चतुर्थः भागः - कुष्ठरोगाधिकारः
भावप्रकाशसंहिता
अथ चतुष्पञ्चाशत्तमः कुष्ठरोगाधिकारः ॥५४॥
विरोधीन्यन्नपानानि द्र वस्निग्धगुरूणि च
भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम् ॥१॥
व्यायाममग्नितापञ्चाप्यतिभुक्त्वा निषेविणाम्
शीतोष्णलङ्घनाहारान्क्रमं मुक्त्वा निषेविणाम् ॥२॥
घर्मश्रमभयार्त्तानां द्रुतं शीताम्बुसेविनाम्
अजीर्णाध्यशिनां चापि पञ्चकर्मापचारिणाम् ॥३॥
नवान्नदधिमत्स्यादिलवणाम्लनिषेविणाम्
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् ॥४॥
व्यवायं चाप्यजीर्णेऽन्ने दिवानिद्रां निषेविणाम्
विप्रान्गुरून्धर्षयतां पापं कर्म च कुर्वताम् ॥५॥
वातादयस्त्रयो दोषास्त्वग्रक्तं मांसमम्बु च
दूषयन्ति स कुष्ठानां सप्तको द्र व्यसङ्ग्रहः
अतः कुष्ठानि जायन्ते सप्तधैकादशैव च ॥६॥
पूर्वं त्रिकं तथा सिध्मं ततः काकणकं तथा
पुण्डरीकर्क्षजिह्वके महाकुष्ठानि सप्त च ॥७॥
एककुष्ठं स्मृतं पूर्वं गजचर्म ततः स्मृतम्
ततश्चर्मदलं प्रोक्तं ततश्चापि विचर्चिका ॥८॥
विपादिकाऽभिधा सैव पामा कच्छूस्ततः परम्
दद्रुविस्फोटकिटिभालसकानि च वेष्टितम् ॥९॥
क्षुद्र कुष्ठानि चैतानि कथितानि भिषग्वरैः ॥१०॥
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः ॥११॥
अतिश्लक्ष्णः खरस्पर्शः स्वेदास्वेदविवर्णता
दाहःकण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः क्लमः ॥१२॥
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोपनम्
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् ॥१३॥
दूषयन्ति श्लथीकृत्य निश्चलत्वादितस्ततः
त्वचः कुर्वन्ति वैवर्ण्यं दोषाः कुष्ठमुशन्ति तम् ॥१४॥
वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात्
मण्डलाख्यं विचर्ची च ॠक्षाख्यं वातपित्ततः ॥१५॥
चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः
वातश्लेष्मोद्भवाः पित्तकफाद्दद्रुशतारुषी ॥१६॥
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा
सर्वैरेवोल्वणैर्दोषैराहुः काकणकं बुधाः ॥१७॥
कृष्णारुणकपालाभं यद्रू क्षं परुषं तनु
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् ॥१८॥
उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत्
रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् ॥१९॥
श्वेतरक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्
कृच्छ्रमन्योऽन्यसंसक्तं कुष्ठं मण्डलमुच्यते ॥२०॥
श्वेतताम्रञ्च तनु यद्र जो घृष्टं विमुञ्चति
प्रायेणोरसि तत्सिध्ममलाबुकुसुमोपमम् ॥२१॥
यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम्
त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति ॥२२॥
तच्छ्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्
सरागञ्चैव सोत्सेधं पुण्डरीकं कफोल्वणम् ॥२३॥
कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम्
यदृक्षजिह्वासंस्थानमृक्षजिह्वं तदुच्यते ॥२४॥
अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्
तदेककुष्ठं चर्माख्यं बहलं गजचर्मवत् ॥२५॥
रक्तं सशूलं कण्डूमत्सस्फोटं दलयत्यपि
तच्चर्मदलमाख्यातं स्पर्शस्यासहनञ्च यत् ॥२६॥
सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका ॥२७॥
वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम् ॥२८॥
सूक्ष्मा बह्व्यः स्राववत्यः प्रदाहाः पामेत्युक्ताः पिडकाः कण्डुमत्यः ॥२९॥
सैव स्फोटस्तीव्रदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रा स्फिचोश्च ॥३०॥
सकण्डूरागपिडकं दद्रुर्मण्डलमुद्गतम् ॥३१॥
स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः ॥३२॥
श्यामं किणखरस्पर्शं परुषं किटिभं स्मृतम् ॥३३॥
कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम् ॥३४॥
रक्तश्यावं सदाहार्त्ति शतारुःस्याद् बहुव्रणम् ॥३५॥
त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यञ्च जायते
त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम् ॥३६॥
कण्डूर्विपूयकश्चैव कुष्ठे शोणितसम्भवे ॥३७॥
बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः
तोदः स्फोटः स्थिरत्वञ्च कुष्ठे मांससमाश्रिते ॥३८॥
कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम्
मेदः स्थानगते लिङ्गं प्रागुक्तानि तथैव च ॥३९॥
नासाभङ्गोऽक्षिरागश्च क्षतेषु कृमिसम्भवः
स्वरोपघातः पीडा च भवेत्कुष्ठेऽस्थिमज्जगे ॥४०॥
दम्पत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ॥४१॥
खरं श्यावारुणं रूक्षं वातकुष्ठं सवेदनम्
पित्तात्प्रकुथितं दाहरागस्रावान्वितं मतम्
कफोत्क्लेदि घनं स्निग्धं सकण्डूशैत्यगौरवम्
द्विलिङ्गं द्वन्द्वजं कुष्ठं त्रिलिङ्गं सान्निपातिकम् ॥४२॥
साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकञ्च यत्
मेदोगं द्वन्द्वजं याप्यं वर्ज्यं मज्जास्थिसंश्रितम्
कृमिकृद् दाहमन्दाग्निसंयुक्तं यत् त्रिदोषजम् ॥४३॥
प्रभिन्नं प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम्
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ॥४४॥
कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं भवेत्
निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥४५॥
वाताद्रू क्षारुणं पित्तात्ताम्रं कमलपत्रवत्
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु
सकण्डूकं क्रमाद्र क्तमांसमेदःसु चादिशेत्
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥४६॥
अशुक्लरोमाबहलमसंश्लिष्टमथो नवम्
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ॥४७॥
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता ॥४८॥
प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात्सहभोजनात्
एकशय्याऽसनाच्चापिवस्त्रमाल्यानुलेपनात्
कण्डूकुष्ठोपदंशाश्च भूतोन्मादव्रणज्वराः
औपसर्गिकरोगाश्च सङ्क्रामन्ति नरान्नरम् ॥४९
म्रियते यदि कुष्ठेन पुनर्जातस्य तद्भवेत्
अतो निन्दितरोगोऽय कुष्ठं कष्टं प्रकीर्त्तितम् ॥५०॥
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु
पित्तोत्तरेषु लेपः सेको रक्तस्य मोचनं श्रेष्ठम् ॥५१॥
पथ्याकरञ्जसिद्धार्थनिशाऽवल्गुजसैन्धवैः
विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत् ॥५२॥
सोमराजीभवं चूर्णं शृङ्गबेरसमन्वितम्
उद्वर्त्तनमिदं हन्ति कुष्ठमुग्रं कृतास्पदम् ॥५३॥
रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम्
मार्कण्डेयप्रभृतिभिर्यत्प्रयुक्तं महर्षिभिः ॥५४॥
पुष्पकाले तु पुष्पाणि फलकाले फलानि च
संगृह्य पिचुमर्दस्य त्वङ्मूलानि दलानि च ॥५५॥
द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत्
त्रिफला त्र्यूषणं ब्राह्मी श्वदंष्ट्राऽरुष्कराग्नयः ॥५६॥
विडङ्गसारवाराहीलोहचूर्णामृताः समाः
निशाद्वयावल्गुजकं व्याधिघातः सशर्करः ॥५७॥
कुष्ठमिन्द्र यवाः पाठाः चूर्णमेषां तु संयुतम्
खादिरासननिम्बानां घनक्वाथेन भावयेत्
सप्तधा पञ्चनिम्बं तु मार्कवस्यरसेन च
स्निग्धः शुद्धतनुर्धीमान्योजयेत्तच्छुभे दिने ॥५८॥
मधुना तिक्तहविषा खदिरासनवारिणा
लेह्यमुष्णाम्भसा वाऽपि कालवृद्ध्या पलं भवेत्
जीर्णे तस्मिन्समश्नीयात्स्निग्धं लघु हितञ्च यत् ॥५९॥
विचर्चिकौदुम्बर पुण्डरीककापालदद्रू किटिभालसादि
शतारुविस्फोटविसर्पमालाः कफप्रकोपं त्रिविधं किलासम् ॥६०॥
भगन्दरश्लीपदवातरक्तजडान्ध नाडीव्रणशीर्षरोगान्
सर्वान्प्रमेहान्प्रदरांश्च सर्वान्दंष्ट्राविषं मूलविषं निहन्ति ॥६१॥
स्थूलोदरः सिंहकृशोदरः स्यात्सुश्लिष्टसन्धिर्मधुनोपयोगात्
सदोपयोगादपि ये दशन्ति सर्पादयो यान्ति विनाशमाशु ॥६२॥
जीवेच्चिरं व्याधिजराविमुक्तः शुभे रतश्चन्द्र समानकान्तिः ॥६३॥
शशिलेखा पञ्चपलं तावद्गिरिजस्य गुग्गुलोस्तु दश
ताप्यस्य पलत्रितयं द्वे लोहस्रावणीकयोश्च पले ॥६४॥
त्रिफलाकरञ्जपल्लवखदिरगुडूचीत्रिवृद्दन्त्यः
मुस्ताविडङ्गरजनीकुटजत्वङ्निम्बवह्निसंपाकाः ॥६५॥
एतै रचितां वटिकां मधुसंमिश्रां गिलेत्प्रातः
गोमूत्रेण च कुष्ठं नुदत्यसृग्वातमचिरेण ॥६६॥
श्वित्राणि पाण्डुरोगं विषमानुदरप्रमेहगुल्मांश्च
नाशयति वलीपलितं योगः स्वायम्भुवो नाम्ना ॥६७॥
चित्रकं त्रिफला व्योषमजाजी कारवी वचा
सैन्धवातिविषाकुष्ठं चव्यैला च यवासकम् ॥६८॥
विडङ्गान्यजमोदा च मुस्ता चामरदारु च
यावन्त्येतानि सर्वाणि तावन्मानन्तु गुग्गुलोः ॥६९॥
सङ्कुट्य सर्पिषा सार्द्धं गुटिकां कारयेद्भिषक्
प्रातर्भोजनकाले च खादेदग्निबलं यथा ॥७०॥
हन्त्यष्टादश कुष्ठानि कृमिदुष्टव्रणानि च
ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान् ॥७१॥
गृध्रसीमथ भग्नञ्च गुल्मं चापि नियच्छति
व्याधीन्कोष्ठगतांश्चापि जयेद्विष्णुरिवासुरान् ॥७२॥
वातरक्ताधिकारोक्तः पुरः कैशोरकाभिधः
कुष्ठानां वातरक्तानां नाशनं परमौषधम् ॥७३॥
भल्लातकप्रस्थयुगं छित्वा द्रो णजले क्षिपेत्
प्रस्थद्वयंगुडूच्याश्च क्षुण्णं तत्राम्भसि क्षिपेत्
चतुर्थांशावशेषं तु कषायमवतारयेत्
वस्त्रपूते कषाये तु वक्ष्यमाणं विनिक्षिपेत् ॥७५॥
शरावमात्रकंसर्पिर्दुग्धं स्यादाढकं तथा
सितां प्रस्थमितां दद्यात्प्रस्थार्द्धं माक्षिकं क्षिपेत् ॥७६॥
सर्वाण्येकत्र भाण्डे तु पचेन्मृद्वग्निना शनैः
सर्वद्र वे घनीभूते पावकादवतारयेत् ॥७७॥
तत्र क्षेप्याणि चूर्णानि ब्रूमो बिल्वविषामृताः
वाकुची चाथ दद्र घ्नुः पिचुमर्दो हरीतकी ॥७८॥
अक्षो धात्री च मञ्जिष्ठा मरिचं नागरं कणा
यवानी सैन्धवं मुस्तं त्वगेला नागकेशरम् ॥७९॥
पर्पटं पत्रकं बालमुशीरं चन्दनं तथा
गोक्षुरस्य च बीजानि कर्चूरो रक्तचन्दनम् ॥८०॥
पृथक्पलार्द्धमानानां चूर्णमेषामिह क्षिपेत्
पलमात्रमितं प्रातः समश्नीयाज्जलेन हि ॥८१॥
नाशयेदवलेहोऽय पथ्यान्यन्नानि खादतः
कुष्ठानि वातरक्तानि सर्वाण्यर्शांसि सेवितः ॥८२॥
व्यायाममातपं वह्निमम्लं मांसं दधि स्त्रियम्
तैलाभ्यङ्गं तथाध्वानं नरो भल्लातकी त्यजेत् ॥८३॥
निम्बगोपारुणाः कट्वी त्रायन्ती त्रिफला घनम्
पर्पटावल्गुजानन्तावचाखदिरचन्दनम् ॥८४॥
पाठाशुण्ठीशटीभार्गीवासाभूनिम्बवत्सकम्
श्यामेन्द्र वारुणीमूर्वाविडङ्गेन्द्र यवानलम् ॥८५॥
हस्तिकर्णामृताद्रे कापटोलरजनीद्वयम्
कणारग्वधसप्ताह्वत्रिवृद्वेत्रोच्चटाफलम् ॥८६॥
मञ्जिष्ठा लाङ्गली रास्ना नक्तमालं पुनर्नवा
दन्तीबीजकसारञ्च भृङ्गराजं कुरण्टकम् ॥८७॥
अङ्कोटकञ्च शाखोटं द्विपलांशं पृथक्पृथक्
गृह्णीयात्तानि सर्वाणि जलद्रो णे पचेच्छनैः ॥८८॥
अष्टमांशावशेषन्तु कषायमवतारयेत्
विधाय वाससा पूतं स्थापयेद्भाजने दृढे ॥८९॥
भल्लातकसहस्राणि च्छित्वा तु त्र्यर्मणाम्भसि
पचेदष्टावशेषं तत्कषायमवतारयेत् ॥९०॥
तच्च वस्त्रेण संशोध्य द्वौ कषायौ विमिश्रयेत्
गुडं शतपलं दत्वा लेहवत्तत्पचेच्छनैः ॥९१॥
त्रिकटु त्रिफला मुस्तं विडङ्गं चित्रकं तथा
सैन्धवं चन्दनं कुष्ठं दीप्यकञ्च पलं पृथक्
सौगन्ध्यार्थं क्षिपेत्तत्र चातुर्जातं पलं पलम् ॥९२॥
महाभल्लातको ह्येष महादेवेन भाषितः
प्राणिनां हितकामेन जयेच्छीघ्रं प्रयोजितः ॥९३॥
श्वित्रमौदुम्बरं दद्रुमृक्षजिह्वन्तु काकणम्
पुण्डरीकं सचर्माख्यं विस्फोटं रक्तमण्डलम् ॥९४॥
कण्डूं कपालकं कुष्ठं पामानञ्च विपादिकाम्
वातरक्तं षडर्शांसि पाण्डुरोगव्रणान्कृमीन् ॥९५॥
रक्तपित्तमुदावर्त्तं कासं श्वासं भगन्दरम्
सदाभ्यासेन पलितमामवातं सुदुस्तरम् ॥९६॥
निर्यन्त्रणस्तु कथितो विहाराहारमैथुने
कुरुते परमां कान्तिं प्रदीप्तं जठरानलम् ॥९७॥
अनुपानं प्रयोक्तव्यं छिन्नातोयं पयोऽथवा
भोजने तु सदा त्याज्यमुष्णमम्लं विशेषतः ॥९८॥
मञ्जिष्ठा त्रिफला तिक्ता वचादारुनिशाऽमयाः
निम्बश्चैषां कृतः क्थाथः सर्वकुष्ठं विनाशयेत् ॥९९॥
वातरक्तं तथा कण्डूं पामां वै रक्तमण्डलम्
दद्रूं विसर्पं विस्फोटं पानाभ्यासेन नाशयेत् ॥१००॥
मञ्जिष्ठा वाकुची चक्रमर्दश्च पिचुमर्दकः
हरीतकी हरिद्रा च धात्री वासा शतावरी ॥१०१॥
बला नागबला यष्टीमधुकं क्षुरकोपि च
पटोलस्य लतोशीरं गुडूची रक्तचन्दनम् ॥१०२॥
मञ्जिष्ठादिरयं क्वाथः कुष्ठानां नाशनः परः
वातरक्तस्य संहर्त्ता कण्डूमण्डलनाशनः ॥१०३॥
मञ्जिष्ठाकुटजामृताघन वचामुण्डीहरिद्रा द्वयं
क्षुद्रा रिष्टपटोलतिक्तकटु काभार्गीविडङ्गाग्निकम्
मूर्वादारुकलिङ्गभृङ्गम गधात्रायान्तपाठावरी गायत्री त्रिफलाकिरातकमहानिम्बासनारग्वधाः ॥१०४॥
श्यामावल्गुजचन्दनं वरुणकं दन्तीकशाखोटकं वासासर्पटसारिवा प्रतिविषानन्ताविशालाजलम् मञ्जिष्ठाप्रथमं कषायमिति यः संसेवते तस्य तु त्वग्दोषाः सुचिरेण यान्ति विलयं कुष्ठानि चाष्टादश ॥१०५॥
नाशं गच्छति वातरक्तमखिला नश्यन्ति रक्तामयाः
वीसर्पस्त्वचि शून्यता नयनजा रोगाः प्रशाम्यन्ति च ॥१०६॥
मरिचं त्रिवृता मुस्तं हरितालं मनः शिला
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥१०७॥
विशाला करवीरञ्च क्षीरमर्कसमुद्भवम्
गोमयस्य रसं कुर्यात्प्रत्येकं कर्षसम्मितम् ॥१०८॥
विषस्यार्द्धपलं देयं तैलं प्रस्थमितं कटु
पचेच्चतुर्गुणे नीरे गोमूत्रे द्विगुणे तथा ॥१०९॥
मरिचाद्यमिदं तैलमभ्यङ्गात्कुष्ठनाशनम्
एतस्याभ्यङ्गतः श्वित्रं विवर्णं तत्क्षणाद्भवेत् ॥११०॥
तैलमेतज्जयेत्कण्डूं पामां सिध्मविचर्चिकाम्
पुण्डरीकं तथा दद्रुं शून्यतां नित्यसेविनाम् ॥१११॥
मरिचं त्रिवृता दन्ती क्षीरमार्कं शकृद्र सः
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥११२॥
विशाला करवीरञ्च हरितालं मनःशिला
चित्रकं लाङ्गली मुस्तं विडङ्गं चक्रमर्दकः ॥११३॥
शिरीषःकुटजो निम्बः सप्तपर्णोऽमृता स्नुही
श्यामाको नक्तमालश्च खदिरो वाकुची वचा ॥११४॥
ज्योतिष्मती च पलिका विषं द्विपलिकं भवेत्
आढकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम् ॥११५॥
मृत्पात्रे लोहपात्रे च शनैर्मृद्वग्निना पचेत्
मरिचाद्यमिदं तैलं महन्मुनिभिरीरितम् ॥११६॥
भिषगेतेन तैलेन म्रक्षयेत्कौष्ठिकान्व्रणान्
पामाविचर्चिकादद्रू कण्डूविस्फोटकानि च ॥११७॥
वलयः पलितं छाया नीलं व्यङ्गं तथैव च
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्यञ्च जायते ॥११८॥
प्रथमे वयसि स्त्रीणां यासां नस्यं प्रदीयते
तासामपि जरां प्राप्य न स्यातां स्खलितौ स्तनौ ॥११९॥
बलीवर्दस्तुरङ्गो वा गजो वा वायुपीडितः
त्रिभिरभ्यञ्जनैरस्य भवेन्मारुतविक्रमः ॥१२०॥
तालताप्यशिलासूतटङ्कणाः सिन्धुसंयुताः
गन्धको द्विगुणः सूताच्छङ्खचूर्णञ्च तत्समम् ॥१२१॥
जम्बीराद्भिर्दिनं घृष्ट्वा त्रिंशदंशं विषं क्षिपेत्
अस्य माषद्वयं खादेन्महिषीघृतसंयुतम् ॥१२२॥
मध्वाज्यैर्वाकुचीबीजकर्षं लिह्यात्ततः परम्
तालकेश्वरनामाऽय सर्वकुष्ठहरो रसः ॥१२३॥
रसो वलिस्ताम्रमयः पुरोग्निः शिलाजतु स्याद्विषतिन्दुकश्च
वरा च तुल्यं गगनञ्च सर्वैः करञ्जबीजं सचतुष्टयञ्च ॥१२४॥
सम्मर्द्य सर्वं मधुना घृतेन घृतस्य पात्रे निहितं प्रयत्नात्
कर्षं भजेत्प्रत्यहमस्य पथ्यं शाल्योदनं दुग्धमधुत्रयञ्च ॥१२५॥
विशीर्णकर्णाङ्गुलिनासिकोऽपि भवेदनेन स्मरतुल्यमूर्त्तिः
दारापरित्याग इह प्रदिष्टो जलौदनं तत्र निबद्धमूले ॥१२६॥
कुष्ठं मूलकबीजं प्रियङ्गवः सर्षपास्तथा रजनी
एतत्केशरषष्ठं निहन्ति चिरकालजं सिध्मम् ॥१२७॥
शिखरीरसेन पिष्टं मूलकबीजं प्रलेपतः सिध्मम्
क्षारेण वा कदल्या रजनीमिश्रेण नाशयति ॥१२८॥
दार्वीमूलकबीजानि तालकं सुरदारु च
ताम्बूलपत्रं सर्वाणि कार्षिकाणि पृथक्पृथक् ॥१२९॥
शङ्खचूर्णन्तु शाणं स्यात्सर्वाण्येकत्र वारिणा
प्रलेपयेत्प्रलेपोऽय सिध्मनाशन उत्तमः ॥१३०॥
सलिले चाम्रपेशी तु किञ्चित्सैन्धवसंयुता
ताम्रपात्रे विनिर्घृष्टा लेपाच्चर्मदलापहा ॥१३१॥
सलिलेन तु शुष्काणि घृष्ट्वा धात्रीफलानि च
कराभ्यां सुखमाप्नोति नरश्चर्मदलान्वितः ॥१३२॥
जीरकस्य पलं पिष्टं सिन्दूरार्द्धपलं तथा
कटुतैलं पचेदाभ्यां सर्वपामाहरं परम् ॥१३३॥
मञ्जिष्ठात्रिफलालाक्षालाङ्गली रात्रिगन्धकैः
चूर्णितैस्तैलमादित्यपाकं पामाहरं परम् ॥१३४॥
सैन्धवं चक्रमर्दश्च सर्षपाः पिप्पली तथा
आरनालेन संपिष्टाः पामाकण्डूहराः पराः ॥१३५॥
अर्कपत्ररसे पक्वं हरिद्रा कल्कसंयुतम्
नाशयेत्सार्षपं तैलं पामाकच्छूविचर्चिकाः ॥१३६॥
मनः शिलाऽल कासीसं गन्धाश्म सिन्धुजन्म च
स्वर्णक्षीरी शिलाभेदी शुण्ठी कुष्ठञ्च मागधी ॥१३७॥
लाङ्गली करवीरञ्च दद्रुघ्नः कृमिहाऽनलः
दन्ती निम्बदलं चैभिः पृथक्कर्षमितैर्भिषक् ॥१३८॥
कल्लीकृत्य पचेत्तैलं कटु प्रस्थद्वयोन्मितम्
अर्कसेहुण्डदुग्धेन पृथक्पलमितेन च ॥१३९॥
गोमूत्रस्याढकेनापि शनैर्मृद्वग्निना पचेत्
अभ्यङ्गेन हरेदेतत्कच्छू दुःसाध्यतामपि ॥१४०॥
पामानञ्च तथा कण्डूं त्वग्व्याधिरुधिरामयान्
कण्डूराक्षसनामेदं तैलं हारीतभाषितम् ॥१४१॥
कृतमालस्य पत्राणि नक्तमालदलानि च
द्रो णपुष्पीपलाशानि सर्षपा राजिका निशा ॥१४२॥
कुटजो मधुकं मुस्तं नागरं रक्तचन्दनम्
धांत्री यवानिका दारु कल्क एष प्रकल्पितः ॥१४३॥
उद्वर्त्तनादयं कल्कः कटुतैलसमन्वितः
कच्छूं पामां हरत्येव शीतपित्तादिकान्गदान् ॥१४४॥
कुष्ठं कृमिघ्नो दद्रुघ्नो निशासैन्धवसर्षपाः
अम्लपिष्टः प्रलेपोऽय दद्रुकुष्ठनिषूदनः ॥१४५॥
दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः
त्रिभिः प्रलेपैरपि बद्धमूलां दद्रू ञ्च कुष्ठञ्च विनाशयन्ति ॥१४६॥
गण्डलिकाख्यं तृणमपि सिद्धार्थकश्च स्नुहीपत्रम्
त्रयमपि समभागं स्यादेषां द्विगुणस्तु दद्र्रुघ्नः ॥१४७॥
अष्टगुणे गोतक्रे तानि प्रकृतानि सन्दध्यात्
दिवसत्रितयादूर्ध्वं सम्यङ्निष्पेषयेत्तानि१४८॥
वन्योपलेन घृष्ट्वा च दद्रुमालेपयेत्तेन
सप्ताहाल्लेपोऽय दद्र्रूमचिराद्विनाशयति ॥१४९
बिभीतकत्वङ्मलयूजटानां क्वाथेन पीतं गुडसंयुतेन
आवल्गुजं बीजमपाकरोति श्वित्राणि कृच्छ्राण्यपि पुण्डरीकम् ॥१५०॥
कुडवमवल्गुणबीजं हरितालचतुर्थभागसम्मिश्रम् ॥१५१॥
मनः शिलां तोलकार्द्धं गुञ्जाफलमग्निमूलञ्च
मूत्रेण गवां पिष्टं सवर्णताकारकं श्वित्रे ॥१५२॥
श्वेतं कुष्ठं व्रजत्यस्तं पक्षार्द्धेनाधिकेन वा
गिरिकर्ण्यास्तु कृष्णाया मूलेन परिलेपितम् ॥१५३॥
क्वाथः सवाकुचीचूर्णो धात्रीखदिरसारयोः
शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हरेत् ॥१५४॥
मथितेन पिबेच्चूर्णं काकोदुम्बर्यवल्गुजम्
तैलाक्तो घर्मसेवी स्यात्तक्राशी श्वित्रहृद्भवेत् ॥१५५॥
चतुष्पलं सोमराज्याः खदिरस्य पलं तथा
पटोलमूलं त्रिफला त्रायमाणा दुरालभा ॥१५६॥
कल्कार्थं कटुकं चापि कार्षिकान्सूक्ष्मपेषितान्
पलद्वयं कौशिकस्य शुद्धस्यात्र प्रदापयेत् ॥१५७॥
सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम्
अष्टादशानां कुष्ठानां परमं चैतदौषधम् ॥१५८॥
सोमराजीघृतं नाम निर्मितं ब्रह्मणा पुरा
लोकानामुपकाराय श्वित्रकुष्ठादिरोगिणाम् ॥१५९॥
इति चतुष्पञ्चाशत्तमः कुष्ठाधिकारः समाप्तः ॥५४॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP