चतुर्थः भागः - स्त्रीरोगाणामधिकाराः

भावप्रकाशसंहिता


अथ स्त्रीरोगाणामधिकाराः ॥६८॥
विरुद्धमद्याध्यशनादजीर्णाद्गर्भप्रपातादतिमैथुनाच्च
यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च ॥१॥
तं श्लेष्मपित्तानिलसन्निपातैश्चतुष्प्रकारं प्रदरं वदन्ति ॥२॥
असृग्दरं भवेत्सर्वं साङ्गमर्दं सवेदनम् ॥३॥
आमं सपिच्छाप्रतिमं सपाण्डुं पुलाकतोयप्रतिमं कफात्तु ॥४॥
सपीतनीलासितरक्तमुष्णं पित्तार्त्तियुक्तं भृशवेगि पित्तात् ॥५॥
रूक्षारुणं फेनिलमल्पमल्पं वातात्सतोदं पिशितोदकाभम् ॥६॥
सक्षौद्र सर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषम्
तच्चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्वीत भिषक्चिकित्साम् ॥७॥
तस्यातिवृत्तौ दौर्बल्यं श्रमो मूर्च्छा मदस्तृषा
दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः ॥८॥
शश्वत्स्त्रवन्तीमास्रावं तृष्णादाहज्वरान्विताम्
दुर्बलां क्षीणरक्ताञ्च तामसाध्यां विवर्जयेत् ॥९॥
मासान्निष्पिच्छदाहार्त्ति पञ्चरात्रानुबन्धि च
नैवातिबहु नात्यल्पमार्त्तवं शुद्धमादिशेत् ॥१०॥
दध्ना सौवर्चलं जाजी मधुकं नीलमुत्पलम्
पिबेत्क्षौद्र युतं नारी वातासृग्दरशान्तये ॥११॥
मधुकं कर्षमेकं तु कर्षकाञ्च सितां तथा
तण्डुलोदकसम्पिष्टां लोहित प्रदरे पिबेत्
बलां कङ्कतिकाऽख्या या तस्या मूलं सुचूर्णितम्
लोहितप्रदरे खादेच्छर्करामधुसंयुतम्
शुचिस्थाने व्याघ्रनख्या मूलमुत्तरदिग्भवम्
नीतमुत्तरफल्गुन्यां कटिबद्धं हरेदसृक् ॥१२॥
रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रा न्वितं तण्डुलतोयपीतम्
असृग्दरं सर्वभवं निहन्ति श्वासञ्च भार्गी सह नागरेण ॥१३॥
अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम्
यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनम् ॥१४॥
कुशमूलं समुद्धृत्य पेषयेत्तडुलाम्बुना
एतत्पीत्वा त्र्यहं नारी प्रदरात्परिमुच्यते ॥१५॥
क्षौद्र युक्तं फलरसमौदुम्बरभवं पिबेत्
असृग्दरविनाशाय सशर्करपयोऽन्नभुक् ॥१६॥
अलाबुफलचूर्णस्य शर्करासहितस्य च
मधुना मोदकं कृत्वा खादेत्प्रदरशान्तये ॥१७॥
दार्वीरसाञ्जनकिरातवृषाब्दबिल्वसक्षौद्र चन्दनदिनेशभवप्रसूनैः
क्वाथः कृतो मधुयुतो विधिना निपीतो रक्तं सितञ्च सरुजं प्रदरं निहन्ति
रक्तपित्ताधिकारोक्तं हितं कूष्माण्डखण्डकम् ॥१८॥
इत्यष्टषष्टितमः प्रदराधिकारः समाप्तः ॥६८॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP