अहिर्बुध्नसंहिता - अध्यायः १८

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


मन्त्रोद्धारो नाम अष्टादसोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

शक्तिमन्त्रोद्धारः
अहिर्बुध्न्यः---
सक्तिं समुद्धरेत् पूर्वमग्नीषोमात्मना स्थिताम्।
विष्णुस्थां परमात्मस्थां स्पृशन्तीं व्यापिनीं पुनः ॥१॥
वाणीहृदयमादाय योजयेदन्तरात्मना।
हृदा पुनः समायोज्य योजयेदूष्मणो द्वयम् ॥२॥
पञ्चबिन्दुं महाशक्तिं स्मरेदथ तदासनाम्।
व्योमेशमाश्रयन्तीं तां स्मरेदथ धिया पुनः ॥३॥
संक्षेपतस्तत्प्रभावः
इयं दिव्या महाशक्तिः सोमसूर्याग्निभूषणा।
माया नाम तनुर्विष्णोत्त्रैलोक्यैश्वर्यदोज्ज्वला ॥४॥
स्थूलसूक्ष्मपरत्वेन शक्तिरेषा निदर्शिता।
सौदर्शनानां मन्त्राणामियं योनिर्महामुने ॥५॥

विष्णुसंकल्परूपाणां ये चान्ये वैष्णवा भुवि।
इयं सा परमा शक्तिरहंतेयं हरेः परा ॥६॥
विचित्रानेकशब्दार्थतत्तत्संकल्पकोरका।
युग्मान्तैरादिभिः षड्भिराद्यन्तस्वरषट्कयोः ॥७॥
अङ्गक्लृप्तिः समुद्दिष्टा शक्त्या मेलितया स्वया।
सुदर्शनदशाक्षरमन्त्रोद्धारः
मनसाभ्यस्य तां शक्तिं संतोषावधि वैष्णवीम् ॥८॥
समुद्धरेन्महामन्त्रं सोदर्शनमनन्यधीः।
अमृतं शक्तिहृद्भूतमप्रमेयेन वर्णयेत् ॥९॥
दिव्यं तदन्तरात्मानं परमात्मानमञ्जसा।
योजयेत् प्रथमेनैव तत्स्थां तृप्तिं तु केवलाम् ॥१०॥
केवलं तत्स्थितं सोमं तत्स्थितं च स्मरेत् सुधीः।
अशेषभुवनाधारं तत्स्थमानन्दमेव च ॥११॥
कालपावकमादाय दुष्टपापेन्धनानलम्।
योजयेद् व्यापकेनैव नानाविधविभाविना ॥१२॥
संक्षेपतस्तत्प्रभाववार्णनम्
दशाक्षरी महाविद्या शक्तिः सौदर्शनी त्वियम्।
स्थूलसूक्ष्मपराकारा विष्णुसंकल्परूपिणी ॥१३॥

तत्तद्विचित्रसंकल्पसदसद्भावभाविनी।
सर्वभावानुगा विष्णोः परा सौदर्शनी स्थितिः ॥१४॥
आकाशादिपृथिव्यन्तभूतिभेदानुयायिनी।
सूक्ष्मा सौदर्शनी शक्तिः कारणादिविभागिनी ॥१५॥
तत्तद्दुरितदैत्यौघतमोविध्वंसनात्मिका।
स्थूलचक्रस्वरूपाढ्या विष्णोः सांकल्पिकी स्थितिः॥ १६॥
स्वरव्यञ्जनकूटस्थैः पूर्णेयं चतुरक्षरी।
निदानं सर्वसिद्धीनामपदं लाभनाशयोः ॥१७॥
कूटे त्र्यर्णमये त्वस्याः परतः प्रायशः स्थितेः।
याभ्यां षडक्षरी सैषा विद्या भुवनकारिका ॥१८॥
त्रेधा पञ्चमबीजकथनम्
परमातमानमादाय योजयेदुदयेन तु।
प्रधानं संसृपृशेद्भूयः परं बीजं तु पञ्चमम् ॥१९॥
सूर्यमुद्दामकालाढ्यं सूक्ष्मं तद्बीजमुच्यते।
सप्राणं भुवानाधारं रक्षोदुरितमर्दनम् ॥२०॥
स्थूलं तु पञ्चमं बीजं सौदर्शनमनुत्तमम्।

त्रेधा षष्ठवीजकथनम्
यत्तत् सांकर्षणं घोरं लाङ्गलं परमायुधम् ॥२१॥
योजयेदप्रमेयेण चन्द्रिकाकेवलेन च।
परं तत् परमं षष्ठं दीप्तिशालि सुदर्शने ॥२२॥
सर्वशास्त्रार्थकूटस्थमिति तेजोऽप्रमेयकम्।
षष्ठे परा स्थितिर्बीजे सेयं नारद दर्शिता ॥२३॥
तत् फुल्लनयनाकारं फुल्लैर्यन्नयनैर्वृतम्।
प्रथितं प्रथमाक्रान्तं विश्वाप्ययकृदुज्ज्वलम् ॥२४॥
सूक्ष्मं षष्ठं समुद्दिष्टं बीजं सौदर्शनं परम्।
यस्मान्नयति सन्मार्गं छित्त्वाघं बाह्यमान्तरम् ॥२५॥
प्रथते च मुहुर्वृद्ध्या विश्वमाप्याययत्यपि।
इयं ते मध्यमावस्था सूक्ष्मा षष्ठी प्रदर्शिता ॥२६॥
श्वेताख्या व्यापकाक्रान्ता आह्लादेन तु केवलम्।
षष्ठी स्थूला समुद्दिष्टा विधा नारद ते मुने ॥२७॥
स्थाणुं छित्त्वा यथा दग्ध्वा पूर्वं केदारकारकः।
फलप्रापणबीजानि प्रथयित्वा च वारिणा ॥२८॥
आप्याय्य शान्तसंतापो व्याप्नुवन् विविधं फलम्।
आह्लादं लभतेऽतीव सेयं षष्ठीं परा मुने ॥२९॥

इति ते दर्शिता शश्वच्छक्तिः सा षोडशाक्षरी।
सुदर्शनगायत्री
स्वशक्त्या तु समाक्रान्ता गायत्री सेयमीरिता ॥३०॥
पुनः शक्तिमन्त्रवैभवः
एषा सौदर्शनी शक्तिर्भवबीजक्षयंकरी।
जप्तार्चिता हुता ध्याता तारयत्येव साधकम् ॥३१॥
अस्याः प्रातिस्विकं बीजं चतुर्थं कूटमुत्तमम्।
स्मृता प्रातिस्विकी शक्तिस्तृप्तिः सोमामृतात्मिका॥ ३२॥
शक्तिमन्त्रस्य प्रथमद्वितीयाक्षराभ्यां पुरुषसूक्तश्रीसूक्तयोराविर्भावः
अक्षरादादिमादस्याः सूक्तं पौरुषमुद्गतम्।
द्वितीयाक्षरसंभूतं श्रीसूक्तं नाम यन्मुने ॥३३॥
संक्षेपतो मन्त्रार्थवर्णनम्
सहयोर्यत् स्मृतं ज्ञानं तत् सहस्रारमुच्यते।
सहो बलं समाख्यातं तत् स्रवत्यखिलेन यत् ॥३४॥
तत् सहस्रं समाख्यातमनन्तं प्राणनं च तत्।
अरं ज्ञानं समाख्यातं नित्यशुद्धं निरञ्जनम् ॥३५॥

ज्ञानक्रियात्मिका शक्तिरिति सौदर्शनी कला।
संप्राप्योदयमुद्दामं भुवनस्य कृते स्वयम् ॥३६॥
प्राणसूर्यात्मिका भूत्वा परमात्मस्वरूपिणी।
निहत्य दुरितं शश्वद्विश्वमाप्याययन्त्यपि ॥३७॥
स्वेता प्रसन्नभूयिष्ठा स्वयमानन्दते मुहुः।
संहृतैर्विगृहीतैश्च वाक्यैर्वर्णैः पदैरपि ॥३८॥
लेशतोऽर्थगतिः प्रोक्ता विस्तृत्या नैव शक्यते।
सुदर्शनसप्ताक्षरी
प्रणवेन समाक्रान्ता सेयं सप्ताक्षरी स्मृता ॥३९॥
सुदर्शनाष्टाक्षरी
स्वशक्त्या च समाक्रान्ता सेयमष्टाक्षरी स्मृता।
सुदर्शननवाक्षरी
श्रिया समेता भूयोऽपि स्मृता सैषा नवाक्षरी ॥४०॥

अथाङ्गसिद्ध्यर्थाङ्गमन्त्रः
अथास्या अङ्गसिद्ध्यर्थमेकमङ्गं निशामय।
चन्द्रांशुमुद्धरेत् पूर्वमप्रमेयेण भूषयेत् ॥४१॥

अशेषभुवनाधारं परप्रकृतिसंयुतम्।
आनन्देन समाक्रान्तं द्वितीयं कूटमुद्धरेत् ॥४२॥
चतुर्गतिमथादाय ह्यप्रमेयेण भूषयेत्।
ततोऽमृतमुपादायाप्यमृताधारभूषितम् ॥४३॥
आनन्दयोजितं पश्चात् परमात्मानमुद्धरेत्।
आनन्दपूरितः सोऽयं मन्त्रः सर्वाङ्गमन्त्रराट् ॥४४॥
अतिचञ्चलदीप्ताग्निः फुल्लत्कमलसंनिभः।
सूर्यानलसहस्राभ आदिदेवसमद्युतिः ॥४५॥
नित्यतृप्तश्च मन्त्रात्मा सूक्ष्मावस्थ उदाहृतः।
करालाकारवर्णाभा स्फुरच्चक्रायुतान्विता ॥४६॥
निहत्य दुरितं सर्वं प्राणेन स्वेन तेजसा।
सोमसूर्यात्मिका भूत्वा गोपायति जगत्त्रयम् ॥४७॥
इति स्थूला गतिर्दिव्या चक्रमन्त्रस्य दर्शिता।
इदं नानाविधैर्बीजैर्हृदयाद्यङ्गसंततौ।
योजयेच्चक्रमन्त्रं तु ४८यथा तन्मे निशामय ॥४८॥

इति श्रीपाञ्चरात्रे तत्ररहस्ये अहिर्बुध्न्यसंहितायां मन्त्रोद्धारो नाम अष्टादशोऽध्यायः

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP