अहिर्बुध्नसंहिता - अध्यायः १२
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
शब्दात्मकप्रमामव्यूहविशेषस्वरूपनिरूपणं नाम द्वादशोऽध्यायः
वृत्तानुवादः
नारदः---
सुरासुरगणाराध्य नमस्ते पार्वतीप्रिय।
त्वत्प्रसादाच्छ्रुतं देव दिव्यं तद्वैष्णवं यशः ॥१॥
यत् तदाद्यं महच्छास्त्रं सुदर्शनमयं हरेः।
तस्मात् पृथक् पृथक्छास्त्रमाहुर्वाच्यायनादयः ॥२॥
त्रय्यादिस्वरूपपन्नः
त्रयी सांख्यं तथा योगशास्त्रं पाशुपतं तथा।
सात्त्वतं चेति तद्रूपं श्रोतुमिच्छाम्यहं प्रभो ॥३॥
तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः---
श्रृणु नारद तत्त्वेन तेषां रूपं पृथक् पृथक्।
संकल्पो यावता विष्णोर्भेदेन व्यवतिष्ठते ॥४॥
त्रयीस्वरूपनिरूपणम्
तत्र त्रयीमयं रूपमाद्यं सर्वार्थदर्शनम्।
ऋग्यजुः सामरूपत्वात् त्रयी सा परिकीर्तिता ॥५॥
कार्यभेदात् त्रयीत्वेऽपि चतुर्धा सा प्रकीर्तिता।
ऋचो यजूंषि सामानि ह्यथर्वाङ्गिरसस्तथा ॥६॥
चातुर्होत्रप्रधानत्वादृगादित्रितयं त्रयी।
अथर्वणां पृथक्करणे हेतुः
अथर्वाङ्गिरसां रूपं सर्वमृग्यजुषात्मकम् ॥७॥
तथापि शान्त्याभिचारप्राधान्यात् ते पृथक् कृताः ।
ऋगादीनां शाखासंख्या
एकविंशतिशाखावानृग्वेदः परिगीयते ॥८॥
शतं चैका च शाखाः स्युर्यजुषामेकवर्त्मनाम्।
साम्नां शाखाः सहस्रं स्युः पञ्च शाखा अथर्वणाम् ॥९॥
इयतामेव वेदानां प्रत्यक्षत्वम्
इयन्त एव प्रत्यक्षा आम्नायन्ते महर्षिभिः।
स्मर्यन्ते मुनिभिर्नित्यं लब्धानुज्ञैर्महेश्वरात् ॥१०॥
एषां नैयमिका धर्माः स्वरूपाम्नायगोचराः।
कल्पादीनि षडङ्गानि
कल्पो व्याकरणं शिक्षा निरुक्तं ज्योतिषां गतिः ॥११॥
छन्दसां विचयश्चेति षडङ्गानि विदुर्बुधाः।
मीमांसा न्यायश्चोपाङ्गम्
उपाङ्गद्वितयं चैतन्मीमांसा न्यायविस्तरः ॥१२॥
धर्मज्ञसमयोऽर्थाश्च वेदवादोत्थितास्तथा।
निबद्धा चानिबद्धा च संस्काराचारसंततिः ॥१३॥
धर्मशास्त्रं महर्षीणामन्तः करणसंभृतम्।
उपवेदादिकम्
इतिहासपुरणाख्य उपवेदः प्रकीर्तितः ॥१४॥
वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने।
आयुर्वेदश्च पञ्चैत उपवेदाः प्रकीर्तिताः ॥१५॥
दण्डनीतिश्च वार्ता च विद्याद्वयमिदं परम्।
एकविंशतिभेदो यः सप्रकारः प्रकीर्तितः ॥१६॥
वाच्यायनादृषेः पूर्वं विष्णोर्वाणीसमुद्भवात्।
त्रयीरूपेण संकल्प इयद्भेदो विजृम्भितः ॥१७॥
सांख्यस्वरूपवर्णनम्
