तृतीयः भागः - व्रणशोथाधिकारः
भावप्रकाशसंहिता
अथ सप्तचत्वारिंशत्तमो व्रणशोथाधिकारः ॥४७॥
पृथक्समस्तदोषोत्था रक्तजागन्तुजौ तथा
व्रणशोथाः षडेते स्युः संयुक्ताः शोथलक्षणैः ॥१॥
विषमं पच्यते वातात्पित्तोत्थश्चाचिराच्चिरम्
कफजः पित्तवच्छोथौ रक्तागन्तुसमुद्भवौ ॥२॥
मन्दोष्णताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता
मन्दवेदनता चापि शोथस्यामस्य लक्षणम् ॥३॥
दह्यते दहनेनेव क्षारेणेव प्रपच्यते
पिपीलिकागणेनेव दश्यते छिद्यते तथा ॥४॥
भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते
पीड्यते पाणिनेवान्तः सूचीभिरिव तुद्यते ॥५॥
सोषचोषो विवर्णः स्यादङ्गुल्येवावपीड्यते
आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत् ॥६॥
न गच्छेदाततः शोथो भवेदाध्मातवस्तिवत्
ज्वरस्तृष्णाऽरुचिश्चैतत्पच्यमानस्य लक्षणम् ॥७॥
वेदनोपशमः शोथो लोहितोऽल्पो न चोन्नतः
प्रादुर्भावो वलीनाञ्च तोदः कण्डूर्मुहुर्मुहुः ॥८॥
उपद्र वाणां प्रशमो निम्नता स्फुटनं त्वचाम्
वस्ताविवाम्बुसञ्चारः स्याच्छोथेऽङगुलिपीडिते ॥९॥
पूयश्च पीडयेदेकमन्तमन्ते च पीडिते
बुभुक्षा व्रणशोथस्य भवेत्पक्वस्य लक्षणम् ॥१०॥
ॠतेऽनिलाद्रुङ् न विना न पित्तं पाकः कफञ्चापिविना न पूयः
तस्माद्धि सर्वं परिपाककाले पचन्ति शोथास्त्रिभिरेव दोषैः ॥११॥
कालान्तरेणाभ्युदितन्तु पित्तं कृत्वा वशे वातकफौ प्रसह्य
पचत्यतः शोणितमेष पाको मतः परेषां विदुषां द्वितीयः ॥१२॥
कफजेषु च शोथेषु गम्भीरं पाकमेत्यसृक्
पक्वलिङ्गं ततः स्पष्टं यतः स्याच्छोथशीतता
त्वक्सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत् ॥१३॥
कक्षं समासाद्य यथैव वह्निर्वातेरितः संदहति प्रसह्य
तथैव पूयो ह्यविनिःसृतस्तु मांसं शिराः स्नायुमपीह खादेत् ॥१४॥
आमं विदह्यमानञ्च सम्यक्पक्वन्तु यो भिषक्
जानीयात्स भवेद्वैद्यः शेषास्तस्करवृत्तयः ॥१५॥
यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते
श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ ॥१६॥
आदौ शोथहरोलेपस्ततस्तु परिषेचनम्
विम्लापनमसृङ्मोक्षस्ततः स्यादुपनाहनम् ॥१७॥
पाचनं भेदनं पश्चात्पीडनं शोधनं तथा
रोपणं वर्णकरणं व्रणस्यैते क्रमाः स्मृताः ॥१८॥
यथा प्रज्वलिते वेश्मन्यम्भसा परिषेचनम्
क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः ॥१९॥
बीजपूरजटाहिंस्रा देवदारु महौषधम्
रास्नाऽग्निमन्थौ लेपोऽय वातशोथविनाशनः ॥२०॥
कल्कः काञ्जिकसम्पिष्टः स्निग्धो मधुकचन्दनैः
