तृतीयः भागः - मूत्राघाताधिकारः
भावप्रकाशसंहिता
अथ षट्त्रिंशो मूत्राघाताधिकारः ॥३६॥
जायन्ते कुपितैर्दोषैमूत्राघातास्त्रयोदश
प्रायो मूत्रविघाताद्यैर्वातकुण्डलिकाऽदयः ॥१॥
रौक्ष्याद्वेगविघाताद्वा वार्युवस्तौ सवेदनः
मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः ॥२॥
मूत्रमल्पाल्पमथवा सरुजं सम्प्रवर्त्तते
वातकुण्डलिकां तीव्रां व्याधिं विद्यात्सुदारुणम् ॥३॥
आध्मापयन्वस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्
कुर्यात्तीव्रार्त्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम् ॥४॥
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः
निरुणद्धि मुखं तस्य वस्तेर्वस्तिगतोऽनिलः ॥५॥
मूत्रसङ्गो भवेत्तेन वस्तिकुक्षिनिपीडितः
वातवस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ॥६॥
चिरं धारयतो मूत्रं त्वरया न प्रवर्त्तते
मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ॥७॥
मूत्रस्य वेगेऽभिहते तदुदावर्त्तहेतुकः
अपानः कुपितो वायुरुदरं पूरयेद् भृशम् ॥८॥
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्
तन्मूत्रजठरं विद्यादधोवस्तिनिरोधजम् ॥९॥
वस्तौ वाप्यथवा नाले मणौ वा यस्य देहिनः
मूत्रं प्रवृत्तं सज्जेत सरक्तंवा प्रवाहतः ॥१०॥
स्रवेच्छनैरल्पमल्पं सरुजं वापि नीरुजम्
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः ॥११॥
रूक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ
मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् ॥१२॥
अन्तर्बस्तिमुखे वृत्तः स्थिरोऽल्प सहसा भवेत्
अश्मरी तुल्यरुग्ग्रन्थिर्मूत्रे ग्रन्थिः स उच्यते ॥१३॥
मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धृतम्
स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्त्तते
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ॥१४॥
व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिलावृतम्
वस्तिं मेढ्रं गुदञ्चैव प्रदहत् स्रावयेदधः ॥१५॥
मूत्रं हारिद्र मथवा सरसं रक्तमेव वा
कृच्छ्रात्पुनः पुनर्जन्तोरुष्णवातं वदन्ति तम् ॥१६॥
पित्तं कफो द्वावपि वा संहन्यतेऽनिलेन चेत्
कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं स्रवेत् ॥१७॥
सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत्
शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम् ॥१८॥
रूक्षदुर्बलयोर्वातेनोदावर्त्तं शकृद्यदा ॥१९॥
मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः
विड्गन्धं मूत्रयेत्कृच्छ्राद्विडिवघातं विनिर्दिशेत् ॥२०॥
द्रुताध्वलङ्घनायासैरभि घातात्प्रपीडनात्
स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठिति गर्भवत् ॥२१॥
शूलस्पन्दनदाहार्त्तो विन्दुं बिन्दुं स्रवत्यपि
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्त्तिमान् ॥२२॥
वस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्
पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः ॥२३॥
तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता
श्लेष्मणा गौरवं शोथः स्निग्धं मूत्रं घनं सितम् ॥२४॥
श्लेष्मरुद्धबिलो वस्तिः पित्तोदीर्णो न सिद्ध्य्ति
अविभ्रान्तबिलः साध्यो न च यः कुण्डलीकृतः
स्याद्बस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च ॥२५॥
मूत्राघातचिकित्सा
स्नेहस्वेदोपपन्नस्य हितं स्नेहविरेचनम्
दद्यादुत्तरवस्तिं च मूत्राघाते सवेदने ॥२६॥
नलकुशकाशेक्षुबलाक्वाथं प्रातः सुशीतलंससितम्
पिबतो नश्यति नियतं मूत्रग्रह इत्युवाच कचः ॥२७॥
गोजीनाम्नोमूलं पलमेकं क्वथितशेषितं पीतम्
क्षिप्त्वा मधु च सिताञ्च प्रणुदति मूत्रस्य संरोधम् ॥२८॥
गोधापद्या मूलं क्वथितं घृततैलगोरसोन्मिश्रम्
पीतं निरुद्धमचिराद्भिनत्ति मूत्रस्य संघातम् ॥२९॥
पिबेच्छिलाजतु क्वाथे युक्तं वीरतरादिजे
क्वाथं सपत्रमूलस्य गोक्षुरस्य फलस्य च ॥३०॥
पिबेन्मधुसितायुक्तं मूत्रकृच्छ्ररुजाऽपहम् ॥३१॥
घनसारस्य चूर्णेन वस्तस्याथाविकाम्बुना
गुण्डयित्वा ध्वजे क्षिप्त्वा मूत्ररोधो जहाति तम् ॥३२॥
सदाभद्रा ऽश्मभिन्मूलं शतावर्याः सचित्रकम्
रोहिणीकोकिलाक्षौ च वचाशैलत्रिकण्टकम् ॥३३॥
श्लक्ष्णपिष्टः सुरापीतो मूत्राघातप्रबाधनः
पिबेद्वर्हिशिखामूलं दुग्धभुक्तण्डुलाम्भसा ॥३४॥
वस्तिमुत्तरवस्तिं वा सर्वेषामेव दापयेत्
निदिग्धिकायाः स्वरसं पिबेद्वस्त्रात्परिस्रुतम् ॥३५॥
जले कुङ्कुमकल्कं वा सक्षौद्र मुषितं निशि
सतैलं पाटलाभस्मक्षारं बद्ध्वा परिस्रुतम् ॥३६॥
त्रिकण्टकैरण्डशतावरीभिः सिद्धं पयो वा तृणपञ्चमूलैः
गुडप्रगाढं सघृतं पयो वा रोगेषु कृच्छ्रादिषु शस्तमेतत् ॥३७॥
सिताक्षारान्वितं मूलं वायसीतिलकन्दयोः
कोशकाररसैः पीतं वस्तिकुण्डलजिद्भवेत् ॥३८॥
शृतशीतपयोऽन्नाशी चन्दनं तण्डुलाम्बुना
पिबेत्सशर्करं श्रेष्ठमुष्णवाते सशोणिते ॥३९॥
शिलोद्भिदैरण्डसमस्थिराभिः पुनर्नवाभीरुरसेषु सिद्धम्
तैलं शृतं क्षीरमथानुपानं कालेषु कृच्छ्रादिषु सम्प्रयोज्यम् ॥४०॥
धान्य गोक्षुरकक्वाथकल्कयुक्तं घृतं हितम्
मूत्राघाते मूत्रकृच्छ्रे शुक्रदोषे च दारुणे ॥४१॥
पाषाणभेदो वाराही शालिमूलं शरस्तथा
भल्लातकं शिरीषस्य मूलमेषामथाहरेत् ॥४३॥
समभागानि सर्वाणि क्वाथयित्वा विचक्षणः
पादशेषकषायेण घृतप्रस्थं विपाचयेत् ॥४४॥
कल्कं दत्वाऽथ मतिमान् गिरिजं मधुकं तथा
नीलोत्पलञ्च काकोली बीजं त्रापुषमेव च ॥४५
कूष्माण्डञ्च तथैर्वारुसम्भवञ्च समं भवेत्
उष्णवातं निहन्त्येतद् घृतं भद्रा वहं स्मृतम् ॥४५॥
विदारी बृषको यूथी मातुलुङ्गी च भूतृणम्
पाषाणभेदः कस्तूरी वसुको वशिरोऽनलः ॥४७॥
पुनर्नवा वचा रास्ना बला चातिबला तथा
कशेरुविषशृङ्गाटतामलक्यः स्थिराऽदयः ॥४८॥
शरेक्षुदर्भमूलञ्च कुशः काशस्तथैव च
पलद्वयन्तु संहृत्य जलद्रो णे विपाचयेत् ॥४९॥
पादशेषे रसे तस्मिन्घृतप्रस्थं विपाचयेत्
शतावर्यास्तथा धात्र्याः स्वरसो घृतसम्मितः ॥५०॥
षट्पलं शर्करायाश्च कार्षिकाण्यपराणि च
यष्ट्याह्वं पिप्पलीद्रा क्षाकाश्मर्यं सपरुषकम् ॥५१॥
एला दुरालभाकौन्तीकुङ्कुमं नागकेशरम्
जीवनीयानि चाष्टौ च दत्वा च द्विगुणं पयः ॥५२॥
एतत्सर्पिर्विपक्तव्यं शनैर्मृद्वग्निना बुधैः
मूत्राघातेषु सर्वेषु विशेषात्पित्तजेषु च ॥५३॥
शर्कराऽश्मरिशूलेषुशोणितप्रभवेषु च
हृद्रो गे पित्तगुल्मे च वातासृक्पित्तजेषु च ॥५४॥
कासश्वासक्षतोरस्कधनुः स्त्रीभारकर्षिते
तृष्णाच्छर्दिमनः कम्पशोणितच्छर्दने तथा ॥५५॥
रक्ते यक्ष्मण्यपस्मारे तथोन्मादे शिरोग्रहे
योनिदोषे रजोदोषे शुक्रदोषे स्वरामये ॥५६॥
एतत्स्मृतिकरं वृष्यं वाजीकरणमुत्तमम्
पुत्रदं बलवर्णाढ्यं विशेषाद्वातनाशनम् ॥५७॥
पानभोजननस्येषु न क्वचित्प्रतिहन्यते
विदारीघृतमित्युक्तं रसायनमनुत्तमम् ॥५८॥
पिष्ट्वाऽखुमलमुष्णेन चारनालेन लिप्यते
बद्धमूत्रं निहन्त्याशु तथैव करभीभवम् ॥५९॥
स्त्रीणामतिप्रसङ्गेन शोणितं यस्य रिच्यते
मैथुनोपरमश्चास्य बृंहणीयो विधिर्हितः ॥६०॥
ताम्रचूडवसातैलं हितं चोत्तरवस्तिषु
स्वगुप्ताफलमृद्वीकाकृष्णेक्षुरसितारजः ॥६१॥
समांशमर्धभागानि क्षीरक्षौद्र घृतानि च
सर्वं सम्यग्विमथ्याक्षमात्रं लीढ्वा पयः पिबेत्
हन्ति शुक्रक्षयोत्थांश्च दोषान्वन्ध्यासुतप्रदम् ॥६२॥
क्षौद्रा र्द्धभागः कर्त्तव्यो भागः स्यात्क्षीरसर्पिषोः ॥६३॥
शर्करायाश्च चूर्णं च द्रा क्षाचूर्णं च तत्समम्
स्वयं गुप्ताफलञ्चैव तथैवेक्षुरसस्य च ॥६४॥
पिप्पलीनां तथा चूर्णं समभागं प्रदापयेत्
तदैकध्यं समानीय खल्ले नातिविमथ्य च ॥६५॥
तस्य पाणितलं चूर्णं लिहेत्क्षीरं ततः पिबेत्
एतत्सम्यक् प्रयुञ्जानो योनिदोषात्प्रमुच्यते ॥६६॥
कर्पूररसजा युक्ता वस्त्रवर्त्तिः शनैः शनैः
मेढमार्गान्तरे न्यस्ता मूत्राघातं व्यपोहति ॥६७॥
मूत्रकृच्छ्रेऽश्मरीरोगे भेषजं यत्प्रकीर्त्तितम्
मूत्राघातेषु कृच्छ्रेषु तत्कुर्याद् देशकालवित् ॥६८॥
इतिषट्त्रिंशो मूत्राघाताधिकारः समाप्तः ॥३६॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP