति कलशास्पदस्य पूर्वाद्याशासु चतसृषु दिक्षु प्रतिदिशं च एकोनपञ्चाशत्कुम्भेषु
स्थापितेषुसत्सु, एकाशीति कलशस्थापनस्य आग्नेयादिषु चतुर्षुकोणेषु प्रतिकोणं
तत्तत्सूत्रवर्त्मनैव पूर्ववत सूत्राणि आस्फाल्य । तथैव एकोन पञ्चाशत्क लशान् संस्थाप्य ।
आग्नेय एकोनपञ्चाशत्कलश मध्य नवकमध्यमकुम्भं मङ्गलाख्यं इन्द्रवल्यङ्कुर, अश्वत्थपल्लव,
कुशेशय, एकपत्रांबुज, चन्दन, कुष्ट, कुङ्गुम, रोहिणद्रुम, यूथिका, मल्लिका, उत्पलत्रय, जाति,
चंपक, केतकीभिः द्वौ-इन्द्रवल्ल्यङ्कुरौ, अश्वत्थपल्लवं मुष्टिमात्रं एकपत्रांबुजमेकं, कुशेशयमेकं,
पुष्पाष्टकं मुष्टिमात्रं, चन्दनानि एकैकंपलं-ॐ नमो भगवते वासुदेवाय इति-नैॠत
एकोनपञ्चाशत्कलशमध्य नवकमध्यमकुम्भं सर्वौषधाख्यं-मांसीकुष्ठ, हरिद्राद्वितय, मुरा,
शैलेय, चंपक, मुकुल, मुस्ता, वचा, कर्पूरैः, प्रत्येकं पलमितैः । क्षुण्णैः, ॐ नमोभगवते
संकर्षणाय नमः, वायव्य एकोनपञ्चाशत्कलशमध्य नवकमध्यमकुम्भं सर्वगन्धाख्यं,
कर्पूरकुङ्कुम कुष्ठ मांसी मलयज, मुरा प्रियङ्गु, केसर, मुस्ता तमाल, नागकेसर, मूलद्वितय,
कच्चोर, सुरपर्णी, केसर, उशीर, तार, लोध्र, हरिचन्दन, अगरुद्वितय, सितकुष्ठ, कालेय,
ग्रन्थिपल्लव, चम्पकमुकुलचूर्णितैः प्रत्येकं पलसम्मितैः ॐ नमोभगवते प्रद्युम्नाय नमःइति ।
ऐशाने एकोनपञ्चाशत्कलश मध्यनवक मध्यमकुम्भं मूलौषधाख्यं व्याघ्री, सिह्मी, बला,
शरपुङ्क, शतावरी, बिल्वमूल, वचा, शुण्ठी गोरण्डी, शतमूलैः, पृथक्पलमितैः चूर्णितैः ॐ
नमोभगवते अनिरुद्धाय इति।
(मङ्गलोदकवस्तूनां अलाभे चन्दनं वरं।
सर्वौषधीनां एतासां अलाभे कुष्टमुच्यते।
अलाभे सर्वगन्धानां शस्यते चन्दनं वरं।
मूलौषधीनां सर्वासां अलाभे शस्यते बला।)
आपूर्य । मङ्गलोदके वासुदेवं,सर्वौषधीकुम्भे संकर्षणं, सर्वगन्धकुम्भे प्रद्युम्नं, सर्वमूलौषधीकुम्भे
च अनिरुद्धं आवाह्य। संपूज्य। विष्णोर्नुकमिति मङ्गलांबुना, ओषध्य इति सर्वौषधीजलेन,
नारायणानुवाकेन सर्वगन्धांबुना, या ओषधीरिति, अष्टाक्षरेण शुद्धजलैश्च संस्नाप्य । अनन्तरं
घृतान्तं स्नापयेत् । इत्युत्तमोत्तमम् । सर्वत्र क्रोडीकृत्य । अष्टचत्वारिंशदुत्तर चतुश्शत
शुद्धोदकुम्भेषु अर्द्धशुद्धोदकुम्भैः हीनं उत्तममध्यमं । सर्वैः अष्टचत्वारिंशदुत्तर
चतुश्शतशुद्धोदकुम्भैः विना पञ्चविंशतिद्रव्यकुम्भैरेव कृतं उत्तमाधमम्। इति स्नपननवकम्।
अथ अष्टोत्तरशतकलशस्नपन विधिः उच्यते-
कलशस्थापन प्रागायतेषु षट्सु उदगायतेषु च तथा सूत्रेषु आस्फालितेषु पञ्चविंशतिपदानि
भवेयुः। तेषु मानुषेद्वादशपदानि हित्वा । मध्ये ब्रह्म दिव्यस्थपदनवकं एकीकृत्य । सूत्रवर्त्मना
कोष्टानां यथाशतंभवति तथा कृत्वा।तत्र प्राच्यां अवाच्यां प्रतीच्यां उदीच्यां द्वे द्वे पङ्क्ती हित्वा
तत्परितः द्वे द्वे पङ्क्ती संमार्ज्य । तत्र ब्रह्मादीशान्तासु दिक्षु विदिक्षु च नवपदानि कुम्भास्पदानि,
एवं अनयारीत्या अष्टोत्तरशतकलशास्पदानि कल्पयेत् । एवं कलशान् संस्थाप्य ।
ब्राह्ममध्यकलशचतुष्टयाग्नेय पदकुम्भं पूर्वोक्तप्रमाणेन घृतेन, अवशिष्टान् त्रीन् शुद्धोदकेनापूर्य ।
तत्परितः पूर्वादीशान्ताऽष्टदिक्स्थिताऽष्ट चतुष्फाऽऽग्नेयकुम्भाष्टकं, उष्णोदक,रत्नोदक,
फलोदक, लोहतोय, मार्जनोदक, गन्धवारि, अक्षतवारि,यवोदकाणि पूर्वोक्तमानैःआपूर्य ।
मानुषेभागे प्राच्यादीशानान्त स्थिताऽष्ट नवक कुम्भाष्टकं एवंकृते द्रव्यकलशाः सप्तदश
शुद्धोदकुम्भानां एकोत्तराशीतिः । एवं सर्वमपि क्रोडीकृत्य अष्टोत्तरशतं कलशानां भवति।
देवमन्त्राभिषेकाश्च पूर्ववत्।
अथ एकोनपञ्चाशत्कलशस्नपन विधिः उच्यते-
प्रागायतानि दश तथा उदगायतानि च सूत्राणि आस्फालयेत् । एवं चेत् एकोत्तराशीतिपदानि
भवेयुः। कलशास्पदस्य चतसृषु दिक्षु द्वे द्वे पङ्क्ती हित्वा।ततः एकस्यां एकस्यां पङ्क्तौ
सम्मार्जितायां मध्ये नवकं दिक्षु प्रतिदिशं षट्कानि विदिक्षु प्रत्येकं चतुष्फानि
एवमेकोनपञ्चाशत्कलशास्पदानि भवेयुः। मध्ये नव,दिक्षु चत्वारः,विदिक्षु चत्वारःद्रव्यकुम्भाः
भवन्ति।एवं चेत् सप्तदशद्रव्यकुम्भाः द्वात्रिंशत् शुद्धोदकुम्भाः मन्त्रदेवताः स्नपनं च पूर्ववत्।
अथ पञ्चविंशतिकलशस्नपनविधिः-
यथा एकोत्तराशीतिपदानि भवेयुः,तथा सूत्राणि आस्फाल्य। चतसृषु दिक्षु एकैकां पङ्क्तीं हित्वा।
ततः द्वे द्वे पङ्क्तीं सम्मार्ज्य। मध्ये नव प्रतिदिशं त्रीन् त्रीन् प्रतिकोणमेकैकं कलशानां
संस्थाप्य।मध्यस्थ त्रिक चतुष्टय मध्यस्थाश्च कोणचतुष्टयस्थाः चत्वारश्च द्रव्यकुम्भाः सप्तदश
अष्टौ कुम्भाः शुद्धोदकपूरिताः। द्रव्य मन्त्रदेवताः स्नपनं पूर्ववत्।यद्वा चन्दनागरु काश्मीर कुष्ठ
तगर वीणासिताऽगरु हरिचन्दनह्रीबेरैः गन्धद्रव्यैः मध्य कुम्भनवकं, दिक्षु स्तिथान्
चतुरःविदिक्षु चतुरश्च तमालसितकुष्ठ सुरपर्णीरस कर्पूर नागकेसर मुस्ताचम्पकमुकुल प्रियङ्गु
पुष्प कालेय ग्रन्थिपल्लव बीज मांसि खर्जूर शैलेय ह्रीबेरद्रुम मुरैः वा सर्वान् कुम्भान् पूरयेत्।
अथ षोडशकलशस्नपन विधिः
प्रागायतानि नव तथा उदगायतानि च सूत्राणि तथा सति चतसृषु एकैकां पङ्क्तीं हित्वा। द्वयोः
द्वयोः पङ्क्त्योः सम्मार्जितयोः मध्ये चत्वारि दिक्षु द्वे द्वे विदिक्षु च एकैकं, एवं षोडश
कलशास्पदानि भवेयुः। मध्य चतुष्फस्य आग्नेयं कुम्भं पूर्वोक्तैः नवभिः रत्नैः नैॠतं तथा
सप्तलोहैः,वायव्यं तथागन्धद्रव्यैः ऐशानं तथा आज्येन च आपूर्य। पूर्वादिस्थित द्वादशकुम्भान्
पाद्यार्घ्य दध्याचमन पञ्चगव्य क्षीराक्षत मार्जन मधु कषायकुशोदक यवैः पूर्वोक्तमानैः क्रमेण
आपूर्य। पुरुषादि दामोदरान्तान् आवाह्य।नृसूक्त षोडशऋग्भिः स्नपनं कुर्यात्।
अथ द्वादशकलश स्नपन विधिः-प्रागायतानि सप्त तथा उदगायतानि च सूत्राणि,तथा सति मध्ये
चतुष्फं विहाय चतसृष्वपि दिक्षु एकैकां पङ्क्तीं संमृज्य।कोणेषु चतसृषु त्रिषु त्रिषु पदेषु मृष्टेषु,
चतुष्फस्य बहिः प्राच्यां अवाच्यां प्रतीच्यां उदीच्यां द्वे द्वे भवतः। एवं सति द्वादश
कलशास्पदानि भवेयुः। मध्यचतुष्फस्य आग्नेयं कुम्भं पूर्वोक्तैः नवभिः रत्नैः नैॠतं
लोहैः,वायव्यं गन्धद्रव्यैः,ऐशानं सर्पिषा च आपूर्य।तत्पूर्वाद्युत्तरान्त पदस्थितान् अष्टौ कुम्भान्
क्रमेण पाद्य दध्यर्घ्य क्षीराचमन मधु पञ्चगव्य फलैः पूर्वोक्तमानैः
आपूरयेत्।मन्त्रदेवताःपूर्ववत्।
एतेषां अलाभे तु मध्यचतुष्फं आग्नेयं आरभ्य बहि स्थित सोमकुम्भान्तं कोष्टाऽगरु कालीय
ग्रन्थिपल्लवबीज चन्दन काश्मीर मांसी तमाल मुर पर्वतोत्थसुवर्ण रजःकण चंपक मुकुळ
खर्जूरद्रवैः प्रादक्षिण्येन आपूरयेत्।
अथ नवकलशस्नपन विधिः
प्रागायतानि सूत्राणि चत्वारि तथा उदगायतानि च। तथा सति पदानि नव भवेयुः। मध्यकुम्भं
आरभ्य ऐशानन्तं घृत पाद्य दध्यर्घ्य क्षीराचमन मधुपञ्चगव्य फलैः क्रमेण । नवरत्नैः वा
पूरयेत्।मन्त्र देवताः पूर्ववत्।
अथ पञ्चकलशस्नपन विधिः
एकः मध्ये चतसृषु अपि दिक्षु चत्वारः। मध्यं आरभ्य सौम्य पर्यन्तमणिप्रवाल मौत्तिक वज्र
वैढूर्य पञ्चलोहैः। अथवा प्रत्येकशः पञ्चगव्यैः वा पूरयेत्। पञ्चगव्यस्य मन्त्रदेवताः
पञ्ञ्चोपनिषदः।
अथ एककलशस्नपन विधिः एकं कलशं मध्ये संस्थाप्य पञ्चामृतैः पञ्चगव्यैः वा पूरयेत्।गुरवे
यथाशक्ति निष्फमाना देया।
इति श्री वराह गुरु विरचितायां क्रियकैरव चन्द्रिकायां उत्तमादि स्नपन विधिः नाम एकत्रिंशः परिच्छेदः