तृतीयः भागः - शूलाधिकारः
भावप्रकाशसंहिता
अथ त्रिंशः शूलाधिकारः ॥२९॥
दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत्
सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ॥१॥
व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात्
कलायमुद्गाढकिकोरदूषादत्यर्थरुक्षाध्यशनाभिघातात् ॥२॥
कषायतिक्तातिविरुढजान्नविरुद्धवल्लूरकशुष्कशाकैः
विट्छुक्रमूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभाषात् ॥३॥
वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वत्रिकवस्तिदेशे
जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ॥४॥
मुहुर्मुहुश्चोपशमप्रकोपौ विण्मूत्रसंस्तम्भनतोदभेदैः
संस्वेदनाभ्यञ्जनमर्दनाद्यैःस्निग्धोष्णभोज्यैश्च शमं प्रयाति ॥५॥
कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः
हृदयस्थः प्रकुरुते शूलमुच्छ्वासरोधकम्
सहृच्छूल इति ख्यातो रसमारुतकोपजः ॥६॥
कफं निगृह्य पवनः सूचीभिरिव निस्तुदन्
पार्श्वस्थः पार्श्वयोः शूलं कुर्यादाध्मानसंयुतम् ॥७॥
तेनोच्छ्वसिति वक्त्रेण नरोऽन्नञ्च न काङ्क्षति
निद्रा ञ्च नाप्नुयादेव पार्श्वशूलः पकीर्त्तितः ॥८॥
संरोधात्कुपितोवायुर्बस्तिं संश्रित्य तिष्ठति ॥९॥
बस्तेरध्वनि नाडीषु ततः शूलोऽस्य जायते
विण्मूत्रवातसंरोधी बस्तिशूलः स उच्यते ॥१०॥
क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः
कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ॥११॥
ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम्
तृण्मोहदाहार्त्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमशोषयुक्तम् ॥१२॥
मध्यन्दिने कुप्यति चार्द्धरात्रे निदाघकाले जलदात्यये च
शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च ॥१३॥
आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः
अन्यैर्बलासजनकैरपिहेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोतिशूलम् ॥१४॥
हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः
भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च ॥१५॥
द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम् ॥१६॥
सर्वेषु देशेषु च सर्वलिङ्गं विद्याद्भिषक्सर्वभवं हि शूलम्
सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः ॥१७॥
आटोपहृल्लासवमीगुरुत्वस्तैमित्यकानाहकफप्रसेकैः
कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति ॥१८॥
वातात्मकं वस्तिगतं वदन्ति पित्तात्मकञ्चापि वदन्ति नाभ्याम्
हृत्पार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्निपातात् ॥१९॥
बस्तौ हृत्कटिपार्श्वेषु स शूलः कफवातिकः
कुक्षौ हृन्नाभिमध्ये तु स शूलः कफपैत्तिकः
दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः ॥२०॥
अतिमात्रं यदा भुक्तं पावके मृदुतां गते
स्थिरीकृतन्तु तत्कोष्ठे वायुरावृत्य तिष्ठति ॥२१॥
यदाऽन्न न गतं पाकं तच्छूलं कुरुते भृशम्
मूर्च्छाध्मानविदाहांश्च हृत्क्लेशं सविलम्बिकम् ॥२२॥
कम्पं वान्तिमतीसारं प्रमोहं जनयेदपि
अविपाकोद्भवं शूलमेतमाहुर्मनीषिणः ॥२३॥
वेदनातितृषा मूर्च्छा आनाहो गौरवारुची
कासः श्वासो वमिर्हिक्का शूलास्योपद्र वाः स्मृताः ॥२४॥
एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विदोषजः
सर्वदोषान्वितो घोरस्त्वसाध्यो भूर्युपद्र वः ॥२५॥
वेदनातितृषामूर्च्छा आनाहो गौरवं ज्वरः ॥२६॥
भ्रमो रुचिः कृशत्वञ्च बलहानिस्तथैव च
उपद्र वा दशैवैते यस्य शूलेषु नास्ति सः ॥२७॥
स्वैर्निदानैः प्रकुपितो वातः सन्निहितो यदा
कफपित्ते समावृत्य शूलकारी भवेद् बली
भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् ॥२८॥
तस्य लक्षणमप्येतत्समासेनाभिधीयते ॥२९॥
आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः
स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् ॥३०॥
तृष्णादाहारतिस्वेदकट्वम्ललवणोत्तरम्
शूलं शीतशमप्रायं पैत्तिकं लक्षयेद् बुधः ॥३१॥
छर्दिहृल्लाससंमोहस्वल्परुग्दीर्घसन्तति
कटुतिक्तोपशान्तौ च विज्ञेयञ्च कफात्मकम् ॥३२॥
संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत्
त्रिदोषजमसाध्यं स्यात्क्षीणमांसबलानलम् ॥३३॥
जीर्णे जीर्यति चाप्यन्ने यच्छूलमुपजायते
पथ्यापथ्यप्रयोगेण भोजनाभोजनेन वा
न शमं याति नियमात्सोऽन्नद्र व उदाहृतः ॥३४॥
वमनं लङ्घनं स्वेदः पाचनं फलवर्त्तयः
क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलशान्तये ॥३५॥
विज्ञाय वातशूलन्तु स्नेहस्वेदैरुपाचरेत्
स्वल्पशूलाकुलस्य स्यात्स्वेद एव सुखावहः ॥३६॥
मृत्तिकां सजलां पाकाद्घनीभूतां पटे क्षिपेत्
कृत्वा तत्पोट्टलद्यं शूली यथास्वेदं विधारयेत् ॥३७॥
कार्पासास्थिकुलत्थ कैस्तिलयवैरेरण्डमूलातसी
वर्षाभूशणबीजकाञ्जिकयुतैरेकीकृतैर्वा पृथक् ॥३८॥
स्वेदः स्यादथ कूर्परोदरशिरः स्फिग्जानुपादाङ्गुली
गुल्फस्कन्धकटीरुजो विजयते निःशेषवातार्त्तिहा
तिलैश्च गुटिकां कृत्वा भ्रामयेज्जठरोपरि ॥३९॥
शूलं सुदुस्तरं तेन शान्तिं गच्छति सत्वरम्
नाभिलेपाज्जयेच्छूलं मदनं काञ्जिकान्वितम् ॥४०॥
विश्वमेरण्डजं मूलं क्वाथयित्वा जलं पिबेत्
हिङ्गुसौवर्चलोपेतं सद्यः शूलनिवारणम् ॥४१॥
पुंसः शूलाभिपन्नस्य स्वेद एव सुखावहः
पायसैः कृशरैः पिण्डैः स्निग्धैर्वा पिशितोत्करैः ॥४२॥
वातात्मकं हन्त्यचिरेण शूलं स्नेहेन युक्तस्तु कुलत्थयूषः
ससैन्धवव्योषयुतः सलावः सहिङ्गुसौवर्चलदाडिमाढ्यः ॥४३॥
बलापुनर्नवैरण्ड बृहतीद्बयगोक्षुरैः
सहिङ्गुलवणोपेतं सद्यो वातरुजापहम् ॥४४॥
तुम्बुरुण्यभया हिङ्गु पौष्करं लवणत्रयम्
पिबेदुष्णामबुनां वापि शूलगुल्मापतन्त्रकी ॥४५॥
यवानीहिङ्गुसिन्धूत्थ क्षारसौवर्चलाभयाः
सुरामण्डेन पातव्या वातशूलनिषूदनाः ॥४६॥
सौवर्चलाम्लिकाजा जीमरिचैर्द्विगुणोत्तरैः
मातुलुङ्गरसैः पिष्ट्वा गुटिका वातशूलनुत् ॥४७॥
बीजपूरकमूलं च घृतेन सह पाययेत्
जयेद्वातभवं शूलं कर्षमेकं प्रमाणतः ॥४८॥
गुडः शालिर्यवक्षारः सर्पिष्पानं विरेचनम्
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ॥४९॥
मणीरजतताम्राणां भाजनानि गुरूणि च
तोयेन परिपूर्णानि शूलस्योपरि धारयेत् ॥५०॥
विरेचनं पित्तहरं प्रशस्तं रसाश्च शस्ताः शशलावकानाम्
सगुडां घृतसंयुक्तां भक्षयेद्वा हरीतकीम्
प्रलिह्याच्छूलशान्त्यर्थं धात्रीचूर्णं समाक्षिकम् ॥५१॥
शाल्यन्नं जाङ्गलं मांसमरिष्टं कटुकंरसम्
मधुना जीर्णगोधूमं कफशूले प्रयोजयेत् ॥५२॥
लवणत्रयसंयुक्तं पञ्चकोलं सरामठम्
सुखोष्णेनाम्बुना पीतं कफशूलं प्रणाशयेत् ॥५३॥
आमशूले क्रिया कार्या कफशूलप्रणाशिनी
सेव्यमामहरं सर्वमग्नेर्मन्दस्य वर्द्धनम् ॥५४॥
तीक्ष्णायाश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम्
प्रयोज्यं मधुसर्पिभ्यां सर्वशूलनिवारणम् ॥५५॥
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः
अम्लपिष्टैः सुखोष्णैश्च लिम्पेच्छूलयुतोदरम् ॥५६॥
मूलं बैल्वं तथैरण्डं चित्रकं विश्वभेषजम्
हिङ्गुसैन्धवसंयुक्तं सद्यः शूलनिवारणम् ॥५७॥
कूष्माण्डं तनु कृत्वा तु क्षिप्त्वा घर्मे विशोषयेत्
स्थाल्यां निक्षिप्य तत्सर्वं पिधानेन पिधाय च ॥५८॥
चुल्ल्यां निवेश्य वह्निञ्च ज्वालयेत्कुशलो जनः
यथा तन्न भवेद्भस्म किन्त्वङ्गारो दृढो भवेत् ॥५९॥
तदा निर्वापयेच्छीतं सर्वथा चूर्णितं तु तत्
माषद्वयमितं तावच्छुण्ठीचूर्णेन मिश्रितम् ॥६०॥
जलेन भक्षयेन्नित्यं महाशूलाकुलो नरः
असाध्यमपि यच्छूलं तदप्येतेन शाम्यति ॥६१॥
लङ्घनं प्रथमं कुर्याद्वमनं सविरेचनम्
पक्तिशूलोपशान्त्यर्थं तत्र वान्तेर्विधिर्यथा ॥६२॥
पीत्वा तु क्षीरमाकण्ठं मदनक्वाथसंयुतम्
कान्तारकस्य पौण्ड्रस्य कोशकारस्य वा रसम् ॥६३॥
कषायो वाऽथ निम्बस्य कटुतुम्बीरसोऽथवा
यथाविधि वमेद्धीमान्पक्तिशूलार्दितो जनः ॥६४॥
त्रिवृता च तथा दन्त्या तैलेनैरण्डजेन वा
दत्तं विरेचनं सद्यः पक्तिशूलनिवारणम् ॥६५॥
विडङ्गतण्डुलव्योषत्रिवृद्दन्ती सचित्रका
सर्वाण्येतानि संहृत्य सूक्ष्मचूर्णानि कारयेत् ॥६६॥
गुडेन मोदकान्कृत्वा खादेदुष्णेन वारिणा
जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ॥६७॥
नागरतिलगुडकल्कं पयसा सम्पिष्य यः पुमांल्लिह्यात्
उग्रं परिणतिशूलं नश्येत्तस्य त्रिरात्रेण ॥६८॥
पीतं शम्बूकजं भस्म जलेनोष्णेन तत्क्षणात्
पक्तिजं नाशयत्येव शूलं विष्णुरिवासुरान् ॥६९॥
लौहपथ्याकणाशुण्ठीचूर्णं समधुसर्पिषा
विलिहन्विनिहन्त्येव शूलं हि परिणामजम् ॥७०॥
नारिकेलं सतोयं च लवणेन सुपूरितम्
मृदाऽववेष्टितं शुष्कं पक्वं गोमयवह्निना ॥७१॥
पिप्पल्या भक्षितं हन्ति शूलं हि परिणामजम्
वातिकं पैत्तिकञ्चापि श्लैष्मिकं सान्निपातिकम् ॥७२॥
अन्नद्र वाख्ये शूले तु न तावत्स्वास्थ्यमश्नुते
यावत्कटुकपित्ताम्लमन्नं न च्छर्दयेद् द्र वम् ॥७३॥
जातमात्रे जरत्पित्ते शूलमाशु विनाशयेत्
पित्तान्तं वमनं कृत्वा कफान्तञ्च विरेचनम् ॥७५॥
अन्नद्र वे च तत्कार्यं जरत्पित्ते यदीरितम्
जरत्पित्तेऽपि तत्पथ्यं प्रोक्तमन्नद्र वे तु यत्
आमपक्वाशये शुद्धे गच्छेदन्नद्र वः शमम् ॥७६॥
माषेण्डरीं सलवणां सुस्विन्नां तैलपाचिताम्
तादृशीं सर्पिषा खादेदन्नद्र वनिपीडितः ॥७७॥
धात्रीफलभवं चूर्णमयश्चूर्णसमन्वितम्
यष्टीचूर्णेन वा युक्तं लिह्यात्क्षौद्रे ण तद्गदे ॥७८॥
श्यामाकतण्डुलैः सिद्धं सिद्धं कोद्र वतण्डुलैः
प्रियङ्गुतण्डुलैः सिद्धं पायसं सहितं हितम् ॥७९॥
गौडिकं शौरणं कन्दं कूष्माण्डमपि भक्षयेत्
कलाययवसक्तून्वा सक्तून्वा लाजसम्भवान् ॥८०॥
गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम्
ससितं शीतदुग्धेनं मृदितं क्वथितं हितम् ॥८१॥
अन्नद्र वो दुश्चिकित्स्यो दुर्विज्ञेयो महागदः
तस्मात्तस्य प्रशमने परं यत्नं समाचरेत् ॥८२॥
अन्नद्र वे जरत्पित्ते वह्निर्मन्दो भवेद्यतः
तस्मादत्रान्नपानानि मात्राहीनानि कारयेत् ॥८३॥
कलाययवगोधूमाः श्यामाकाः कोरदूषकाः
राजमाषाश्च माषाश्च कुलत्थाः कङ्गुशालयः ॥८४॥
दधिलुप्तरसं क्षीरं सर्पिर्गव्यं समाहितम्
वास्तूकं कारवेल्ली च कर्कोटकफलानिच ॥८५॥
बर्हिणो हरिणा मत्स्या रोहिताद्याः कपिञ्जलाः
एतस्मिन्नामये शस्ता मता मुनिचिकित्सकैः ॥८६॥
गुडामलकपथ्यानां चूर्णं प्रत्येकशः पलम्
त्रिपलं लोहकिट्टस्य तत्सर्वं मधुसर्पिषा ॥८७॥
समालोड्य समश्नीयादक्षमात्रप्रमाणतः
आदिमध्यावसानेषु भोजनस्य निहन्ति तत् ॥८८॥
अन्नद्र वं जरत्पित्तमम्लपित्तं सुदारुणम्
परिणामसमुत्थञ्च शूलं संवत्सरोत्थितम् ॥८९॥
व्यायामं मैथुनं मद्यं लवणं कटुकं रसम्
वेगरोधं शुचं क्रोधं द्विदलं शूलवांस्त्यजेत् ॥९०॥
इति त्रिंशः शूलाधिकारोऽथवा शूलपरिणामशूलान्नद्र वजरत्पित्ताधिकारः समाप्तः ॥२९॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP