अहिर्बुध्नसंहिता - अध्यायः ३
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
वैश्वरूप्यसंक्षेपो नाम तृतीयोऽध्यायः
नारदः----
षाड्गुण्यं तत् कथं ब्रह्म स्वशक्तिपरिबृंहितम्।
तस्य शक्तिश्च का नाम यया बृंहितमुच्यते॥ १॥
सर्ववस्तूनां शक्तिरपृथक्सिद्धविशेषणम्
अहिर्बुध्न्यः----
शक्तयः सर्वभावानामचिन्त्या अपृथक्स्थिताः।
स्वरूपे नैव दृश्यन्ते दृश्यन्ते कार्यतस्तु ताः ॥२॥
सूक्ष्मावस्था हि सा तेषां सर्वभावानुगामिनी।
इदंतया विधातुं सा न निषेद्धुं च शक्यते ॥३॥
शक्तीनामपर्यनुयोज्यत्वम्
सर्वैरननुयोज्या हि शक्तयो भावगोचराः।
परब्रह्मणोऽपि शक्तिरपृथक्सिद्धविशेषणम्
एवं भगवतस्तस्य परस्य ब्रह्मणो मुने ॥४॥
सर्वभावानुगा शक्तिर्ज्योत्स्नेव हिमदीधितेः।
भावाभावानुगा तस्य सर्वकार्यकरी विभोः ॥५॥
स्वातन्त्र्यरूपा सा विष्णोः प्रस्फुरत्ता जगन्मयी।
उदितानुदिताकारा निमोषोन्मेषरूपिणी ॥६॥
भगवच्छक्तेरानन्दादिशब्दाभिधेयत्वम्
निरपेक्षतयानन्दा स्वतन्त्रा नित्यपूरणात्।
स्वात्मभित्तिसमुन्मीलत्परावरजगत्स्थितिः ॥७॥
नित्या कालापरिच्छेदात् पूर्णाकारावियोगतः।
व्यापिनी देशविभ्रंशाद्रिक्ता पूर्णा च सर्वदा ॥८॥
जगत्तया लक्ष्यमाणा सा लक्ष्मीरिति गीयते।
श्रयन्ती वैष्णवं भावं सा श्रीरिति निगद्यते ॥९॥
अव्यक्तकालपुंभावात् सा पद्मा पद्ममालिनी।
कामदानाच्च कमला पर्याप्तसुखयोगतः ॥१०॥
विष्णोः सामर्थ्यरूपत्वाद् विष्णुशक्तिः प्रगीयते।
पालयन्ती हरेर्भावं विष्णुपत्नी प्रकीर्तिता ॥११॥
जगदाकारसंकोचात् स्मृता कुण्डलिनी बुधैः।
अनाहता बुधैः प्रोक्ता मनोवागाद्यनाहतेः ॥१२॥
परमानन्दसंबोधा मन्त्रसूक्ष्मतयापि च।
शुद्धसत्त्वाश्रयाद् गौरी ह्यदितिश्चाविशेषणात् ॥१३॥
सर्वपुण्यकरीभावान्महीयस्यपि सा मही।
तथानाहतशीर्ष्णी चानाहतोऽभ्युदयो यतः ॥१४॥
प्राणयन्ती स्वसंवित्त्या जगत्प्राणा इतीर्यते।
परहतासुरूपत्वान्मन्त्रमाता प्रकीर्तिता ॥१५॥
त्रायन्ती गायतः सर्वान् गायत्त्रीत्यभिधीयते।
प्रकुर्वती जगत् स्वेन प्रकृतिः परिगीयते ॥१६॥
मिमीते च तता चेति सा माता परिकीर्तिता।
सर्वेषामविपर्यासाच्छिवंकरतया शिवा ॥१७॥
तरुणी काम्यमानत्वात् तारा संसारतारणात्।
अविपर्यासरूपत्वात् सत्या सत्यद्वयान्वयात् ॥१८॥
शान्ताशेषविकारत्वाच्छान्ता सा चिन्त्यते बुधैः।
मोहानपनयन्ती सा मोहिनी मोहनादपि ॥१९॥
इडा हविरधिष्ठानादिष्यमाणतयापि च।
रमयन्तीति सा रन्ती रतिश्च परिकीर्तिता ॥२०॥
विश्रुतिर्विश्रुता सद्भिः स्मारयन्ती सरस्वती।
अनवच्छिन्नभासत्वान्महाभासाभिधीयते ॥२१॥
नामधेयैरियं तैस्तैर्नानाशास्त्रसमाश्रयैः।
अन्वर्थैर्दर्शिताशेषविभवा वैष्णवी परा ॥२२॥
उदधेरिव च स्थैर्यं महत्तेव विहायसः।
प्रभेव दिवसेशस्य ज्योत्स्नेव हिमदीधितेः ॥२३॥
विष्णोः सर्वाङ्गसंपूर्णा भावाभावानुगामिनी।
शक्तिर्नारायणी दिव्या सर्वसिद्धान्तसंमता ॥२४॥
शक्तिमतः शक्तिर्भिन्ना
देवाच्छक्तिमतो भिन्ना ब्रह्मणः परमेष्ठिनः।
एष चैषा च शास्त्रेषु धर्मधर्मिस्वभावतः॥ २५॥
भवद्भावस्वरूपेण तत्त्वमेकमिवोदितौ।
स्वातन्त्र्येण स्वरूपेण विष्णुपत्नीयमद्भुता ॥२६॥
यतो जगद्भविष्यन्ती क्वचिदुन्मेषमृच्छति।
शक्तेः द्वैविध्यम्; भूतिशक्तेः त्रैविध्यम्
सहस्रायुतकोट्योघकोटिकोट्यर्बुदांशकः ॥२७॥
लक्ष्मीमयः समुन्मेषः स द्विधा व्यवतिष्ठते।
क्रियाभूतिविभेदेन भूतिः सा च त्रिधा मता ॥२८॥
अव्यक्तकालपुंभावात् तेषां रूपं प्रवक्ष्यते।
क्रियाशक्तेः भूतिशक्तिप्रवर्तकत्वम्
क्रियाख्यो योऽयमुन्मेषः स भूतिपरिवर्तकः ॥२९॥
लक्ष्मीमयः प्राणरूपो विष्णोः संकल्प उच्यते।
स्वातन्त्र्यमूल इच्छात्मा प्रेक्षारूपः क्रियाफलः ॥३०॥
उन्मेषो यः सुसंकल्पः सर्वत्राव्याहतः कृतौ।
अव्यक्तकालपुंरूपां चेतनाचेतनात्मिकाम् ॥३१॥
भूतिं लक्ष्मीमयीं विष्णोः शक्तिं संभावयत्यसौ।
अव्यक्तं परिणामेन कालं कलनकर्मणा ॥३२॥
पुरुषं भोजनोद्योगैः सर्गे संयोजयत्ययम्।
सामर्थ्यत्रितयादानाद् वियोजयति संचरे ॥३३॥
विषमे परिणामे यत् सामर्थ्यं त्रिगुणात्मनः।
सृष्टौ दधाति तत् तस्मिन् विपर्यासं च संहृतौ ॥३४॥
अव्यक्तपुरुषोद्योगसंयोजनविधिक्रमम्।
काले दधाति सर्गादौ विपर्यासं च संहृतौ ॥३५॥
पुंसश्च बुद्धिसामर्थ्यमसामर्थ्यं च भोजने।
संकल्पः कुरुते विष्णोः सर्गप्रतिविसर्गयोः ॥३६॥
त्रीनेतान् संहतान् सृष्टौ विहतान् प्रतिसंचरे।
दधाति स्वेन रूपेण गुणो मणिगणानिव ॥३७॥
स्थितौ च कुरुते रक्षां तेषां कार्यसमीक्षणात्।
सर्वत्राव्याहतत्वं यत् तत् सुदर्शनलक्षणम् ॥३८॥
क्रियाशक्तेः वैविध्येन सर्वभावानुयायित्वम्
सोऽयं सुदर्शनं नाम संकल्पः स्पन्दनात्मकः।
विभज्य बहुधा रूपं भावे भावेऽवतिष्ठते ॥३९॥
वैविध्यप्रपञ्चनम्
व्याप्तिं सुदर्शनस्येमां प्रोच्यमानां मया श्रृणु।
यज्ज्ञात्वा पुरुषो लोके कृतकृत्यत्वमश्नुते ॥४०॥
षाड्गुण्यं यत् परं ब्रह्मा या गतिर्योगिनां परा।
नारायणः स विश्वात्मा भावाभावमिदं जगत् ॥४१॥
निष्कलेन स्वरूपेण यदा प्राप्य नियच्छति।
सदा सत्ता हि या तस्य जगन्निर्माणशक्तिका ॥४२॥
सर्वभावात्मिका लक्ष्मीरहंता परमात्मनः।
तद्धर्मधर्मिणी देवी भूत्वा सर्वमिदं जगत् ॥४३॥
निष्कलेन स्वरूपेण सापि तद्वन्नियच्छति।
तदीयैका कला भूतिर्जगद्भवनसंज्ञिता ॥४४॥
व्यापारो वास्तवस्त जगन्नियमनात्मकः।
निष्कला या क्रियाशक्तिर्लक्ष्म्याः सौदर्शनी कला ॥४५॥
भजेने तौ यदा रूपं मनोनयननन्दनम्।
रक्षायै जगतामीशौ चक्रपद्मे तदा क्रिया ॥४६॥
रक्षोपकरणं देवौ तौ यावद्यावदिच्छतः।
शङ्खशार्ङ्गादिरूपेण तावत् तावत् सुदर्शनम् ॥४७॥
प्रकाशाह्लादपातैर्यद्विश्वस्योपचिकीर्षतः।
सूर्येन्दुवह्निरूपेण तदा चक्रं सुदर्शनम् ॥४८॥
देवदैत्यादिकान् भावान् यदा तौ भजतः स्वयम्।
तत्तदस्त्रमयी देवी तदा सौदर्शनी क्रिया ॥४९॥
यदा विश्वोपकाराय शास्त्रं नानाफलाश्रयम्।
कुरुतः सा क्रिया तत्र शासनं हृदयस्थितम् ॥५०॥
यदा तौ भवतः शास्त्रं विश्वोपकृतये विभू।
तदा सा शास्त्रतात्पर्यं क्रिया सौदर्शनी कला ॥५१॥
शास्त्राधिकारिणो नाम यदा तौ पितरौ ध्रुवौ।
अधिकारस्तदा तेषां क्रियाशक्तिः सुदर्शनम् ॥५२॥
यदा शास्त्रार्थभूतौ तौ फलसाधनसंश्रयात्।
फलप्रसवसामर्थ्यं क्रिया त सुदर्शनम् ॥५३॥
पुरुषार्थास्तु चत्वारो यदा तौ भवतः स्वयम्।
आत्मतर्पणसामर्थ्यं तदा चक्रं सुदर्शनम् ॥५४॥
यदा मन्त्रमयीं रक्षां भजतो जगतां हिते।
मन्त्रयन्त्रमयी देवी क्रियाशक्तिस्तदा त्वियम् ॥५५॥
वैश्वरूप्यस्य संक्षेपः क्रियाशक्तेः प्रदर्शितः।
सुदर्शनात्मिकायास्ते किं भूयः श्रोतुमिच्छसि ॥५६॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां क्रियाशक्तेर्वैश्वरूप्यप्रदर्शनं नाम तृतीयोऽध्यायः
आदितः श्लोकाः १९२
N/A
References : N/A
Last Updated : March 08, 2021
TOP