दूर्वा च नलमूलञ्च पद्मकाष्ठञ्च केशरम्
उशीरं बालकं पद्मं लेपोऽय पित्तशोथहा ॥२१॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसकल्कलैः
ससर्पिष्कैः प्रदेहः स्याच्छोथे पित्तसमुद्भवे ॥२२॥
आगन्तुजे रक्तजे च लेप एषोऽभिपूजितः ॥२३॥
अजगन्धाऽजशृंगी च मञ्जिष्ठा सरलस्तथा
एकैषिकाऽश्वगन्धा च लेपोऽयश्लेष्मशोथहा ॥२४॥
कृष्णापुराणपिण्याकं शिग्रुत्वक् सिकता शिवा
मूत्रपिष्टः सुखोष्णोऽय प्रलेपः श्लेष्मशोथहा ॥२५॥
न रात्रौ लेपनं दद्याद्दत्तञ्च पतितं तथा
न च पर्युषितं शुष्यमाणं तन्नैव धारयेत् ॥२६॥
तमसा पिहितोऽत्युष्मा रोमकूपमुखोत्थितः
विना लेपेन निर्याति रात्रौ नालेपयेदतः ॥२७॥
रात्रावपि प्रलेपस्तुविधातव्योविचक्षणैः
अपाकिशोथे गम्भीरे रक्तपित्तसमुद्भवे ॥२८॥
यथाऽम्बुभिः सिच्यमानःशान्तिमग्निर्हि गच्छति
दोषाग्निरेवं सहसा परिषेकेण शाम्यति ॥२९॥
वातघ्नौषधनिष्क्वाथै स्तैलैर्मांसरसैर्घृतैः
उष्णैः संसेचयेच्छोथं वातिकं काञ्जिकेन च ॥३०॥
पित्तरक्ताभिघातोत्थं शोथं सिञ्चेत्सुशीतलैः
क्षीराज्यमधुखण्डेक्षुरसैःपित्तहरैःशृतैः ॥३१॥
कफघ्नौषधनिष्क्वाथैः शीतैस्तु परिषेचयेत्
तैलक्षाराम्बुमूत्रैश्च शोथं श्लेष्मसमुद्भवम् ॥३२॥
जातस्य कठिनस्यास्य कार्यं विम्लापनं शनैः ॥३३॥
अभ्यज्य स्वेदयित्वा तु वेणुनाढ्या शनैः शनैः
विमर्दयेद्भिषङ् मन्दं तलेनाङ्गुष्ठकेन वा ॥३४॥
वेदनोपशमार्थाय तथा पाकशमाय च
अचिरोत्पतिते शोथे शोणितस्रावणं चरेत् ॥३५॥
एकतस्तु क्रियाः सर्वा रक्तमोक्षणमेकतः
रक्तं हि वेदनामूलं तच्चेन्नास्ति न चास्ति रुक् ॥३६॥
विवर्णःकठिनः श्यावो व्रणोयश्चाल्पवेदनः
विषाणैश्च विशेषेण जलौकाभिः पदैरपि ॥३७॥
रुजावतां दारुणानां कठिनानां तथैव च
शोथानां स्वेदनं कार्यं ये चाप्येवंविधा व्रणाः ॥३८॥
शोथयोरुपनाहञ्च दद्यादामविदग्धयोः
प्रशाम्यत्यविदग्धस्तु विदग्धः पक्वतां व्रजेत् ॥३९॥
दशमूली बला रास्ना वाजिगन्धा प्रसारिणी
मूलं वातरिपोः सिन्धुर्वारिपूर्णे घटे क्षिपेत् ॥४०॥
शोभाञ्जनः कणा चापि सैन्धवं विश्वभेषजम्
शणकार्पासयोर्बीजमतसी च कुलत्थिका ॥४१॥
तिला यवाश्च सिद्धार्थः कुठेरो मूलकं मिसिः
यथाप्राप्तैरमीभिश्च द्र व्यैरम्लेन संयुतैः ॥४२॥
कल्कीकृतैः सुखोष्णैश्च स्वेदयेद्विधिवच्छनैः
अनेन प्रशमं याति वातशोथो न संशयः ॥४३॥
पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थ एव च
अम्लपिष्टः सुखोष्णोऽय प्रलेपः सर्वशोथहा ॥४४॥
न प्रशाम्यति यः शोथः प्रलेपादिविधानतः
द्र व्याणि पाचनीयानि दद्यात्तत्रोपनाहने ॥४५॥
शणमूलकशिग्रुणां फलानि तिलसर्षपाः
अतसी शक्तवः किण्वमुष्णद्र व्यञ्च पाचनम् ॥४६॥
अन्तः पूयेष्ववक्त्रेषु तथा चोत्सङ्गवत्स्वपि
गतिमत्सु च रोगेषु भेदनं सम्प्रयुज्यते ॥४७॥
रोगे व्यधेन साध्येतु यथादेशं प्रमाणतः
शस्त्रं विधाय दोषांस्तु स्रावयेत्कथितं यथा ॥४८॥
बालवृद्धासहक्षीणभीरूणां योषितामपि
व्रणेषु मर्मजातेषु भेदनं द्र व्यलेपनम् ॥४९॥
चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः
कपोतकाकगृध्राणां मललेपेन भेदनम् ॥५०॥
क्षारद्र व्यं तथा क्षारो दारणः परिकीर्तितः
हस्तिदन्तो जले पिष्टो बिन्दुमात्रप्रलेपितः
अत्यर्थं कठिने शोथे कथितो भेदनः परः ॥५१॥
द्र व्याणां पिच्छिलानान्तु त्वङ्मूलातिप्रपीडनम्
यवगोधूममाषाणां चूर्णानि च समासतः ॥५२॥
शुष्यमाणमुपेक्षेत प्रलेपं पीडनं प्रति
न चापिमुखमालिम्पेत्तथा दोषः प्रसिच्यते ॥५३॥
व्रणस्य तु विशुद्धस्य क्वाथः शुद्धिकरः परः
पटोलनिम्बपत्रोत्थः सर्वत्रैव प्रयुज्यते ॥५४॥
वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे
आरग्वधादेः कफजे कषायः शोधने हितः ॥५५॥
अश्वत्थोदुम्बरप्लक्षवटवेतसजं शृतम्
व्रणशोथोपदंशानां नाशनं क्षालनात्स्मृतम् ॥५६॥
तिलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः
त्रिवृद्घृतयुतैः पिष्टैः प्रलेपो व्रणशोधनः ॥५७॥
एकं वा सारिवामूलं सर्वव्रणविशोधनम् ॥५८॥
निम्बपत्रं तिला दन्ती त्रिवृत्सैन्धवमाक्षिकम्
दुष्टव्रणप्रशमनो लेपः शोधनकेशरी ॥५९॥
लेपान्निम्बदलैः कल्को व्रणशोधनरोपणः
भक्षणाच्छर्दिमन्दाग्निपित्तश्लेष्मकृमीन्हरेत्
व्रणान्विशोधयेद्वत्तर्या सूक्ष्मान् हि सन्धिमर्मजान् ॥६१॥
अभयात्रिवृतादन्ती लाङ्गलीमधुसैन्धवैः ॥६१॥
निम्बपत्रघृत क्षौद्र दार्वीमधुकसंयुतैः
वर्त्तिस्तिलानां कल्को वा शोधयेद्रो पयेद् व्रणम् ॥६२॥
अपेतपूतिमांसानां मांसस्थानामरोहताम्
कल्कस्तु रोपणोदेयस्तिलजो मधुसंयुतः ॥६३॥
अश्वगन्धा रुहा लोध्रं कट्फलं मधुयष्टिका
समङ्गा धातकीपुष्पं परमं व्रणरोपणम् ॥६४॥
मधुयुक्ता सुरा पुंसां कथिता व्रणरोपणी
सुषवीपत्रधत्तूर बलामोटाकुठेरकाः
पृथगेतैः प्रलेपेन गम्भीरव्रणरोपणम् ॥६५॥
ककुभोदुम्बराश्वत्थजम्बू कफललोध्रजैः
त्वक्चूर्णैर्धूलिताः क्षिप्रं संरोहन्ति व्रणा ध्रुवम् ॥६६॥
प्रियङ्गुधातकीपुष्पं यष्टीमधुजतूनि च
सूक्ष्मचूर्णीकृतानि स्यू रोपणान्यवधूलनात् ॥६७॥
यवचूर्णं समधुकं सतैलं सह सर्पिषा
दद्यादालेपनं कोष्णं दाहशूलोपशान्तये ॥६८॥
करञ्जारिष्टनिर्गुण्डीलेपो हन्याद् व्रणकृमीन्
लशुनस्याथवा लेपो हिङ्गुनिम्बकृतोऽथवा ॥६९॥
निम्बपत्रवचाहिङ्गुसर्पिर्लवणसर्षपैः
धूपनं स्याद् व्रणे रुक्षकृमिकण्डूरुजाऽपहम् ॥७०॥
ये क्लेदपाकस्रुतिगन्धवन्तो व्रणाश्चिरोत्थाः सतताश्च शोथाः
प्रयान्ति ये गुग्गुलुमिश्रितेन पीतेन शान्तिं त्रिफलाशृतेन ॥७१॥
पटोलनिम्बासनसार धात्रीपथ्याऽक्षनिर्यूहमहर्मुखेषु
पिबेद्युतं गुग्गुलुना विसर्पविस्फोट दुष्टव्रणशान्तिमिच्छन् ॥७२॥
मनःशिला समञ्जिष्ठा सलाक्षा रजनीद्वयम्
प्रलेपः सघृतक्षौद्र स्त्वचः सावर्ण्यकृत्स्मृतः ॥७३॥
जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्र वान्तरम्
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ॥७४॥
तण्डुलीयकजीवन्तीवास्तूकसुनिषण्णकैः
बालमूलकवार्त्ताकुपटोलैः कारवेल्लकैः ॥७५॥
सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः
अन्यैरेवङ्गुणैर्वाऽपि मुद्गादीनां रसेन वा ॥७६॥
अम्लं दधि च शाकञ्च मांसमानूपमौदकम्
क्षीरं गुरूणि चान्नानि व्रणे च परिवर्जयेत् ॥७७॥
व्रणे श्वयथुरायासात्स च रागश्च जागरात्
तौ च रुक्च दिवास्वापात्ते च मृत्युश्च मैथुनात् ॥७८॥
क्रुद्धे सद्योव्रणे कुर्यादूर्ध्वं चाधश्च शोधनम्
क्रिया शीता प्रयोक्तव्या रक्तपित्तोष्मनाशिनी ॥७९॥
लङ्घनञ्च बलं ज्ञात्वा भोजनं चास्रमोक्षणम्
घृष्टे विदलिते चैव सुतरामिष्यते विधिः ॥८०॥
छिन्ने भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत्
रक्तक्षयात्तत्र रुजः करोति पवनो भृशम् ॥८१॥
परिषेकं स्नेहपानं लेपं तत्रोपनाहनम्
कुर्वन्ति स्नेहवस्तिञ्च रुजाघ्नं चौषधं पृथक् ॥८२॥
खड्गादिच्छिन्नगात्रस्य तत्काले पूरितो व्रणः
गाङ्गेरुकीमूलरसैः सद्यः स्याद्गतवेदनः ॥८३॥
कषाया मधुराः शीताः क्रियाः सर्वाः प्रयोजयेत्
सद्योव्रणानां सप्ताहात्पश्चात्पूर्वोक्तमाचरेत् ॥८४॥
आमाशयस्थे रुधिरे विदध्याद्वमनं नरः
तस्मिन्पक्वाशयस्थे तु प्रकुर्वीत विरेचनम् ॥८५॥
क्वाथो वंशत्वगैरण्डश्वदंष्ट्राऽश्मभिदा कृतः
हिङ्गुसैन्धवसंयुक्तः कोष्ठस्थं स्रावयेदसृक् ॥८६॥
यवकोलकुलत्थानां निःस्नेहेन रसेन च
भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम् ॥८७॥
जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा
मञ्जिष्ठाऽभयसिक्थ तुत्थमधुकैर्नक्ताह्वबीजं समैः
सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो
गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ॥८८॥
वृद्धवैद्योपदेशेन पारम्पर्योपदेशतः
जातीवृते तु संसिद्धं क्षेप्तव्यं सिक्थकं बुधैः ॥८९॥
जातीनिम्बपटोलानां नक्तमालस्य पल्लवाः
सिक्थकं मधुकं कुष्ठं द्वे निशे कटुरोहिणी ॥९०॥
मञ्जिष्ठा पद्मकं पथ्या लोध्रत्वङ्नीलमुत्पलम्
सारिवा तुत्थकञ्चापि नक्तमालफलं तथा ॥९१॥
एतानि समभागानि कल्कीकृत्य प्रयत्नतः
तिलतैलं पचेत्सम्यग्वैद्यः पाकविचक्षणः ॥९२॥
विषव्रणे समुत्पन्ने स्फोटके कुष्ठरोगिणी
दद्रुवीसर्परोगेषुकीटदष्टेषु सर्वथा ॥९३॥
सद्यः शस्त्रप्रहारेण दग्धविद्धेषु चैव हि
नखदन्तक्षते देहे दुष्टमांसापकर्षणे ॥९४॥
म्रक्षणेन हितं तैलमिदं शोधनरोपणम्
तैलं जात्यादिनाम्नैतत्प्रसिद्धं भिषगादृतम् ॥९५॥
चित्रकरसोनरामठशरपुङ्खालाङ्गलीकसिन्दूरैः
सविषैस्तथा सकुष्ठैः कटुतैलं साधु सम्पक्वम् ॥९६॥
विपरीतमल्लसंज्ञं तैलं दुष्टव्रणं तथा नाडीम्
बहुभेषजैरसाध्यामपथ्यभोक्तुश्च निस्तुदति ॥९७॥
अमृतापटोलमूलत्रिफलात्रिकटुककृमिघ्नानाम्
समभागानां चूर्णं सर्वसमो गुग्गुलोर्भागः ॥९८॥
प्रतिवासरमेकैकां गुटिकां खादेदिहापि परिमाणम्
जेतुं व्रणवातासृग्गुल्मोदरशोथवातरोगांश्च ॥९९॥
प्लुष्टस्याग्निषु तपनं कार्यमुष्णं तथौषधम्
सम्यक् स्विन्ने शरीरे तु स्विन्नं भवति शोभनम् ॥१००॥
प्रकृत्या सलिलं शीतं स्कन्दयत्यतिशोणितम्
तस्मात्सुखयति ह्युष्णं न तु शीतं कदाचन ॥१०१॥
शीतामुष्णाञ्च दुर्दग्धे क्रियां कुर्यात्ततः पुनः
घृतलेपप्रदेहांश्च शीतानेवास्य कारयेत् ॥१०२॥
सम्यदग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः
सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक्
ग्राम्यानूपौदकैर्मांसैः पिष्टैरेनं प्रलेपयेत् ॥१०३॥
अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम्
क्रियां कुर्यात्ततः पश्चाच्छालितण्डुलकण्डनैः ॥१०४॥
तिन्दुक्याश्च कषायैर्वा घृतमिश्रैर्प्रलेपयेत्
सर्वेषामग्निदग्धानामेतद्रो पणमुत्तमम् ॥१०५॥
सिक्थककर्दमजीरकमधुपथ्यासर्वमिश्रितं लेपात्
गव्यं घृतमपहरति विपाकजनितं व्रणं सद्यः ॥१०६॥
सिद्धं कषायकल्काभ्यां पटोल्याः कटुतैलकम्
दग्धव्रणरुजास्रावदाहविस्फोटनाशनम् ॥१०७॥
वातास्रमस्रतं दुष्टं सशोथं ग्रथितं व्रणम्
कुर्यात्सदाहंकण्ड्वाद्यं व्रणग्रन्थिस्तु स स्मृतः ॥१०८॥
कम्पिल्लकं विडङ्गानि त्वचं दार्व्यास्तथैव च
पिष्ट्वा तैलं पचेत्तत्तु व्रणग्रन्थिहरं परम् ॥१०९॥
इति सप्तचत्वारिंशत्तमो व्रणशोथाधिकारो वा व्रणशोथा
गन्तुव्रणाग्निदग्धव्रणाधिकारः समाप्तः ॥४७॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP