तृतीयः भागः - उदराधिकारः

भावप्रकाशसंहिता


अथैकचत्वारिंशत्तम उदराधिकारः ॥४१॥
रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि च
अजीर्णान्मलिनैश्चान्नैश्चीयन्ते मलसञ्चयात् ॥१॥
रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः
प्राणानपानान्संदूष्य जनयन्त्युदरं नृणाम् ॥२॥
आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता
शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः
दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि ॥३॥
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः
सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु ॥४॥
तत्र वातोदरे शोथः पाणिपान्नाभिकुक्षिषु
कुक्षिपार्श्वोदरकटी पृष्ठरुक्पर्वभेदनम् ॥५॥
शुष्ककासोऽङ्गमर्दश्च गुरुतामलसंग्रहः
श्यावारुणत्वगादित्वमकस्माद्ध्रासवृद्धिमत् ॥६॥
सतोदभेदमुदरं तनुकृष्णशिराततम्
आध्मातदृतिवच्छब्दमाहतं प्रकरोति च ॥७॥
वायुश्चात्र सरुक्छब्दो विचरेत्सर्वतो गतिः ॥८॥
पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ॥९॥
पीतताम्रशिरानद्धं सस्वेदं सोष्म दह्यते
धूमायते मृदुस्पर्शः क्षिप्रपाकं प्रदूयते ॥१०॥
श्लेष्मोदरेऽङ्गसदनं श्वयथुर्गौरवं तथा
तन्द्रो त्क्लेशोऽरुचिः स्वापः कासः शौक्ल्यं त्वगादिषु ॥११॥
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्
चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम् ॥१२॥
स्त्रियोऽन्नपानं नखलोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः
यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाच्च ॥१३॥
तस्याशु रक्तं कुपिताश्च दोषाः कुर्युः सुघोरं जठरं त्रिलिङ्गम्
तच्छीतवाते भृशदुर्दिने च विशेषतः कुप्यति दह्यते च ॥१४॥
स चातुरो मूर्च्छति हि प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च
दूष्योदरं कीर्त्तितमेतदेव प्लीहोदरं कीर्त्तयता निबोध ॥१५॥
वर्द्धते प्लीहवृद्ध्या यद्विद्यात्प्लीहोदरं हि तत्
हृद्वामे वर्द्धते पार्श्वे निमित्तं तत्र यस्य यत् ॥१६॥
प्रवृद्धे प्लीह्नि लिङ्गानि यान्युक्तानि भिषग्वरैः
प्लीहोदरेपि दृश्यन्ते तानि सर्वाणि देहिनाम्
प्लीहोदरस्यैव मेदो यकृद्दाल्युदरं तथा ॥१७॥
सव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृद्दाल्युदरं तदेव ॥१८॥
यस्यान्त्रमन्नैरुपलेपिभिर्वा बालश्मभिर्वा पिहितं यथावत्
सञ्चीयते यस्य मलो नरस्य शनैः शनैः सङ्करवच्च नाड्याम् ॥१९॥
निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादतिचाल्पमल्पम्
हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति ॥२०॥
शल्यं तथाऽन्नोपहितं यदन्त्रं भुक्तं भिनत्त्यागतमन्यथा वा
तस्मात्स्रुतोऽन्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः ॥२१॥
नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम्
एतत्परिस्राव्युदरं प्रदिष्टं क्षतोदरं कीर्त्तयतो निबोध ॥२२॥
यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथ वा निरूढः
पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दूष्यन्ति हि तद्वहानि ॥२३॥
स्नेहोपलिप्तेष्वथ वाऽपि तेषु दकोदरं पूर्ववदभ्युपैति
स्निग्धं महत्तत्परिवृत्तनाभि समन्ततः पूर्णमिवाम्बुना च
यथा दृतिः क्षुभ्यति कम्पते च शब्दायते वाऽप्युदकोदरं तत् ॥२४॥
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ॥२५॥
पक्षाद् बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा
प्रायो भवत्यभावाय छिद्रा न्त्रं चोदरं नृणाम् ॥२६॥
पयः पूर्णा दृतिरिव क्षोभे शब्दकरं मृदु
अप्रव्यक्तशिराशून्यं नीरार्त्तमुदरं महत् ॥२७॥
आलस्यमास्यवैरस्यं मूत्रं बहुशकृद् द्रुतम्
जातोदकस्य लिङ्गंस्यान्मन्दाग्निः पाण्डुताऽपि च ॥२८॥
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्
बलशोणितमांसाग्निपरिक्षीणञ्च वर्जयेत् ॥२९॥
पार्श्वभङ्गान्नविद्वेष शोफातीसारपीडितम्
विरिक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत् ॥३०॥
एरण्डतैलं दशमूलमिश्रं गोमूत्रयुक्तस्त्रिफलारसो वा
निहन्ति वातोदरशोथशूलं क्वाथः समूत्रो दशमूलजश्च ॥३१॥
कुष्ठं दन्ती यवक्षारो व्योषं त्रिलवणं वचा ॥३२॥
अजाजी दीप्यकं हिङ्गु स्वर्जिकाचव्यचित्रकम्
शुण्ठी चोष्णाम्भसा पीता वातोदररुजाऽपहा ॥३३॥
लशुनस्य तुलामेकां जलद्रो णे विपाचयेत्
त्रिकुटु त्रिफला दन्ती हिङ्गुसैन्धवचित्रकम् ॥३४॥
देवदारु वचा कुष्ठं मधु शिग्रुः पुनर्नवा
सौवर्चलं विडङ्गानि दीप्यको गजपिप्पली ॥३५॥
एतेषां पलिकान्भागांस्त्रिवृतः षट् पलानि च
पिष्ट्वा कषायेणानेन तैलं मृद्वग्निना पचेत् ॥३६॥
तत्पिबेत्प्रातरुत्थाय यथाऽग्निबलमात्रया
निहन्ति सकलान् रोगानुदराणि विशेषतः ॥३७॥
मूत्रकृच्छ्रमुदावर्त्तमन्त्रवृद्धिं गुदकृमीन्
पार्श्वकुक्षिभवं शूलमामशूलमरोचकम् ॥३८॥
यकृदष्ठीलिकानाहान्प्लीहानं चाङ्गवेदनाम्
मासमात्रेण नश्यन्ति ह्यशीतिर्वातजा गदाः ॥३९॥
पित्तोदरे तु बलिनं पूर्वमेहं विरेचयेत्
पयसा च त्रिवृत्कल्कै रुबूकस्य शृतेन च ॥४०॥
पिप्पल्यादिगणेनाज्यं पाचितं पाययेद्भिषक्
नरं पथ्यभुजं नित्यं कफोदरनिवृत्तये ॥४१॥
नागरत्रिफलाकल्कै र्दध्यम्बुपरिपेषितैः
पाचितं तैलमाज्यं वा पिबेत्सर्वोदरेषु च ॥४२॥
शालिषष्टिक गोधूमयवनीवारभोजनम्
निरूहो रेचनं श्रेष्ठं सर्वेषु जठरेषु च ॥४३॥
आनूपमौदकं मांसं शाकं पिष्टकृतं तिलाः
व्यायामाध्वदिवास्वप्नस्नेहपानानि वर्जयेत् ॥४४॥
तथोग्रलवणोष्णानि विदाहीनि गुरूणि च
नाद्यादन्नानि जठरे तोयपानञ्च वर्जयेत् ॥४५॥
उदराणां मलाढ्यत्वाद् बहुशः शोधनं हितम्
क्षीरमेरण्डजं तैलं पिबेन्मूत्रेण वाऽसकृत् ॥४६॥
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम्
शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ॥४७॥
यवानीहपुषाऽजाजीव्योषयुक्तं कफोदरी
सन्निपातोदरी युक्तं त्रिकटुक्षारसैन्धवैः ॥४८॥
यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका
कारवी पिप्पलीमूलमजगन्धा शटी वचा ॥४९॥
शताह्वा जीरकं व्योषं स्वर्णक्षीरी च चित्रकम्
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ॥५०॥
विडङ्गश्च समांशानि दन्त्या भागत्रयं भवेत्
त्रिवृद्विशाला द्विगुणा शातला स्याच्चतुर्गुणा ॥५१॥
एष नारायणो नाम्ना चूर्णो रोगगणापहः
एनं प्राप्य निवर्त्तन्ते रोगा विष्णुमिवासुराः ॥५२॥
तक्रेणोदरिभिः पेयो गुल्मिभिर्वदराम्बुना
आनद्धवाते सुरया वातरोगे प्रसन्नया ॥५३॥
दधिमण्डेन विड्भेदे दाडिमाम्बुभिरर्शसि
परिकर्त्तिषु वृक्षाम्लैरुष्णाम्बुभिरजीर्णके ॥५४॥
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे
हृद्रो गे ग्रहणीरोगे कुब्जे मन्देऽनले ज्वरे ॥५५॥
दंष्ट्राविषे मूलविषे सगरे कृत्त्रिमे विषे
यथाऽह स्निग्धकोष्ठेन पेयमेतद्विरेचनम् ॥५६॥
स्नुक्क्षीरदन्तीत्रिफलाविडङ्गसिंहीत्रिवृच्चित्रककर्षकर्षम्
घृतं विपक्वं कुडवप्रमाणं तोयेन तस्याक्षमथार्द्धकर्षम् ॥५७॥
पीत्वोष्णमम्भोऽनुपिबेद्विरेके पेयां रसं वा प्रपिबेद्विधिज्ञः
नाराचमेतज्जठरामयानां युक्त्योपयुक्तं प्रवदन्ति सन्तः ॥५८॥
वज्राण्ड्याः कर्षमात्रायाः कल्कं दध्यादिवेष्टितम्
निगिलेद्वारिणा नित्यमुदरव्याधिशान्तये ॥५९॥
पुनर्नवा दारुनिशा सतिक्ता पटोलपथ्यापिचुमन्दमुस्ताः
सनागराच्छिन्नरुहेति सर्वैः कृतः कषायो विधिना विधिज्ञैः ॥६०॥
गोमूत्रयुग्गुग्गुलुना च युक्तः पीतः प्रभाते नियतं नराणाम्
सर्वाङ्गशोथोदरकासशूलश्वासान्वितं पाण्डुगदं निहन्ति ॥६१॥
इत्येकचत्त्वारिंशत्तम उदरोगाधिकारः समाप्तः ॥४१॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP