अहिर्बुध्नसंहिता - अध्यायः १०
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
अर्थात्मकप्रमाणनिरूपणं नाम दशमोऽध्यायः
नारदः----
भगवन् देवदेवेश भवानीजीवितेश्वर।
लोकनाथ जगन्नाथ देवानामभयप्रद ॥१॥
नमस्ते त्रिपुरुघ्नाय तत्त्वविज्ञानसिन्धवे।
दशाव्ययाय ते नित्यं षडङ्गाय नमो नमः ॥२॥
यदेतदुदितं नित्यं जगत्कारणमव्ययम्।
यच्चाधारतया प्रोक्तं संकल्पाख्यं सुदर्शनम् ॥३॥
तदेतदखिलं देव विष्णुसंकल्पजृम्भितम्।
समासव्यासरूपेण तत्त्वतो मेऽवधारितम् ॥४॥
इदानीं श्रोतुमिच्छामि विस्तरेणान्तकान्तक।
किं तत् प्रमाणमित्युक्तं कीदृशं किंविधं च तत् ॥५॥
किमर्थं किंमयं देव तन्मे विस्तरशो वद।
वक्ता सर्वस्य गुह्यस्य त्वदन्यो नैव विद्यते ॥६॥
प्रमाणनिरूपणप्रतिज्ञा
अहिर्बुधन्यः---
श्रृणु नारद तत्त्वेन प्रमाणस्थितिमव्ययाम्।
विश्वं यत्रैव विश्रान्तं सदेवासुरमानुषम् ॥७॥
प्रमाणस्वरूपनिरूपणम्
मध्यमोः यः स संकल्पो विष्णोः सृष्टवतो जगत्।
शाश्वते तिष्ठति व्यक्तं जगन्मार्ग इतीदृशः ॥८॥
तत् प्रमाणमिति प्रोक्तं स्थितिचक्रं महामुने।
प्रमाणविभागः
समष्टिव्यष्टिभावेन तद् द्विरूपं विभाव्यते ॥९॥
समष्टिप्रमाणस्वरूपम्
ऐकरूप्येण संकल्पो यः सर्वविषये स्थितः।
महास्थितिमयं चक्रं तदेतत् कीर्तितं मुने ॥१०॥
व्यष्टिप्रमाणस्वरूपम्
तत्त्वेयत्ता समस्तात्मन् यस्मिन्नायततेऽखिला।
प्रातिस्विकी व्यवस्था या यस्य सत्त्वस्य यादृशी॥ ११॥
तद्वद्व्यष्टिमये चक्रे प्रमाणे सा व्यवस्थिता ॥१२॥
एकचेष्टादिको योऽर्थो यश्च सृष्ट्यादिलक्षणः ।
शास्त्रशास्त्रार्थतत्साध्यव्यवस्थात्मा च यो मुने ॥१३॥
वासुदेवादिके व्यूहे स्वस्वसंकल्पसंभवः।
तदाद्यं भगवद्रूपं चक्रं स्थितिमयं महत् ॥१४॥
प्रमाणं येन तत् सर्वमियत्तां प्रतिपद्यते।
तस्यैव विस्तरेण प्रतिपादनम्
यच्च तत् परमं व्योम दिव्यसंभोगलक्षणम् ॥१५॥
स्थितिप्रमाणरूपेण तत्संकल्पेन वै हरेः।
अनियत्तमसंकोचमनन्तं व्यवतिष्ठते ॥१६॥
अचेतनानां तत्त्वानां या सा योनिः परा मुने।
कालकाल्यमयी शक्तिरियत्ता तत्त्रिधा परा ॥१७॥
स्वरूपकार्यभावादौ सा प्रमाणनिबन्धना।
नियतिः काल इत्येते द्वे कालस्य भिदे मते ॥१८॥
शुद्धाशुद्धमये मध्ये यः पुमान् कूटवत् स्थितः।
नानाजीवमहायोनिस्तस्य या स्थितिरव्यया ॥१९॥
इयत्ता या च सा चक्रे प्रमाणे व्यवतिष्ठते।
इयत्ताया भिदा या च कलाकाष्टादिगोचरा ॥२०॥
सा प्रमाणमये चक्रे सर्वाप्यायतते मुने।
सत्त्वादीनां स्वरूपं यद्या प्रवृत्तिः फलं च यत् ॥२१॥
इयत्ता तत्र सर्वत्र सा प्रमाणसुदर्शनात्।
यद्रूपत्रितयं बुद्धेर्धर्माद्या या च विक्रिया ॥२२॥
व्यापारस्पन्दनिर्णीतिर्निमेषात्मा च योऽखिलः।
योऽत्रेयत्तामयो भावः स प्रमाणसुदर्शनात् ॥२३॥
अभिमानो द्विधा योऽपि संरम्भो योऽप्यहंकृतेः।
यश्च कामादिको भावस्तत्रेयत्तास्थितिश्च या ॥२४॥
सा प्रमाणमये चक्रे संकल्पेऽस्मिन् सुदर्शने।
पञ्चानां पञ्चकं यच्च संकल्पानामवस्थितम् ॥२५॥
तादृशं च विकल्पानां तदेतद् द्वितयं मुने।
