तृतीयः भागः - शोथाधिकारः

भावप्रकाशसंहिता


अथ द्विचत्वारिंशत्तमः शोथाधिकारः ॥४२॥
शुद्ध्य्मायाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा
दध्याममृच्छाकविरोधिपिष्टगरोषसृष्टान्ननिषेवणाच्च ॥१॥
अर्शांस्यचेष्टा वपुषो ह्यशुद्धिर्मर्माभिघाती विषमा प्रसूतिः
मिथ्योपचारः प्रतिकर्मणाञ्च निजस्य हेतुः श्वयथोः प्रदिष्टः ॥२॥
रक्तपित्तकफान्वायुर्दुष्टो दुष्टान्बहिः शिराः
नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम्
उत्सेधं संहतं शोथं तमाहुर्निचयादतः ॥३॥
सगौरवं स्यादनवस्थितत्वं सोत्सेधमूष्माऽथ शिरातनुत्वम्
सलोमहर्षञ्च विवर्णतां च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ॥४॥
चरस्तनुत्वक्परुषोऽरुणोऽसितः प्रसुप्तिहर्षार्त्तियुतोऽनिमित्ततः
प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली स्याच्छ्वयथुः समीरणात् ॥५॥
मृदुः सगन्धाऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः
यस्तूष्यते स्पर्शरुगक्षिरागवान्स पित्तशोथो भृशदाहपाकवान् ॥६॥
गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रा वमिवह्निमान्द्यकृत्
सकृच्छ्रजन्मप्रशमो निपीडितो नचोन्नमेद्रा त्रिबली कफात्मकः ॥७॥
निदानाकृतिसंसर्गाज्ज्ञेयः शोथो द्विदोषजः ॥८॥
सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रलक्षणः ॥९॥
अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः
हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः ॥१०॥
रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान्
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ॥११॥
विषजः सविषप्राणिपरिसर्पणमूत्रणात्
दंष्ट्रादन्तनखाघातादविषप्राणिनामपि ॥१२॥
विण्मूत्रशुक्रोपहतमलवद्वस्तुसङ्करात्
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्
मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः ॥१३॥
दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशये स्थिताः
पित्ताशयस्था मध्ये तु वर्चः स्थानगतास्त्वधः
कृत्स्नं देहमनुप्राप्य कुर्युः सर्वसरन्तथा ॥१४॥
छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च
सप्तकोऽय सदौर्बल्यः शोथस्यैते उपद्र वाः ॥१५॥
श्वासः पिपासा छर्दिश्च दौर्बल्यं ज्वर एव च
यस्य चान्ने रुचिर्नास्ति शोथिनं तं विवर्जयेत् ॥१६॥
यो मध्यदेशे श्वयथुः कष्टः सर्वाङ्गगश्च यः
अर्द्धाङ्गेऽरिष्टभूतः स्याद्यश्चोर्ध्वं परिसर्पति ॥१७॥
अनन्योपद्र वकृतः शोथः पादसमुत्थितः
पुरुषं हन्ति नारीन्तु मुखजो बस्तिजो द्वयम् ॥१८॥
शुण्ठीपुनर्नवैरण्डपञ्चमूलीशृतं जलम्
वातिके श्वयथौ शस्तं पानाहारपरिग्रहे ॥१९॥
पटोलत्रिफलाऽरिष्टदार्वीक्वाथः सगुग्गुलुः
तद्वत्पित्तकृतं शोथं हन्ति श्लेष्मोद्भवं तथा ॥२०॥
मिश्रे मिश्रक्रमं कुर्यात्सर्वजे सर्वमेव हि
बिल्वपत्ररसं पूतं सोषणं त्रिभवे पिबेत् ॥२१॥
शोथे त्वागन्तुजे कुर्यात्सेकलेपादि शीतलम्
भल्लातक्या हरेच्छोथं सतिला कृष्णमृत्तिका ॥२२॥
महिषीक्षीरसंपिष्टैर्नवनीतसमन्वितैः
तिलैर्लिप्तः शमं याति शोथो भल्लातकोत्थितः ॥२३॥
यष्टीदुग्धतिलैर्लेपो नवनीतेन संयुतः
शोथमारुष्करं हन्ति चूर्णैः शालदलस्य च ॥२४॥
महिष्या नवनीतं वा लेपाद् दुग्धतिलान्वितम् ॥२५॥
पथ्यानिशाभार्ग्यमृताऽग्निदार्वीपुनर्नवादारुमहौषधानाम्
क्वाथः प्रसह्योदरपाणिपादमुखाश्रितं हन्त्यचिरेण शोथम् ॥२६॥
फलत्रिकोद्भवं क्वाथं गोमूत्रेणैव साधितम्
वातश्लेष्मोद्भवं शोथं हन्याद् वृषणसम्भवम् ॥२७॥
बृश्चीरदेवद्रुमनागरैर्वा दन्तीत्रिवृत्त्र् यूषणचित्रकैर्वा
दुग्धं सुसिद्धं विधिना निपीतं गीतं परं शोथहरं भिषग्भिः ॥२८॥
सेकस्तथार्कवर्षाभूनिम्बक्वाथेन शोथहृत्
गोमूत्रेणापि कुर्वीत सुखोष्णेनावसेचनम् ॥२९॥
पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थकस्तथा
अम्लपिष्टः सुखोष्णोऽय प्रलेपः सर्वशोथहृत् ॥३०॥
गुडार्द्र कं वा गुडनागरं वा गुडाभयां वा गुडपिप्पलद्यं वा
कर्षाभिवृद्ध्या त्रिपलप्रमाणं खादेन्नरः पक्षमथापि मासम् ॥३१॥
शोथप्रतिश्यायगलास्यरोगान्सश्वासकासारुचिपीनसादीन्
जीर्णज्वरार्शोग्रहणीविकारान्हन्यात्तथान्यान्कफवातरोगान् ॥३२॥
विश्वं गुडेन तुल्यं बृश्चीररसानुपानमभ्यस्तम्
विनिहन्ति सर्वशोथं घनवृन्दं चण्डवायुरिव ॥३३॥
कणानागरजं चूर्णं सगुडं शोथनाशनम्
आमाजीर्णप्रशमनं शूलघ्नं बस्तिशोधनम् ॥३४॥
गुडात्पलत्रयं ग्राह्यं शृङ्गबेरपलत्रयम्
शृङ्गबेरसमा कृष्णा लोहविट्तिलयोः पलम्
चूर्णमेतत्समुद्दिष्टं सर्वश्वयथुनाशनम् ॥३५॥
माणकक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत्
एकजं द्वन्द्वजं शोथं त्रिदोषञ्च व्यपोहति ॥३६॥
शुष्कमूलकवर्षा भूदारुरास्नामहौषधैः
पक्वमभ्यञ्जनं तैलं सशूलं श्वयथुं हरेत् ॥३७॥
इति द्विचत्वारिंशत्तमः शोथाधिकारः समाप्तः ॥४२॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP