तृतीयः भागः - कार्श्याधिकारः
भावप्रकाशसंहिता
अथ चत्वारिंशत्तमः कार्श्याधिकारः ॥४०॥
वातो रुक्षान्नपानानि लङ्घनं प्रमिताशनम्
क्रियाऽतियोगः शोकश्च वेगनिद्रा विनिग्रहः ॥१॥
नित्यं रोगो रतिर्नित्यं व्यायामो भोजनाल्पता
भीतिर्धनादिचिन्ता च कार्श्यकारणमीरितम् ॥२॥
शुष्कस्फिगुदरग्रीवा धमनीजालसन्ततिः
त्वगस्थिशोषोऽतिकृशः स्थूलपर्वाननो मतः ॥३॥
प्लीहकासक्षयश्वासगुल्मार्शांस्युदराणि च
भृशं कृशं प्रधावन्ति रोगाश्च ग्रहणीमुखाः
कश्चिदन्यः कृशोऽतीव बलवान्दृश्यते तदा ॥४॥
आधानसमये यस्य शुक्रभागोऽधिको भवेत्
मेदोभागस्तु हीनः स्यात्स कृशोऽपि महाबलः ॥५॥
मेदसस्त्वधिको यस्य शुक्रभागोऽल्पको भवेत्
स स्निग्धोऽपि सुपुष्टोऽपि बलहीनो विलोक्यते ॥६॥
रुक्षान्नादिनिमित्ते तु कृशे युञ्जीत भेषजम्
बृंहणं बलकृद् वृष्यं तथा वाजीकरञ्च यत् ॥७॥
पीताऽश्वगन्धा पयसाऽद्धमासं घृतेन तैलेन सुखाम्बुना वा
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथाऽम्बुवृष्टिः ॥८॥
अश्वगन्धस्य कल्केन क्वाथे तस्मिन्पयस्यपि
सिद्धं तैलं कृशाङ्गानामभ्यङ्गादङ्गपुष्टिदम् ॥९॥
पुष्टिकृद्वालरोगोक्तमश्वगन्धाघृतं भजेत्
वाजीकरोदितं तद्वदश्वगन्धाघृतादिकम् ॥१०॥
स्वभावादतिकार्श्योयः स्वभावादल्पपावकः
स्वभावादबलो यश्च तस्य नास्ति चिकित्सितम् ॥११॥
इति चत्वारिंशत्तमः कार्श्याधिकारः समाप्तः ॥४०॥
N/A
References : N/A
Last Updated : May 17, 2021
![Top](/portal/service/themes/silver/images/up.gif)
TOP