चतुर्थः भागः - बालरोगाधिकारः

भावप्रकाशसंहिता


अथैकसप्ततितमो बालरोगाधिकारः ॥७१॥
बालग्रहा अनाचारात्पीडयन्ति शिशुं यतः
तस्मात्तदुपसर्गेभ्यो रक्षेद्बालं प्रयत्नतः  ॥१॥
स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च
शकुनी रेवती चैव पूतना चान्धपूतना ॥२॥
पूतना शीतपूर्वा च तथैव मुखमण्डिका
नवमो नैगमेयश्च प्रोक्ता बालग्रहा अमी ॥३॥
नव स्कन्दादयः प्रोक्ता बालानां ये ग्रहा अमी
श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ॥४॥
एते स्कन्दस्य रक्षाऽथ कृत्तिकोमाऽग्निशूलिभिः
सृष्टाः शरवणस्थस्य रक्षितस्य स्वतेजसा ॥५॥
स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा
बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः ॥६॥
स्कन्दापस्मारसंज्ञो यः सोऽग्निना तत्समद्युतिः
स च स्कन्दसखो नाम्ना विशाख इति चोच्यते ॥७॥
ग्रहाः स्त्रीविग्रहा एते नानारूपाः प्रकीर्त्तिताः
गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः ॥८॥
नैगमेयस्तु पार्वत्या सृष्टो मेषाननो ग्रहः
कुमारधारी देवस्य गुहस्यात्मसमोऽस्ति वै ॥९॥
ततो भगवता स्कन्दे सुरसेनापतौ कृते
उपतस्थुर्ग्रहा एते दीप्तशक्तिधरं गुहम् ॥१०॥
ऊचुः प्राञ्जलयश्चैनं वत्तिर्नो दीयतामिति
तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् ॥११॥
ततो ग्रहांस्तानुवाच भगवान्भगनेत्रहृत्
तैर्यग्योनिं मानुषं च दैवञ्च त्रितयं जगत् ॥१२॥
परस्परोपकारेण वर्त्तते धार्यते तथा
देवा नरान्प्रीणयन्ति तैर्यग्योनींस्तथैव च ॥१३॥
यथाकालं प्रवृत्तैस्तु ऊष्मवर्षहिमानिलैः
इज्याऽञ्जलिनमस्कारैर्जपहोमैस्तथैव च ॥१४॥
सम्यक्प्रयुक्तैश्च नराः प्रीणयन्त्यपि देवताः
भागधेयविभक्तञ्च शेषं किञ्चिन्न विद्यते ॥१५॥
तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति ॥१६॥
कुलेषु येषु नेज्यन्ते देवाः पितर एव च
ब्राह्मणः साधवो वाऽपि गुरवोऽतिथयस्तथा ॥१७॥
निवृत्तशौचाचारेषु तथा कुत्सितवृत्तिषु
निवृत्तभिक्षाबलिषु भग्नकांस्यगृहेषु वा ॥१८॥
ते वै बालांश्च तांस्तान् हि ग्रहा हिंसन्त्यशङ्किताः
तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति ॥१९॥
एवं ग्रहाः समुत्पन्ना बालान् हिंसन्ति चाप्यतः
ग्रहोपसृष्टा बालाः स्युर्दुश्चिकित्स्यतमास्ततः ॥२०॥
क्षणादुद्विजते बालः क्षणात् त्रस्यति रोदिति
नखैर्दन्तैर्दारयति धात्रीमात्मानमेव च ॥२१॥
ऊर्ध्वं निरीक्षते दन्तान्खादेत्कूजति जृम्भते
भ्रुवौ क्षिपति दष्टौष्ठः फेनं वमति चासकृत् ॥२२॥
क्षामोऽति निशि जागर्त्ति शूनाङ्गो भिन्नविट्स्वरः
मत्स्यशोणितगन्धश्च न चाश्नाति यथा पुरा ॥२३॥
दुर्बलो मलिनाङ्गश्च नष्टसंज्ञः प्रजायते
सामान्यग्रहजुष्टस्य लक्षणं समुदाहृतम् ॥२४॥
स्रस्ताङ्गः क्षतजसगन्धिकस्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः
उद्विग्नः ससलिलचक्षुरल्परोदी स्कन्दार्त्तो भवति च गाढमुष्टिवर्चाः ॥२५॥
निःसंज्ञो भवति पुनर्लभेत संज्ञां संस्तब्धः करचरणैश्च नृत्यतीव
विण्मूत्रे सृजति चिरेण जृम्भमाणः फेनं वा सृजति च तत्सखाभिजुष्टः ॥२६॥
स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः सास्रवव्रणपरिपीडितः समन्तात्
स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या ॥२७॥
रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा मुखकरपाकवेदनाऽत्त
गृह्णाति व्यथिततनुश्च कर्णनासं रेवत्या भृशमभिपीडितः कुमारः ॥२८॥
विट्स्रावी स्वपिति न वासरे न रात्रौ विड्भिन्नं विसृजति काकतुल्यगन्धः
छर्द्यार्त्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः ॥२९॥
योद्वेष्टि स्तनमतिसारकासहिक्काछर्दीभिर्ज्वरसहिताभिरर्द्यमानः
दुर्वर्णः सततमथापि योऽस्रगन्धिस्तं ब्रूयाद्भिषगथ चान्धपूतनाऽत्तम् ॥३०॥
आक्रन्दत्यभिचकितं सुवेपमानः संलीनो भवति व्यथाऽन्त्रकूजयुक्तः
स्रस्ताङ्गो भृशमतिशीर्यते च शीतात् तं ब्रूयाद्भिषगथ शीतपूतनाऽत्तम् ॥३१॥
म्लानाङ्गः सरुधिरपाणिपादवक्त्रो बह्वाशी कलुषशिरावृतोदरो यः
सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरथ वक्त्रमण्डिकाऽत्त ॥३२॥
यः फेनं वमति विनम्यते च मध्ये सोद्वेगो विहसति चोर्ध्वमीक्षमाणः
कूजेच्च प्रततमथो वसासगन्धिर्निःसंज्ञो भवति स नैगमेयजुष्टः ॥३३॥
सहामुण्डितिकोदीच्यक्वाथस्नानं ग्रहापहम् ॥३४॥
सप्तच्छदामय निशाचन्दनैश्चानुलेपनम्
सर्पत्वग्लशुनं मूर्वा सर्षपारिष्टपल्लवाः ॥३५॥
विडालविडजालोम मेषशृङ्गी वचा मधु
धूपः शिशोर्ज्वरघ्नोऽयमशेषग्रहनाशनः
बालशान्तीष्टकर्माणि कार्याणि ग्रहशान्तये ॥३६॥
वचा कुष्ठं तथा ब्राह्मी सिद्धार्थकमथापिच
सारिवा सैन्धवं चैव पिप्पली घृतमष्टमम्
सिद्धं घृतमिदं मेध्यं पिबेत्प्रातर्दिने दिने
दृढस्मृतिः क्षिप्रमेधाः कुमारो बुद्धिमान्भवेत् ॥३७॥
न पिशाचा न रक्षांसि न भूता न च मातरः
न भवन्ति कुमाराणां पिबतामष्टमङ्गलम् ॥३८॥
विशिष्टग्रहजुष्टबालकचिकित्सा
स्कन्दग्रहोपसृष्टस्य कुमारस्य प्रशान्तये
वातघ्नद्रुमपत्राणां क्वाथेन परिषेचनम् ॥३९॥
देवदारुणि रास्नायां मधुरेषु गणेषु च
सिद्धं सर्पिश्च सक्षीरं पातुमस्मै प्रदापयेत् ॥४०॥
सर्षपाः सर्पनिर्मोको वचा काकादनी घृतम्
उष्ट्राजाविगवां चापि रोमाण्युद्धूपनं भवेत् ॥४१॥
सोमवल्लीमिन्द्र वृक्षं वन्दाकं बिल्वजं शमीम्
मृगादन्याश्च मूलानि ग्रथितानि विधारयेत् ॥४२॥
रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धान् विविधांश्च भक्ष्यान्
घण्टां च देवाय बलि निवेद्य सकुक्कुटं स्कन्दगृहे हिताय ॥४३॥
स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात्परं शालियवैर्नवैस्तु अं
गायत्रिपूताभिरथाद्भिरग्निं प्रज्वालयेदाहुतिभिश्च धीमान् ॥४४॥
रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम्
अहन्यहनि कर्त्तव्या या भिषग्भिरतन्द्रि तैः ॥४५॥
तपसां तेजसां चैव यशसां वपुषां तथा
निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ॥४६॥
ग्रहः सेनापतिर्देवो देवसेनापतिर्विभुः
देवसेनारिपुहरः पातु त्वां भगवान्गुहः ॥४७॥
देवदेवस्य महतः पावकस्य च यः सुतः
गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छतु ॥४८॥
रक्तमाल्याम्बरधरो रक्तचन्दनभूषितः
रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः ॥४९॥
बिल्वः शिरीषो गोलोमी सुरसाऽदिश्च यो गणः
परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ॥५०॥
सुरसा श्वेतसुरसा पाठा फज्जी फणिज्जकः
सौगन्धिकं भूस्तृणको राजिका श्वेतबर्बरी ॥५१॥
कट्फलं खरपुष्पा च कासमर्दश्च शल्लकी
विडङ्गमथ निर्गुण्डी कर्णिकार उदुम्बरः ॥५२॥
बला च काकमाची च तथा च विषमुष्टिका
कफकृमिहरः ख्यातः सुरसाऽदिरयं गणः ॥५३॥
अष्टमूत्रविपक्वं च तैलमभ्यञ्जने हितम् ॥५४॥
गोऽजाविमहिषाश्वानां खरोष्ट्रकरिणां तथा
मूत्राष्टकमिदं ख्यातं सर्वशास्त्रेषु सम्मतम् ॥५५॥
क्षीरवृक्षकषायेण काकोल्यादिगणेन च
विपक्तव्यं घृतं पश्चाद्दातव्यं पयसा सह ॥५६॥
काकोली क्षीरकाकोली जीवकर्षभकौ तथा
ॠद्धिर्वृद्धिस्तथा मेदा महामेदा गुडूचिका ॥५७॥
मुद्गपणी माषपर्णी पद्मकं वंशलोचना
शृङ्गी प्रपौण्डरीकञ्च जीवन्ती मधुयष्टिका ॥५८॥
द्रा क्षा चेति गणो नाम्ना काकोल्यादिरुदीरितः
स्तन्यकृद् बृंहणो वृष्यः पित्तरक्तमलापहः ॥५९॥
उत्सादनं वचा हिङ्गुयुक्तमत्र प्रकीर्त्तितम्
गृध्रोलूकपुरीषाणि केशा हस्तिनखो घृतम् ॥६०॥
वृषभस्य च रोमाणि योज्यान्युद्धूपने सदा
अनन्तां कुक्कुटीं बिम्बीं मर्कटीञ्चापि धारयेत् ॥६१॥
पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः
मुद्गौदनं निवेद्याथ स्कन्दापस्मारिणे वटे ॥६२॥
चतुष्पथे कारयेच्च स्नानं तेन ततः पठेत् ॥६३॥
स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा
विशाखः स शिशोरस्य शिवायास्तु शुभाननः ॥६४॥
शकुनिग्रहजुष्टस्य कार्यं वैद्येन जानता
वेतसाम्रकपित्थानां क्वाथेन परिषेचनम् ॥६५॥
ह्रीवेरमधुकोशीरसारिवोत्पलपद्मकैः
लोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम् ॥६६॥
स्कन्दग्रहोक्ता धूपाश्च हिता अत्र भवन्ति हि
स्कन्दापस्मारशमनं घृतमत्रापि पूजितम् ॥६७॥
शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाम्
लक्ष्मणां सहदेवीं च बृहतीं चापि धारयेत् ॥६८॥
तिलतण्डुलकं माल्यं हरितालं मनः शिला
बलिरेष करञ्जेतु निवेद्यो नियतात्मना ॥६९॥
निकुञ्जे च प्रयोक्तव्यं स्नानमस्य यथाविधि
श्वेताशिरीषगन्धाश्मधवगुग्गुलुसर्षपैः ॥७०॥
सिद्धमभ्यञ्जने तैलं धारणं पूर्वमेव तु
शुकुनिग्रहशान्त्यर्थं प्रदेहं कारयेद्धितम् ॥७१॥
कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः
निकुम्भोक्तेन विधिना स्नापयेत्तं ततः पठेत् ॥७२॥
अन्तरिक्षचरा देवी सर्वालङ्कारभूषिता
अधोमुखी सूक्ष्मतुण्डा शकुनी ते प्रसीदतु ॥७३॥
दुर्दर्शना महामाया पिङ्गाङ्गी भैरवस्वरा
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ॥७४॥
अश्वगन्धाऽजशृङ्गी च सारिवाऽथ पुनर्नवा
सहा विदारी ह्येतासां क्वाथेन परिषेचनम् ॥७५॥
तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसे तथा
पलङ्कषायां नलदे तथा गौरकदम्बके ॥७६॥
धवाश्वकर्णककुभशल्लकीतिन्दुकेषु च
काकोल्यादौ गणे चापि सिद्धं सर्पिः पिबेच्छिशुः ॥७७॥
कुलत्थं शङ्खचूर्णञ्च प्रदेहः साश्वगन्धिकः
गृध्रोलूकपुरीषाणि यवान् यवफलो घृतम्
सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः ॥७८॥
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं दधि
बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना ॥७९॥
स्नानं धात्रीकुमाराभ्यां सङ्गमे कारयेद्भिषक्
नानाशस्त्रधरा देवी चित्रमाल्यानुलेपना ॥८०॥
चॄलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु
उपासते यां सततं देव्यो विविधभूषणाः ॥८१॥
लम्बा कराला विनता तथैव बहुपुत्रिका
रेवती शुष्कनासा च तुभ्यं देवी प्रसीदतु ॥८२॥
कपोतवङ्का श्योनाको वरुणः पारिभद्र कः
आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ॥८३॥
नवा पयस्या गोलोमी हरितालं मनः शिला
कुष्ठं सर्जरसश्चैव तैलार्थे कल्क इष्यते ॥८४॥
हितं घृतं तुगाक्षीर्या संसिद्धं मधुकेन च
कुष्ठंतालीसखदिराः स्पन्दनोऽजुन एव च ॥८५॥
पनसः ककुभश्चापि मज्जानो बदरस्य च
कुंक्कुटास्थि घृतं चापि धूपनं सह सर्षपैः ॥८६॥
काकादनीं चित्रफलां बिम्बीं गुञ्जाञ्च धारयेत् ॥८७॥
मत्स्यौदनं बलि दद्यात्कृशरां पललं तथा
शरावसम्पुटे कृत्वा तस्य शून्ये गृहे भिषक् ॥८८॥
उत्सृष्टान्नाभिषिक्तस्य शिशोः स्नपनमिष्यते
कुष्ठतालीसखदिरं चन्दनं स्पन्दनं तथा ॥८९॥
देवदारु वचा हिङ्गु कुष्ठं गिरिकदम्बकम्
एला हरेणवश्चापि योज्या उद्धूपने सदा ॥९०॥
मलिनाम्बरसंवीता मलिना रूक्षमूर्द्धजा
शून्यागारस्थिता देवी दारकं पातु पूतना ॥९१॥
तिक्तद्रुमाणां पत्रेषु क्वाथः कार्योऽभिषेचने ॥९२॥
निम्बः पटोलः क्षुद्रा च गुडूची वासकस्तथा
विसर्पकुष्ठनुत्ख्यातो गणोऽय पञ्चतिक्तकः ॥९३॥
पिप्पली पिप्प्पलीमूलं चित्रको मधुको मधु
शालिपर्णी बृहत्यौ च घृतार्थं च समाहरेत्
सर्वगन्धः प्रदेहश्च गात्रे चाक्ष्णोश्च शीतलैः ॥९४॥
पुरीषं कौक्कुटं केशाश्चर्म सर्पभवं तथा
जीर्णं चाभीक्ष्णशो वासो धूपनायोपकल्पयेत् ॥९५॥
कुक्कुटीं मर्कटीं बिम्बीमनन्तां चापि धारयेत्
मांसं सामं तथा पक्वं शोणितं च चतुष्पथे ॥९६॥
निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः
शिशोश्च स्नपनं कुर्यात्सर्वगन्धोदकैः शुभः
कराला पिङ्गला मुण्डा कषायाम्बरसंवृता
देवी बालमिमं प्रीता रक्ष त्वं गन्धपूतने ॥९७॥
गोमूत्रं चाश्वमूत्रञ्च मुस्तां चामरदारु च
कुष्ठञ्च सर्वगन्धांश्च तैलार्थमवधारयेत् ॥९८॥
रोहिणीनिम्बखदिरपलाशककुभत्वचः
निक्वाथ्य तस्मिन्निक्वाथे सक्षीरे विपचेद् घृतम् ॥९९॥
गृध्रोलूकपुरीषाणि बस्तगन्धामहित्वचम्
निम्बपत्राणि च तथा धूपनार्थं समाहरेत् ॥१००॥
धारयेदपि गुञ्जां च बलां काकादनीं तथा
नद्यां मुद्गौदनैश्चापि तर्पयेच्छीतपूतनाम् ॥१०१॥
जलाशयान्ते बालस्य स्नपनं चोपदिश्यते ॥१०२॥
देव्यै देयश्चोपहारो वारुणी रुधिरं तथा
मुद्गौदनाशिनी देवी सुराशोणितपायिनी
जलाशयरता नित्यं पातु त्वां शीतपूतना ॥१०३॥
कपित्थं बिल्वतर्कारीवासा गन्धर्वहस्तकः
कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने ॥१०४॥
स्वरसैर्भृङ्गवृक्षाणां तथैव हयगन्धया
तैलं वसां च संयोज्य पचेदभ्यञ्जनं शिशोः ॥१०५॥
बचा सर्जरसं कुष्ठं सर्पिश्चोद्धूपने हितम्
वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा ॥१०६॥
मनः शिलां चोपहरेद् गोष्ठमध्ये बलि ततः ॥१०७॥
पायसं सपुरोडाशं तद्वल्यर्थमुपाहरेत्
मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् ॥१०८॥
अलङ्कृता कामवती सुभगा कामरूपिणी
गोष्ठमध्यालया या तु पातु त्वां मुखमण्डिका ॥१०९॥
बिल्वाग्निमन्थपूतीकैः कार्यं स्यात्परिषेचितम् ॥११०॥
प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः
पचेत्तैलं सगोमूत्रं दधिमस्त्वम्लकाञ्जिकैः ॥१११॥
वचां वयस्यां जटिलां गोलोमीञ्चापि धारयेत् ॥११२॥
उत्सादनं हितञ्चात्र स्कन्दापस्मारनाशनम्
मर्कटोलूकगृध्राणां पुरीषाणि प्रधूपनम्
धूमः सुप्तजने कार्यो बालस्य हितमिच्छता
तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि
कौमारभृत्ये मेषाय प्लक्षमूले निवेदयेत् ॥११३॥
अधस्तात्क्षीरवृक्षस्य स्नपनञ्चोपदिश्यते ॥११४॥
अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः
बालपालयिता देवो नैगमेयोऽभिरक्षतु ॥११५॥
धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा
दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ॥११६॥
मिथ्याऽहारविहारिण्या दुष्टा वातादयस्त्रयः
दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः ॥११७॥
वातदुष्टं शिशुः स्तन्यं पिबन्वातगदातुरः
क्षामस्वरः कृशाङ्गः स्याद् बद्धविण्मूत्रमारुतः ॥११८॥
स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान्
तृष्णालुरुष्णसर्वाङ्गः पित्तदुष्टं पयः पिबन् ॥११९॥
श्लेष्मदुष्टं पिबन्क्षीरं लालालुः श्लेष्मरोगवान्
निद्रा ऽदितो जडः शूनो रक्ताक्षश्छर्दनः शिशुः ॥१२०॥
द्वन्द्वजे द्वन्द्वजं रूपं सर्वजे सर्वलक्षणम् ॥१२१॥
ज्वराद्या व्याधयः सर्वे महतां ये पुरेरिताः
बालानामपि ते तद्वत् बोद्धव्या भिषगुत्तमैः ॥१२२॥
बालानामेव ये रोगा भवन्ति महतां न च
तालुकण्टकमुख्यांस्तानवधारय यत्नतः ॥१२३॥
तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम्
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते ॥१२४॥
तालुपातः स्तनद्वेषः कृच्छ्रात्पानं शकृद्द्र वम्
तृडक्षिकण्ठास्यरुजा ग्रीवादुर्बलता वमिः ॥१२५॥
वीसर्पस्तु शिशोः प्राणनाशनः शीर्षवस्तिजः
पद्मवर्णो महापद्मरोगो दोषत्रयोद्भवः
शङ्खाभ्यां हृदयं याति हृदयाच्च गुदं व्रजेत् ॥१२६॥
कुकूणकं क्षीरदोषाच्छिशूनामेव वर्त्मनि
जायते सरुजं नेत्रं कण्डूरं प्रस्रवेद् बहु ॥१२७॥
शिशुः कुर्याल्ललाटाक्षिकूटनासाप्रघर्षणम्
शक्तो नार्कप्रभां द्र ष्टुं न चाक्ष्युन्मीलनक्षमः ॥१२८॥
वातेनाध्मापिता नाभिः सरुजा तुण्डिरुच्यते
बालस्य गुदपाकाख्यो ब्याधिः पित्तेन जायते ॥१२९॥
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
स्विन्ने वास्नाप्यमानस्य कण्डू रक्तकफोद्भवा ॥१३०॥
कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते
एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम् ॥१३१॥
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा
कफवातोत्थिता ज्ञेया बालानामजगल्लिका ॥१३२॥
मातुः कुमारो गर्भिण्याःस्तन्यं प्रायः पिबन्नपि
कासाग्निसादवमथुतन्द्रा कार्श्यारुचिभ्रमैः ॥१३३॥
युज्यते कोष्ठवृद्ध्या च तमाहुः पारिगर्भिकम्
रोगं परिभवाख्यं च तत्र युञ्जीत दीपनम् ॥१३४॥
दन्तोद्भेदः शिशोः सर्वरोगाणां कारणं स्मृतम्
विशेषाज्वरविड्भेदकासच्छर्दिशिरोरुजाम् ॥१३५॥
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते ॥१३६॥
भैषज्यं पूर्वमुद्दिष्टं महतां यज्ज्वरादिषु
तदेव कार्यं बालानां किन्तु दाहादिकं विना ॥१३७॥
त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च ते
अतस्तदेव भैषज्यं मात्रा तत्र कनीयसी ॥१३८॥
बालस्य कनीयसी मात्रामाह विश्वामित्रः
विडङ्गफलमात्रं तु जातमात्रस्य भेषजम्
अनेनैव प्रमाणेन मासि मासि प्रवर्द्धयेत् ॥१३९॥
प्रथमे मासि बालाय देया भैषज्यरक्तिका
अवलेह्या तु कर्त्तव्या मधुक्षीरसिताघृतैः ॥१४०॥
एकैकां वर्द्धयेत्तावद्यावत्संवत्सरो भवेत्
तदूर्ध्वं माषवृद्धिः स्याद्यावत्षोडश वत्सराः ॥१४१॥
ततः स्थिरा भवेत्तावद्यावद्वर्षाणि सप्ततिः
ततो बालकवन्मात्रा ह्रासनीया शनैः शनैः ॥१४२॥
चूर्णकल्कावलेहानामियं मात्रा प्रकीर्त्तिता
कषायस्य पुनः सैव विज्ञातव्या चतुर्गुणा ॥१४३॥
क्षीरपस्य शिशोर्देयमौषधं क्षीरसर्पिषा
धात्र्यास्तु केवलं देयं न क्षीरेणापि सर्पिषा ॥१४४॥
येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः
तेषु तत्कल्पसंलिप्तौ पाययेत्तं शिशुं स्तनौ ॥१४५॥
अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते
मुहुर्मुहुः स्पृशति तं स्पृश्यमानेन रोदिति ॥१४६॥
निमीलिताक्षो मूर्द्धस्थे रोगे नो धारयेच्छिरः
वस्तिस्थे मूत्रसङ्गार्त्तः क्षुधा तृडपि गच्छति ॥१४७॥
विण्मूत्रसङ्गवैकल्याच्छर्द्याध्मानान्त्रकूजनैः
कोष्ठे व्याधीन्विजानीयात्सर्वत्रस्थांश्च रोदनैः ॥१४८॥
सर्वं निवार्यते बाले स्तन्यं नैव निवार्यते
मात्रया लङ्घयेद्धात्रीं शिशोरेतद्धि लङ्घनम् ॥१४९॥
भद्र मुस्ताऽभयानिम्बपटोलमधुकैः कृतः
क्वाथः कोष्णः शिशोरेष निःशेषज्वरनाशनः ॥१५०॥
वनकृष्णाऽरुणाशृङ्गीचूर्णं क्षौद्रे ण संयुतम्
शिशोर्ज्वरातिसारघ्नं कासं श्वासं वमिं हरेत् ॥१५१॥
बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पलद्यं च
क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु ॥१५२॥
समङ्गाधातकीलोध्रसारिवाभिः शृतं जलम्
दुर्धरेऽपि शिशोर्देयमतीसारे समाक्षिकम् ॥१५३॥
विडङ्गान्यजमोदा च पिप्पलीतण्डुलानि च
एषामालोड्य चूर्णानि सुखं तप्तेन वारिणा
आमे प्रवृत्तेऽतीसारे कुमारं पाययेद्भिषक् ॥१५४॥
मोचारसः समङ्गा च धातकी पद्मकेशरम्
पिष्टैरेतैर्यवागूः स्याद्र क्तातीसारनाशिनी ॥१५५॥
नागरातिविषामुस्तबालकेन्द्र यवैः शृतम्
कुमारं पाययेत्प्रातः सर्वातीसारनाशनम् ॥१५६॥
लाजा सयष्टी मधुका शर्करा क्षौद्र मेव च
तण्डुलोदकयोगेन क्षिप्रं हन्ति प्रवाहिकाम् ॥१५७॥
रजनी सरलो दारु बृहती गजपिप्पली
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा ॥१५८॥
दीपनं ग्रहणी हन्ति मारुतार्त्तिं सकामलाम्
ज्वरातीसारपाण्डघ्नुं बालानां सर्वरोगनुत् ॥१५९॥
मुस्तकातिविषावासाकणाशृङ्गीरसं लिहेत्
मधुना मुच्यते बालः कासैः पञ्चभिरुत्थितैः ॥१६०॥
व्याघ्रीसुमनसं जातीकेशरैरवलेहिका
मधुना चिरसञ्जाताञ्छिशोः कासान्व्यपोहति ॥१६१॥
धान्यं च शर्करायुक्तं तण्डुलोदकसंयुतम्
पानमेतत्प्रदातव्यं कासश्वासापहं शिशोः ॥१६२॥
द्रा क्षावासाऽभयाकृष्णाचूर्णं क्षौद्रे ण सर्पिषा
लीढं श्वासं निहन्त्याशु कासञ्च तमकं तथा ॥१६३॥
चूर्णं कटुकरोहिण्या मधुनासह योजयेत्
हिक्कां प्रशमयेत्क्षिप्रं छर्दिं चापि चिरोत्थिताम् ॥१६४॥
आम्रास्थिलाजसिन्धूत्थं सक्षौद्रं छर्दिनुद्भवेत् ॥१६५॥
छर्द्यां पीतं तु मेध्यन्तु स्तन्येन मधुसर्पिषा
द्विवार्त्ताकीफलरसं पञ्चकोलञ्च लेहयेत् ॥१६६॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ॥१६७॥
घृतेन सिन्धुविश्वैलाहिङ्गुभार्गीरजो लिहन्
आनाहं वातिकं शूलं हन्यात्तोयेन वा शिशुः ॥१६८॥
कणोषणासिताक्षौद्र सूक्ष्मैलासैन्धवैः कृतः
मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः ॥१९॥
यदा तु दुर्बलो बालः खादन्नपि च वह्निमान्
विदारीकन्दगोधूमयवचूर्णं घृतप्लुतम्
खादयेत्तदनु क्षीरं शृतं समधुशर्करम् ॥१७०॥
मुस्तं कूष्माण्डबीजानि भद्र दारुकलिङ्गकान्
पिष्ट्वा तोयेन संलिप्तं लेपोऽय शोथहृच्छिशोः ॥१७१॥
पटोलत्रिफलाऽरिष्टहरिद्रा क्वथितं पिबेत्
क्षतवीसर्पविस्फोटज्वराणां शान्तये शिशुः ॥१७२॥
सारिवातिललोध्राणां कषायो मधुकस्य च
संस्राविणि मुखे शस्तो धावनार्थं शिशोः सदा ॥१७३॥
अश्वत्थत्वग्दलक्षौद्रै र्मुखपाके प्रलेपनम् ॥१७४॥
पिप्पलीत्रिफलाचूर्णं घृतक्षौद्र परिप्लुतम्
बालो रोदिति यस्तस्मै लीढं दद्यात्सुखावहम् ॥१७५॥
हरीतकी वचा कुष्ठं कल्कं माक्षिकसंयुतम्
पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात् ॥१७६॥
फलत्रिकं लोध्रपुनर्नवे च सशृङ्गबेरं बृहतीद्वयं च
आलेपनं श्लेष्महरं सुखोष्णं कुकूणके कार्यमुदाहरन्ति ॥१७७॥
मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा
स्वेदयेदुत्थितां नाभिं शोथस्तेनोपशाम्यति ॥१७८॥
नाभिपाके निशालोध्रप्रियंगुमधुकैः शृतम्
तैलमभ्यञ्जने शस्तमेभिश्चाप्यवधूलनम् ॥१७९॥
दग्धेन छागशकृता नाभिपाकेऽवचूर्णनम्
त्वक्चूर्णैः क्षीरिणा वाऽपि कुर्याच्चन्दनरेणुना ॥१८०॥
गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम्
रसाञ्जनं विशेषेण पानालेपनयोर्हितम्
शङ्खयष्ट्यञ्जनैश्चूर्णं शिशूनां गुदपाकनुत् ॥१८१॥
शङ्खसौवीरयष्ट्याह्वैर्लेपो देयोऽहिपूतने ॥१८२॥
पारिगर्भिकरोगे तु युज्यते वह्निदीपनम् ॥१८३॥
दन्तपालद्यं तु मधुना चूर्णेन प्रतिसारयेत्
धातकीपुष्पपिप्पल्योर्धात्रीफलरसेन वा ॥१८४॥
दन्तोत्थानभवा रोगाः पीडयन्ति न बालकम्
जाते दन्ते हि शाम्यन्ति यतस्तद्धेतुका गदाः ॥१८५॥
सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा
मत्स्याक्षकं शङ्खपुष्पी मधु सर्पिः सकाञ्चनम्
अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा
सहेमचूर्णं कैटर्यं श्वेता दूर्वा घृतं मधु ॥१८६॥
चत्वारोऽभिहिताः प्राशा अर्द्धश्लोकसमापनाः
कुमाराणां वपुर्मेधाबलपुष्टिकराः स्मृताः ॥१८७॥
लाक्षारसे समे तैलं मस्तुन्यथ चतुर्गुणे
रास्नाचन्दनकुष्टाह्वावाजिगन्धानिशायुतैः ॥१८८॥
शताह्वादारुयष्ट्याह्व मूर्वातिक्ताहरेणुभिः
संसिद्धं ज्वररक्षोघ्नं बलवर्णकरं शिशोः ॥१८९॥
बालरोगाधिकारः समाप्तः

समाप्तञ्चेदं मध्यखण्डम्
पूर्व खण्डम्


N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP