अहिर्बुध्नसंहिता - अध्यायः १७
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
वर्णसंज्ञानिरूपणं नाम सप्तदशोऽध्यायः
ध्यायिनां सुखदं नित्यं ज्वालाजटिलकुन्तलम्।
सुदर्शनाख्यं तद्दिव्यं महः किमपि धीमहि॥
वर्णमातृकाधिष्ठातृरूपप्रश्नः
नारदः---
नमस्ते शर्व सर्वज्ञ सर्वासुरनिबर्हण।
स्थूलसूक्ष्मपरैर्भावैर्यथा वर्णा अधिष्ठिताः ॥१॥
विष्णुना देवदेवेन रुद्रैश्च भवदंशकैः।
तथा तं मे परं भावं वक्तुमर्हसि शंकर ॥२॥
तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः---
विष्णुशक्तिमया वर्णा विष्णुसंकल्पजृम्भिताः।
अधिष्ठिता यथा भावैस्तथा तन्मे निशामय ॥३॥
वर्णाधिष्ठातृवैष्णवरूपाणि
प्रथमश्चाप्रमेयश्च व्यापकोऽकार उच्यते।
आनन्द आदिदेवश्च गोपनश्चाः स्मृतो बुधैः ॥४॥
इष्ट इद्धश्च रामश्च इकारः परिपठ्यते।
विष्णुश्च पञ्चबिन्दुश्च माया ईकार उच्यते ॥५॥
उकार उदयश्चापि ह्युद्दामो भुवनाह्वयः।
प्रज्ञाधारश्च लोकेश ऊर्ज ऊकार उच्यते ॥६॥
ऋकार ऋतधामा च सत्यश्चाङ्कुश एव च।
ज्वाला प्रसरणश्चैव ऋकारो विष्टराह्वयः ॥७॥
लृकारस्तारकः प्रोक्तो लिङ्गात्मा भगवानिति।
लृकारो दीर्घघोणश्च देवदत्तस्तथा विराट् ॥८॥
एकारस्तु जगद्योनिस्त्र्यश्रो विग्रह एव च।
ऐकारश्च तथैश्वर्यं योगी ह्यैरावणस्तथा ॥९॥
औदनश्चौतदेवश्च विक्रम्योकार उच्यते।
और्वो भूधरसंज्ञश्चाप्यौः स्मृतो ह्यौषधात्मकः ॥१०॥
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशौंकार एव च।
अंकारः सृष्टिकृत् प्रोक्तो विसर्गः परमेश्वरः ॥११॥
ककारः कमलश्चैव करालः प्रकृतिः परा।
खकारः खर्वदेहश्च वेदात्मा विश्वभावनः ॥१२॥
गकारस्तु गदध्वंसी गोविन्दश्च गदाधरः।
घकारस्त्वथ घर्मांशुस्तेजस्वी दीप्तिमांस्तथा ॥१३॥
ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः।
चन्द्रांशुश्चञ्चलश्चक्री चकारः परिकीर्त्यते ॥१४॥
छन्दः पतिश्वलध्वंसी छकारश्छन्द एव च।
अजितो जन्महन्ता च जकारः शाश्वतः स्मृतः ॥१५॥
झकारो झषसंज्ञस्तु सामगः सामपाठकः।
ञकार उत्तमाख्यश्च ईश्वरस्तत्त्वधारकः ॥१६॥
विश्वाप्यायकरश्चन्द्री ट आह्लाद उदीरितः।
धाराधरो नेमिसंज्ञष्ठकारः कौस्तुभो मतः ॥१७॥
मौसलो दण्डधारश्च डकारोऽखण्डविक्रमः।
ढकारो विश्वरूपश्च दृढकर्मा प्रतर्दनः ॥१८॥
णकारोऽभयदः शस्ता वैकुण्ठः परिकीर्तितः।
तकारस्ताललक्ष्मा च वैराजः स्रग्धरस्तथा ॥१९॥
धन्वी भुवानपालश्च थकारः सर्वधारकः।
दत्तावकाशो दमनो दकारः शान्तिदः स्मृतः ॥२०॥
धकारः शार्ङ्गधृग्धामा माघवश्च प्रकीर्तितः।
नरो नारायणः पन्था नकारः समुदाहृतः ॥२१॥
पकारः पद्मनाभश्च पवित्रः पश्चिमाननः।
फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञितः ॥२२॥
बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते।
भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः ॥२३॥
मकारो मर्दनः कालः प्रधानः परिपठ्यते।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥२४॥
अशेषभुवनाधारो रोऽनलः कालपावकः।
लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः ॥२५॥
वराहश्चामृताधारो वकारो वरुणः स्मृतः।
शकारः शंकरः शान्तः पुण्कडरीकः प्रकीर्तितः ॥२६॥
नृसिंहश्चाग्रिरूपश्च षकारो भास्करस्तथा।
सकारस्त्वमृतस्तृप्तिः सोमश्च परिकीर्तितः॥ २७॥
सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः।
अनन्तेशः क्षकारस्तु वर्गान्तो गरुडः स्मृतः ॥२८॥
बिन्दुः संहार इत्युक्तो विसर्गः सृष्टिरुच्यते।
विष्णुशक्तिमया एते स्थूलसूक्ष्मपरात्मकाः ॥२९॥
अप्रमेयादयो भावाः शतं सार्धमुदीरिताः।
वर्णाधिष्ठातृरौद्ररूपाणि
वर्णास्तेऽधिष्ठिता यैस्तैर्मदंशे रुद्रसंज्ञितैः ॥३०॥
तान्निबोध महाभागानक्षरस्थान् महामुने।
श्रीकण्ठानन्दसूक्ष्मेशास्त्रिमूर्तिरमरेश्वरः ॥३१॥
अङ्घ्रीशो भारभूतिश्च तिथिः स्थाणुर्भवाह्वयः।
चण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ॥३२॥
अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः।
ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः ॥३३॥
तथैकरुद्रः कूर्मैकनेत्राह्वचतुराननाः।
अजेशः शर्वसोमेशौ लाङ्गली दारिकस्तथा ॥३४॥
अर्धनारीश्वरश्चोमाकान्तश्चाषाढदण्डिनौ।
अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ॥३५॥
चलगण्डद्विगण्डौ च समाहाकालवालिनौ।
भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा ॥३६॥
श्वेतो भृगुर्वकुलीशः संवर्तक इतीरितः।
रुद्रमूर्तय उद्दिष्टा मदीया वर्णपालिकाः ॥३७॥
वर्णचक्रपद्मनिरूपणम्
तथा वर्णमयं चक्रं पद्मं चापि निबोध मे।
प्रणवोऽक्षः समुद्दिष्टः शक्तिर्नाभिरुदीरिता ॥३८॥
अकचाष्टतपाश्चैव सवर्ग्या अपरद्धतिः।
यादयो नेमिरुद्दिष्टा गरुडः प्रधिरुच्यते ॥३९॥
प्रणवः कर्णिका प्रोक्ता शक्तिः केसरपद्धतिः।
स्वरद्विरष्टकं वर्गा अन्तःस्था ऊष्मभिः सह ॥४०॥
पत्राष्टकमिदं प्रोक्तं गरुडो दीप्तिरुच्यते।
इति चक्राब्जमध्यस्था मातृकावर्णमालिनी ॥४१॥
मन्त्रयोनिर्महादेवी वैष्णवी षड्गुणात्मिका।
वर्णमातृकात्मकवैष्णवशक्तिस्वरूपवर्णनम्
आदिवर्णप्रक्लृप्ताङ्गा वर्गाभरणभूषिता ॥४२॥
पद्मगर्भप्रतीकाशा शङ्खपङ्कजधारिणी।
प्रणवेनाथ शक्त्या च श्रिया संक्लृप्तदेहिका ॥४३॥
स्वरसंपूर्णवदना कचक्लृप्तकरद्वया।
टतक्लृप्तपदद्वन्द्वा पादिक्लृप्तोदरा शुभा ॥४४॥
यरप्राणोष्मका देवी लकारवरहारिणी।
वकारकाञ्चीसुभगा शषकुण्डलधारिणी ॥४५॥
सहृत्का हान्तरात्मा च क्षप्रभा वर्णमालिनी।
पाशाङ्कुशकराग्रा च वाणी ध्येया विपश्चिता ॥४६॥
प्रथमं वैष्णवशक्त्याराधनम्
वक्ष्यमाणेन मन्त्रेण पुरैवाराधयेद्गिरम्।
ततो मन्त्रोद्धारः
लब्धानुज्ञस्ततो देव्या गुरुपङ्क्तिं समर्च्य च ॥४७॥
गणेशमभिपूज्याथ मन्त्रानिष्टान् समुद्धरेत्।
वैष्णवरूपैरेव वैष्णवमन्त्रोद्धरणम्
अप्रमेयादिभिर्भावैर्वैष्णवानुद्धरेत् सुधीः ॥४८॥
रौद्रमन्त्राणां रौद्ररूपैरुद्धरणम्; शक्तिमन्त्राणां शक्तिरूपैः
रौद्रान् रुद्रैस्ततः शाक्तान् भारत्यंशैः समुद्धरेत्।
यद्यपि व्यापका मन्त्रा नित्यं सिद्धा महामुने ॥४९॥
स्युः शक्तिशालिनो मन्त्रा एवं सृष्टिविचिन्तनात्।
उक्तक्रमोल्लङ्घने प्रत्यवायः
उज्झित्वोक्तक्रमं यो हि मन्दात्मा मन्त्रमुद्धरेत् ॥५०॥
भवन्ति शापदा मन्त्रास्तस्य शास्त्रातिवर्तिनः।
अनुल्लङ्घनेऽभ्युदयः
अनुज्झित्वा क्रमं सर्वं यः सुधीर्मन्त्रमुद्धरेत्।
तस्याध्ययनमात्रेण मन्त्रः सिद्धिं प्रयच्छति ॥५१॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां वर्णसंज्ञानिरूपणं नाम सप्तदशोऽध्यायः
आदितः श्लोकाः १०५५
N/A
References : N/A
Last Updated : March 08, 2021
TOP