अहिर्बुध्नसंहिता - अध्यायः २१
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
ज्योतिर्मयरक्षानिरूपणं नाम एकविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
रक्षाप्रकारप्रश्नः
नारदः---
नमो निखिलगीर्वाणगणश्रेयोविधायिने।
नमस्ते त्रिपुराराते भूयो गौरीगुरो नमः ॥१॥
अत्यद्भुतमिदं दिव्यं वेदान्तेष्वपि दूर्लभम्।
श्रुतं भगवतो वाक्यं कृतार्थोऽहमनेन वै ॥२॥
भूयोऽहं श्रोतुमिच्छामि त्वद्वाक्यामृतमुत्तमम्।
का रक्षा कीदृशी चैव कार्या मन्त्रेण मन्त्रिणा ॥३॥
रक्षाया द्वैविध्यम्
अहिर्बुध्न्यः---
रक्षा तु द्विविधा मान्त्री मन्त्रनित्येन धीमता।
कार्या ज्योतिर्मयी पूर्वं पश्चात् तत्र च वाङ्भयी ॥४॥
अक्षकल्पनम्
यत् तद् दिव्यं महज्ज्योतिरक्षरं ब्रह्म शाश्वतम्।
सूर्यस्य यः परः सूर्यश्चन्द्रश्चन्द्रस्य यः परः ॥५॥
अग्नेरग्निः परो दीप्तेस्तेजस्तत्तेजसामपि।
नित्यतृप्तं सदानन्दमुदयास्तमयोज्झितम् ॥६॥
तदक्षं कल्पयेद् दिव्यमथ नाभिं स्मरेद् बुधः।
नाभिकल्पनम्
तद्धर्मधर्मिणीं शक्तिं ब्रह्मणोऽनपगामिनीम् ॥७॥
अनाकारामनौपम्यां लक्षयन्तीं सदा जगत्।
शक्तेः श्रीशब्दावाच्यत्वं तन्निर्वचनं च
श्रयन्तीं श्रीयमाणां च श्रृणन्तीं श्रृण्वतीमपि ॥८॥
महानन्दां महाभासां निर्विकारां निरेषणाम्।
श्रियः षाड्गुण्यपूर्णता
ज्ञानशक्तिबलैश्वर्यवीर्यतेजः प्रभावतीम् ॥९॥
अनन्तानन्तरूपां तामभेद्यां सर्वभेदिनीम्।
नन्दां भद्रां जयां पूर्णां रिक्तां चैवामृतां हराम् ॥१०॥
त्रिरूपामत्रिरूपां च सर्वप्रत्यक्षसंमताम्।
निषेधैरनिषेध्यां तामविधेयां विधिक्रमैः ॥११॥
अवाच्यां वाचिकां नित्यां गौरीं लक्ष्मीं सरस्वतीम्।
अरकल्पनम्
अराणि पञ्च कृत्यानि शक्तेस्तस्याः प्रकल्पयेत् ॥१२॥
तिरोभावं सृजिं चैव स्थितिं संहृत्यनुग्रहौ।
नेमिकल्पनम्
व्यूहं व्यूहान्तरं चैव नेमिभावं प्रकल्पयेत् ॥१३॥
सच्चिदानन्दसंदोहमस्पन्दस्पन्दलक्षणम्।
सर्वक्रियास्पदं शुद्धमक्रियास्पदसेवितम् ॥१४॥
उदयास्तमयस्थं तदुदयास्तमयोज्ज्ञितम्।
अवस्थाविधुरं नित्यं शश्वच्चतुरवस्थितम् ॥१५॥
अपदं चाक्रमं चैव क्रमास्थितचतुष्पदम्।
अनायुधमसंरम्भं सर्वायुधसमन्वितम् ॥१६॥
शास्त्रशास्त्रार्थतद्भेदं फलक्लृप्तिविचक्षणम्।
चन्द्रार्काग्निसहस्रौघकोटिकोट्यर्बुदोपमैः ॥१७॥
स्वभासां निचयैर्ध्वस्तसमस्तदुरितोदयम्।
विभवेसादीनां नेमिबाह्यस्थानकल्पनम्
नेमिबाह्यस्थितान् ज्वालान् विभवेशाननुस्मरेत् ॥१८॥
चन्द्रार्काग्निसहस्राभान् संविदानन्दलक्षणान्।
सर्वाकारान् निराकान् सर्वाभीष्टफलप्रदान् ॥१९॥
कान्तिज्वालाकुलालीढरक्षोदैत्येन्द्रदानवान्।
धूम्रां ज्वालाकुलोत्थां च सृष्टिं शुद्धेतरां स्मरेत् ॥२०॥
त्रैलोक्यं धरणीं चक्रं मण्डलं वा तदीश्वरम्।
अक्षस्थं कल्पयेत् तस्य यदीच्छेद्रक्षितुं धिया ॥२१॥
एवं ध्यायिन आनुषङ्गिकं फलम्
इत्थं विचिन्तयेद् यत्र मन्त्री मन्त्रार्थतत्परः।
तत्र नश्यन्ति पाप्मान आधयो व्याधयोऽपि वा॥ २२॥
ईतयोऽरातयश्चैव न क्लेशा दधते पदम्।
राजा विजयते नित्यं शश्वत् स्निह्यन्ति मन्त्रिणः ॥२३॥
नित्यं माद्यन्ति मित्राणि सुख्यन्ति सुहृदस्तथा।
बध्नन्ति बान्धवाः प्रीतिं सन्तः सन्ति च संततम् ॥२४॥
पोष्याः पुष्यन्ति चार्थानां श्रयन्ति श्रिय एव च।
ऋध्नुवन्ति प्रजा नित्यं प्रसीदन्त्यः परस्परम् ॥२५॥
कामैर्धर्मान् निबध्नन्ति धर्मैरर्थाननेकशः।
अर्थैः कामान् निबध्नन्ति तथा धर्मानशेषतः ॥२६॥
धर्मैरर्थान् निबध्नन्ति तथा कामानशेषतः।
धर्मार्थाभ्यां तथा कामं कामार्थाभ्यां तथेतरम् ॥२७॥
अर्थं च धर्मकामाभ्यां संचिन्वन्ति सदा नराः।
मुख्यफलकथनम्
सर्वे स्वधर्मनिरतास्तथा कल्याणभागिनः ॥२८॥
संप्राप्य भगवज्ज्ञानं प्राप्नुवन्ति परं पदम्।
अध्यायार्थनिगमनम्
इति ज्योतिर्मयी रक्षा लेशतस्ये निदर्शता।
रक्षां तु वाङ्भयीं प्रोक्तां गृणतो मे निशामय ॥२९॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां ज्योतिर्मयरक्षानिरूपणं नाम एकविंशोऽध्यायः
आदितः श्लोकाः १२५६
N/A
References : N/A
Last Updated : March 08, 2021
TOP