इयत्ता या स्थिता व्याप्य सा प्रमाणसुदर्शनात् ॥२६॥
तानवं पाटवं यच्च यच्चालोचनपञ्चकम्।
शान्तघोरादिकं रूपं यच्च धीन्द्रियपञ्चके ॥२७॥
वचनादानविक्रान्तिमोदोत्सर्गमयं च यत्।
शान्तघोरादिकं रूपं यत्कर्मेन्द्रियपञ्चके ॥२८॥
तत्रेयत्तामयं रूपं यच्च स्थितिमयं वपुः।
प्रमाणे वैष्णवे सर्वं तत्संकल्पसुदर्शने ॥२९॥
व्यूहावकाशलघुताचेष्टाप्रेरणशोषणम्।
व्यूहावकाशव्यक्तार्द्रस्नेहक्षुद्रत्वमप्युत ॥३०॥
स्थैर्यपार्थिवकाठिन्यमित्येतद्भौतिकं वपुः।
एकद्वित्रिचतुः पञ्चगुणव्यूहमयी स्थितिः ॥३१॥
यैस्तद्व्याप्य स्थितेयत्ता सा प्रमाणसुदर्शनात्।
तत्त्वे तत्त्वे च मर्यादा या या शश्वदवस्थिता ॥३२॥
सा सा प्रमाणचक्रस्य संकल्पस्य हरेर्गतिः।
इतीयं स्थितिमर्यादेयत्ता चक्रे प्रकीर्तिता ॥३३॥
विष्णुसंकल्पसंभूतां स्थितिमन्यां मुने श्रृणु।
प्रतिबन्धनिरासेन या स्वभावगतिर्मुने ॥३४॥
तत्त्वानां तात्त्विकानां च सा स्थितिः कथ्यते मुने।
गुणान्तरानुग्रहेण यः सत्त्वोन्मेष ऊर्जितः ॥३५॥
धर्मज्ञानादिरूपोऽसौ सुदर्शनसमीरितः।
परिमाणविशेषः स बोध्यस्त्रैलोक्यधारकः ॥३६॥
शनैराचर्यमाणोऽसौ सत्त्वोज्जवलितबुद्धिभिः।
बिभर्ति रोदसी शश्वदन्नवृष्ट्यादिदानतः ॥३७॥
गुणान्तरानुग्रहेण तमसो यः स उद्यमः।
अधर्मादिस्वरूपोऽसौ विष्णुसंकल्पचोदितः ॥३८॥
शनैराचर्यमाणोऽसौ तमोमलिनबुद्धिभिः।
अन्नवृष्ट्यादिनाशेन विनाशयति रोदसी ॥३९॥
सत्त्वस्योपद्रवः शश्वदतोऽन्यस्माद्गुणद्वयात्।
शस्त्रव्यूहप्रतिपादनम्
धर्मसंस्थापनायाथ निरसिष्यन्नधार्मिकान् ॥४०॥
जनार्दनत्वमीशानो यदा विष्णुः प्रपद्यते।
तदा देवस्य संकल्पः सुदर्शनसमाह्वयः ॥४१॥
आयुधादिस्वरूपेणाकारत्वं प्रतिपद्यते।
चक्रलाङ्गलसौनन्दशङ्खशार्ङ्गशरात्मना ॥४२॥
खडूगखेटकरूपेण पाशाङ्कुशपरश्वधैः।
दण्डकुन्तस्वरूपेण दम्भोलिमुसलात्मना ॥४३॥
शतवक्राग्निरूपेण कुन्तशक्तिमयात्मना।
तथा शूलस्वरूपेण खर्वाङ्गाद्यायुधात्मना ॥४४॥
एवं नानाविधै रूपैस्तत्संकल्पविकल्पितैः।
उदेति जगतो वृद्ध्यै नारायणकराश्रयी ॥४५॥
इति शस्त्रमयो व्यूहो लेशतस्ते निदर्शितः।
अपरोऽस्त्रमयो व्यूहः सौदर्शन उदीर्यते ॥४६॥
अस्त्रव्यूहप्रतिपादनम्
रूपमास्थाय दिव्यं तदङ्गप्रत्यङ्गभूषणम्।
ब्रह्मक्षत्रादिभावेन मुखबाहूरुपादतः ॥४७॥
ब्रह्मास्त्रादिमयं व्यूहं प्रवर्तकनिवर्तकम्।
सृजत्यशेषरक्षार्थं षष्टिद्वितयसंमतम् ॥४८॥
प्रजापतिपितृब्रह्मदेवेभ्यश्च तथा तथा।
दिव्यो नानाविधाकारः समुदेत्यस्त्ररूपवान् ॥४९॥
ब्रह्मदेवर्षिराजर्षिष्वपि मन्त्रमयात्मसु।
अनुव्याहारशापादिरूपेणैवावतिष्ठते॥ ५०॥
न तदस्ति पृथिव्यां वा दिवि वा मुनिसत्तम।
निग्रहेऽनुग्रहे वापि यत्रायं नैव साधनम् ॥५१॥
प्रमाणव्यूह एतावानर्थाकारो निदर्शितः।
सुदर्शनस्य देवस्य शब्दाकारमथो श्रृणु ॥५२॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अर्थात्मकप्रमाणव्यूहनिरूपणं नाम दशमोऽध्यायः
आदितः श्लोकाः ६१८
N/A
References : N/A
Last Updated : March 08, 2021
TOP