सांख्यरूपेण संकल्पो वैष्णवः कपिलादृषेः।
उदीतो यादृशः पूर्वं तादृशं श्रुणु मेऽखिलम् ॥१८॥
षष्टिभेदं स्मृतं तन्त्रं सांख्यं नाम महामुने।
प्राकृतं वैकृतं चेति मण्डले द्वे समासतः ॥१९॥
प्राकृतमण्डलवर्णनम्
प्राकृतं मण्डलं तत्र द्वात्रिंशद्भेदमिष्यते।
तत्राद्यं ब्रह्मतन्त्रं तु द्वितीयं पुरुषाङ्कितम् ॥२०॥
त्रीणि तन्त्राण्यथान्यानि त्रशक्तेर्नियतिकालयोः।
गुणतन्त्राण्यथ त्रीणि तन्त्रमक्षरपूर्वकम् ॥२१॥
प्राणतन्त्रमथान्यत्तु कर्तृतन्त्रमथेतरत्।
८सामितन्त्रमथान्यत्तु ज्ञानतन्क्षत्राणि पञ्च च ॥२२॥
क्रियातन्त्राणि पञ्चाथ मात्रातन्त्राणि पञ्च च।
भूततन्त्राणि पञ्चेति त्रिंशद् द्वे च भिदा इमाः ॥२३॥
प्राकृतं मण्डलं प्रोक्तं वैकृतं मण्डलं श्रृणु।
वैकृतमण्डलवर्णनम्
अष्टाविंशतिभेदं तन्मण्डलं वैकृतं स्मृतम् ॥२४॥
कृत्यकाण्डानि पञ्चादौ भोगकाण्डं तथाऽपरम्।
वृत्तकाण्डं तथैकं तु क्लेशकाण्डानि पञ्च च ॥२५॥
त्रीणि प्रमाणकाण्डानि ख्यातिकाण्डमतः परम्।
धर्मकाण्डमथैकं च काण्डं वैराग्यपूर्वकम् ॥२६॥
अथैश्वर्यस्य काण्डं च गुणकाण्डमतः परम्।
लिङ्गकाण्डमथैकं च दृष्टिकाण्डमतः परम् ॥२७॥
आनुश्रविककाण्डं च दुःखकाण्डमतः परम्।
सिद्धिकाण्डमथैकं च काण्डं काषायवाचकम् ॥२८॥
तथा समयकाण्डं च मोक्षकाण्डमतः परम्।
अष्टाविंशतिभेदं तदित्थं विकृतिमण्डलम् ॥२९॥
षष्ठितन्त्राण्यथैकैकमेषां नानाविधं मुने।
षष्टितन्त्रमिदं सांख्यं सुदर्शनमयं हरेः ॥३०॥
आविर्बभूव सर्वज्ञात् परमर्षेर्महामुने।
योगशास्त्रस्वरूपवर्णनम्
विष्णुसंकल्परूपं च महद्योगानुशासनम् ॥३१॥
हिरण्यगर्भादुद्भूतं तस्य भेदानिमाञ्श्रृणु।
योगे संहिताद्वयम्
आदौ हिरण्यगर्भेण द्वे प्रोक्ते योगसंहिते ॥३२॥
एका निरोधयोगाख्या कर्मयोगाह्वया परा।
निरोधसंहिताया द्वादशविधत्वम्
संहिता तु निरोधाख्या तत्र द्वादशधा स्मृता ॥३३॥
अङ्गतन्त्रमथाद्यं तु दोषतन्त्रमतः परम्।
उपसर्गाभिधं तन्त्रं तथाधिष्ठानकं परम् ॥३४॥
आधारतन्त्रं योगं च बहिस्तत्त्वाधिकारवत्।
रिक्तयोगाख्यतन्त्रं च पूर्णयोगाख्यमेव च ॥३५॥
सिद्धियोगाख्यया त्रीणि मोक्षतन्त्रमतः परम।
इति द्वादशभेदास्ते निरोधायाः प्रकीर्तिताः ॥३६॥
कर्मसंहितायाश्चातुर्विध्यम्
ब्रह्मणा गदितास्तत्र चतस्रः कर्मसंहिताः।
नानाकर्ममयी त्वेका परा त्वेका क्रियामयी ॥३७॥
बाह्याभ्यन्तरूपेण द्वे अपि द्विविधे स्मृते।
योगानुशासनं शास्त्रमिति षोडशविस्तरम् ॥३८॥
सुदर्शनमयं विष्णोरुदितं तत् प्रजापतेः।
पाशुपतस्वरूपवर्णनम्
तन्त्रं पाशुपतं नाम पशुपाशप्रमोचनम् ॥३९॥
मद्वक्त्रान्निः सृतं विष्णोः संकल्पप्रविजृम्भितम् ।
पाशुपतस्याष्टकाण्डत्वम्
अष्टकाण्डमिदं प्रोक्तं मया तन्त्रमनुत्तमम् ॥४०॥
पतिकाण्डमथाद्यं तु पशुकाण्डमतः परम्।
पाशकाण्डं तृतीयं तु प्रोक्तं पञ्चप्रभेदतः ॥४१॥
शुद्धचर्या च मिश्रा च काण्डे द्वे परिकीर्तिते।
देवकांडमथो षष्ठं दीक्षाकाण्डमतः परम् ॥४२॥
सायुज्यमष्टमं प्रोक्तं काण्डं पाशुपतं महत्।
अष्टकाण्डमिदं शास्त्रं सुदर्शनमयं हरेः ॥४३॥
दिव्यं पाशुपतं शास्त्रं मयैवोक्तं महामुने।
पाञ्चरात्रस्वरूपवर्णनम्
यत् तत् सौदर्शनं विष्णोः सात्त्वतं नाम जृम्भित्म् ॥४४॥
भेदो दशविधस्तस्य संक्षेपेण प्रकीर्तितः।
भगवत्संहिता त्वाद्या तथान्या कर्मसंहिता ॥४५॥
विद्यामयी तृतीया च चतुर्थी कालसंहिता।
कर्तव्यसंहिता त्वन्या षष्ठी वैशेषिकी क्रिया ॥४६॥
सप्तमी गदिता तत्र पूज्या संयमसंहिता।
अष्टम्यधिकृते चिन्ता नवमी मार्गसंहिता ॥४७॥
सात्त्वती गीयते सुद्धा दशमी मोक्षसंहिता।
एतावत् सात्त्वतं शास्त्रमाविरासीत् सनातनात् ॥४८॥
एतानि पञ्च शास्त्राणि मूलभूतानि वै मुने।
युगे युगे विभज्यन्ते विष्णुसंकल्पचोदितैः ॥४९॥
तत्तत्कर्तृसमाख्यातास्तास्तास्त्रय्यादिसंहिताः।
प्रादेशिक्यो निवर्तन्ते २०ह्रासकालानुकालतः ॥५०॥
शास्त्राभासप्रवृत्तौ कारणम्
हिंस्राणां मोहनार्थाय संकल्पा एव वैष्णवाः।
शास्त्राभासाः प्रवर्तन्ते देवब्रह्मर्षिवक्त्रतः ॥५१॥
उक्तार्थनिगमनम्
एष प्रमाणयोर्व्यूहो दिव्यः सौदर्शनः परः।
शब्दार्थप्रविभागेन गदितस्ते मया मुने ॥५२॥
सुदर्शनपर्यायशब्दाः
प्राणो माया क्रिया शक्तिर्भाव उन्मेव उद्यमः।
सुदर्शनं च संकल्पः शब्दाः पर्यायवाचकाः ॥५३॥
पञ्चानामपि शास्त्रणां भगवति निष्ठा
निष्ठा त्वेकैव शास्त्राणामेतेषां पञ्चवर्त्मनाम्।
शास्त्रं सुदर्शनं नाम तदर्थो विष्णुरव्ययः ॥५४॥
प्रमाणमय उद्दिष्टो लेशतोऽयं महामुने।
व्यूहः सौदर्शनो विष्णोः किं भूयः श्रोतुमिच्छसि॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शब्दात्मकप्रमाणव्यूहविशेषषस्वरूपनिरूपणं नाम द्वादशोऽध्यायः
आदितः श्लोकाः ७३८
N/A
References : N/A
Last Updated : March 08, 2021
TOP