चतुर्थः भागः - क्षुद्ररोगाधिकारः

भावप्रकाशसंहिता


अथैकषष्टितमः क्षुद्र रोगाधिकारः ॥६१॥
क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः
पित्तञ्च केशान्पचति पलितं तेन जायते ॥१॥
लोहचूर्णस्य कर्षं तु दशार्द्धं चूतमज्जतः
धात्रीपलद्वयं पथ्ये द्वे तथैकं बिभीतकम् ॥२॥
पिष्ट्वा लोहमये भाण्डे स्थापयेन्निशि वासयेत्
लेपोऽयमचिराद्धन्ति पलितं नात्र संशयः ॥३॥
काश्मर्या मूलमादौ सहचरकुसुमं केतकस्यापि मूलं
लौहं चूर्ण सभृङ्गं त्रिफलपलयुतं तैलमेभिः पचेद्यः
कृत्वा लौहस्य भाण्डे क्षितितलनिहितं स्थापयेन्मासमेकं
केशाः काशप्रकाशा अपि मधुपनिभा अस्य योगाद्भवन्ति ॥४॥
त्रिफला नीलिकापत्रं भृङ्गराजोऽयसो रजः
अविमूत्रेण संपिष्टं लेपात्कृष्णीकरं परम् ॥५॥
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ॥६॥
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः
तदिन्द्र लुप्तं खालित्यं रुह्येति च विभावयेत् ॥७॥
तिक्तपटोलीपत्रस्वरसैर्घृष्ट्वा शमं याति
चिरकालजाऽपि रुह्या नियतं दिवसत्रयेणापि ॥८॥
गोक्षुरस्तिलपुष्पाणि तुल्ये च मधुसर्पिषी
शिरः प्रलेपितं तेन केशैः समुपचीयते ॥९॥
हस्तिदन्तमसीं कृत्वा छागीदुग्धं रसाञ्जनम्
लोमान्येतेन जायन्ते लेपात्पाणितलेष्वपि ॥१०॥
यष्टीन्दीवरमृद्वीकातैलाज्यक्षीरलेपनैः
इन्द्र लुप्तं शमं याति केशाः स्युश्च घना दृढाः ॥११॥
जातीकरञ्जवरुण करवीराग्निपाचितम्
तैलमभ्यञ्जनाद्धन्यादिन्द्र लुप्तं न संशयः ॥१२॥
स्नुहीपयः पयोऽकस्य लाङ्गली मार्कवो विषम्
अजामूत्रं सगोमूत्रं रक्तिका सेन्द्र वारुणी ॥१३॥
सिद्धार्थकस्तीक्ष्णगन्धा सम्यगेभिर्विपाचितम्
तैलं भवति नियमात्खालित्यव्याधिनाशनम् ॥१४॥
दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते
मारुतश्लेष्मकोपेन विद्याद्दारुणकन्तु तत् ॥१५॥
कार्यो दारुणके मूर्ध्नि प्रलेपोमधुसंयुतः
प्रियालबीजमधुककुष्ठमाषैः ससैन्धवैः ॥१६॥
आम्रबीजं तथा पथ्या द्वयं स्यान्मात्रया समम्
दुग्धेन पिष्टं तल्लेपो दारुणं हन्ति दारुणम्
दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं हरेत् ॥१७॥
गुञ्जाफलैः शृतं तैलम्भृङ्गराजरसेन च
कण्डूदारुणहृत्कुष्ठकापालव्याधिनाशनम् ॥१८॥
अरुंषि बहुवक्त्राणि बहुक्लेदीनि मूर्द्धनि
कफासृक्कृमिकोपेन तानि विद्यादरुंषिकाम् ॥१९॥
नीलोत्पलस्य किञ्जल्को धात्रीफलसमन्वितः
यष्टीमधुकयुक्तश्च लेपाद्धन्यादरूषिकाम् ॥२०॥
त्रिफलाऽयोरजोयष्टीमार्कवोत्पलसारिवाः
सैन्धवं पक्वमेतैस्तु तैलं हन्यादरुंषिकाम् ॥२१॥
पिडकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम्
सर्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् ॥२२॥
पैत्तिकस्य विसर्पस्य याचिकित्सा प्रकीर्त्तिता
तयैव भिषगेताञ्च चिकित्सेदिरिवेल्लकाम् ॥२३॥
कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम्
स्थिरां पनसिकां तान्तु विद्याद्वातकफोत्थिताम् ॥२४॥
भिषक् पनसिकां पूर्वं स्वेदयेदथ लेपयेत् ॥२५॥
कल्कैर्मनः शिलाकुष्ठनिशातालकदारुभिः
पक्वां विज्ञाय तां भित्त्वा व्रणवत्समुपाचरेत् ॥२६॥
वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः
स्थिरो मन्दरुजः स्निग्धः ज्ञेयः पाषाणगर्दभः ॥२७॥
पाषाणगर्दभं पूर्वं स्वेदयेत्कुशलो भिषक्
ततः पनसिकाप्रोक्तैः कल्कैरुष्णैः प्रलेपयेत् ॥२८॥
गतश्लैष्मिकशोथघ्नैः कल्कैरन्यैश्च लेपयेत्
परिपाकगतं भित्वा व्रणवत्तमुपाचरेत् ॥२९॥
जलौकोभिर्हृते रक्ते स शाम्यति विनौषधम्
एतत्स्थलेषु बहुषु प्रेक्षितं लिखितं ततः ॥३०॥
शाल्मलीकण्टकप्रख्याः कफमारुतरक्तजाः
जायन्ते पिडका यूनां ज्ञेयास्ता मुखदूषिकाः ॥३१॥
अथ मुखदूषिकाचिकित्सा
अङ्गुलस्य चतुर्थांशो मुखलेपो विधीयते
मध्यमस्तु त्रिभागः स्यादुत्तमोऽद्धाङ्गुलो भवेत् ॥३२॥
स्थितिकालोऽपि तस्योक्तो यावत्कल्को न शुष्यति
शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम् ॥३३॥
लोध्रधान्यवचालेपस्तारुण्यपिडकाऽपहः
तद्वद्ग्रोरोचनायुक्तं मरिचं मुखलेपितम् ॥३४॥
सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम्
वमनञ्च निहन्त्याशु पिडकां यौवनोद्भवाम् ॥३५॥
केवलाः पयसा पिष्टास्तीक्ष्णाः शाल्मलिकण्टकाः
आलिप्तं त्र्यहमेतेन भवेत्पद्मोपमं मुखम् ॥३६॥
क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः
मुखमागत्य सहसा मण्डलं प्रसृजत्यतः
नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ॥३७॥
कृष्णमेवङ्गुणं वक्त्रे गात्रे वा नीलिकां विदुः ॥३८॥
शिरोवेधैः प्रलेपैश्च तथाऽभ्यङ्गैरुपाचरेत्
व्यङ्गं च नीलिकां वाऽपि न्यच्छञ्च तिलकालकम् ॥३९॥
वटङ्कुरा मसूराश्च प्रलेपाद्व्यङ्गनाशनम्
व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ॥४०॥
अथवा लेपनं शस्तं शशस्य रुधिरेण च
व्यङ्गहृद्वरुणत्वक्स्यादजामूत्रेण पेषिता ॥४१॥
जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम्
अर्कक्षीरहरिद्रा भ्यां मर्दयित्वा प्रलेपनात्
मुखकार्ष्ण्यं शमं याति चिरकालोद्भवं ध्रुवम् ॥४२॥
मसूरैः क्षीरसम्पिष्टैर्लिप्तमास्यं घृतान्वितैः
सप्तरात्राद्भवेत्सत्यं पुण्डरीकदलोपमम्
वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् ॥४४॥
कुष्ठं कालीयकं लोध्रमेभिर्लैपं प्रयोजयेत्
युवानपिडकानां तु व्यङ्गानां तु विनाशनम्
स्यादेतेन मुखञ्चापि वर्जितं नीलिकादिभिः ॥४५॥
कुङ्कुमं चन्दनं लोघ्रं पतङ्गं रक्तचन्दनम्
कालीयकमुशीरञ्च मञ्जिष्ठा मधुयष्टिका ॥४६॥
पत्रकं पद्मकं पद्मं कुष्ठं गोरोचना निशा
लाक्षा दारुहरिद्रा च गैरिकं नागकेशरम् ॥४७॥
पलाशकुसुमञ्चापि प्रियङ्गुश्च वटाङ्कुराः
मालती च मधूच्छिष्टं सर्षपः सुरभिर्वचा ॥४८॥
चतुर्गुणपयः पिष्टैरेतैरक्षमितैः पृथक्
पचेन्मन्दाग्नि वैद्यस्तैलं प्रस्थद्वयोन्मितम् ॥४९
वदनाभ्यञ्जनादेतद्व्यङ्गं नीलिकया सह
तिलकं माषकं न्यच्छं नाशयेन्मुखमदूषिकाम् ॥५०॥
पद्मिनीकण्टकञ्चापि हरेज्जतुमणिं तथा
विदध्याद्वदनं पूर्णचन्द्र मण्डलसुन्दरम् ॥५१॥
ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः
ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैवगतः प्रवृद्धिम् ॥५२॥
मुखैरनेकैः स्रुतितोदवद्भिर्विसर्पवत्सर्पति चोन्नताग्रैः
वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ॥५३॥
पाणिपादोपरिष्टात्तु च्छिद्रै र्बहुभिरावृतम्
वल्मीकं यत्सशोफं स्याद्वर्ज्यं तद्धि विजानता ॥५४॥
शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत्
विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत् ॥५५॥
वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम्
तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक् ॥५६॥
कुलत्थकानां मूलैश्च गुडूच्या लवणेन च
आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च ॥५७॥
श्यामामूलैःसपललैः सक्तुमिश्रैः प्रलेपयेत्
सुस्निग्धैश्च सुखोष्णैश्च भिषक्तमुपनाहयेत् ॥५८॥
पक्वं तदा विजानीयाद्गतीः सर्वायथाक्रमम्
अभिज्ञाय गतिं छित्वा प्रदिह्यान्मतिमान्भिषक् ॥५९॥
संशोध्यदुष्टमांसानि क्षारेण प्रतिसारयेत्
व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान्भिषक् ॥६०॥
मनः शिलालभल्लातसूक्ष्मैलाऽगुरुचन्दनैः
जातीपल्लवतक्रैश्च निम्बतैलं विपाचयेत् ॥६१॥
वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुव्रणम् ॥६२॥
बाहुकक्षांऽसपार्श्वेषु कृष्णस्फोटां सवेदनाम्
पित्तप्रकोपसम्भूतां कक्षां तामिति निर्दिशेत् ॥६३॥
एकान्तु तादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम्
त्वग्जातां पित्तकोपेन गन्ध मालां प्रचक्षते ॥६४॥
कक्षाञ्च गन्ध मालाञ्च चिकित्सेच्च चिकित्सकः
पैत्तिकस्य विसर्पस्य क्रियया पूर्वमुक्तया ॥६५॥
कक्षाभागेषु विस्फोटा जायन्ते मांसदारणाः
अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ॥६६॥
सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्
तामग्निरोहिणीं विद्यादसाध्यां सान्निपातिकीम् ॥६७॥
पित्तवीसर्पविधिना साधयेदग्निरोहिणीम्
रोहिण्यां लङ्घनं कुर्याद्र क्तमोक्षणरूक्षणम्
शरीरस्य च संशुद्धिं तान्तु वृद्धां परित्यजेत् ॥६८॥
विदारीकन्दवद् वृत्तां कक्षावङ्क्षणसन्धिषु
रक्तां विदारिकां विद्यात्सर्वजां सर्वलक्षणाम् ॥६९॥
विदारिकायां प्रथमं जलौकायोजनं हितम्
पाटनञ्च विपक्वायां ततो व्रणविधिः स्मृतः ॥७०॥
नखमांसमधिष्ठाय वातःपित्तञ्च देहिनाम्
करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत् ॥७१॥
अभिघातात्प्रदुष्टो यो नखो रूक्षःसितः खरः
भवेत्तं कुनखं विद्यात्कुलीरं वाभिधानतः ॥७२॥
चिप्पं रुधिरमोक्षेण शोधनेनाप्युपाचरेत्
गतोष्माणमथैनन्तु सेचयेदुष्णवारिणा ॥७३॥
शस्त्रेणापि यथायोग्यमुच्छिद्य स्रावयेत्ततः
व्रणोक्तेन विधानेन रोपयेत्तं विचक्षणः ॥७४॥
स्वरसेन हरिद्रा याः पात्रे कृत्वायसेऽभयाम्
घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्पं पुनः पुनः ॥७५॥
काश्मर्याः सप्तभिः पत्रैः कोमलैः परिवेष्टितः
अङ्गुलीवेष्टकः पुंसां ध्रुवमाशु प्रशाम्यति ॥७६॥
श्लेष्मविद्र धिकल्पेन कुनखं समुपाचरेत् ॥७७॥
नखकोटिप्रविष्टेन टङ्कणेन न शाम्यति
कुनखश्चेत्तदा शैलः सलिले प्लवतेऽपि च ॥७८॥
मर्दनात्पीडनाद्वापि तथैवाप्यभिघाततः
मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरन् ॥७९॥
तदा वातोपसृष्टन्तु तच्चर्म परिवर्त्तते
सवेदनं सदाहं च पाकञ्च व्रजति क्वचित् ॥८०॥
मणेरधस्तात्कोषस्तु ग्रन्थिरूपेण लम्बते
सरुजां वातसम्भूतां विद्यात्तां परिवर्त्तिकाम्
सकण्डूः कठिना चापि सैव श्लेष्मसमन्विता ॥८१॥
परिवर्त्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत्
त्रिरात्रं पञ्चरात्रञ्च वातघ्नैः शाल्वणादिभिः ॥८२॥
ततोऽभ्यज्य शनैश्चर्म पाटयेत्पीडयेन्मणिम्
प्रविष्टे चर्मणि मणौ स्वेदयेदुपनाहनैः ॥८३॥
दद्याद्वातहरान्वस्तीन् स्निग्धान्यन्नानि भोजयेत् ॥८४॥
अल्पीयःखां यदा हर्षाद् बलाद्गच्छेत्स्त्रियं नरः
हस्ताभिघातादथवा चर्मण्युद्वर्त्तिते बलात् ॥८५॥
मर्दनात्पीडनाद्वापि शुक्रवेगाभिघाततः
यस्यावपाट्यते चर्म तं विद्यादवपाटिकाम् ॥८६॥
वातेन कर्कशा रूक्षा सूक्ष्मा कृष्णा रुगन्विता
पित्तेन पीता रक्ता वा दाहतृष्णासमन्विता
श्लेष्मणा कठिना स्निग्धा कण्डूमत्स्वल्पवेदना ॥८७॥
स्नेहस्वेदैरिमां वैद्यश्चिकित्सेदवपाटिकाम् ॥८८॥
वातोपसृष्टे मेढ्रे तु चर्म संश्रयते मणिम्
मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च ॥८९॥
निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम्
मूत्रं प्रवर्त्तते जन्तोर्मणिर्विव्रियते न च ॥९०॥
निरुद्धप्रकशं विद्यात्सरुजं वातसम्भवम् ॥९१॥
निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम्
दारवीं जतुकृतां वा घृताक्तां सम्प्रवेशयेत् ॥९२॥
परिषिञ्चेद्वसां मज्जां शिशुमारवराहयोः
चक्रतैलं तथा योज्यं वातघ्नद्र व्यसंयुतम् ॥९३॥
त्र्यहात्स्थूलतरां सम्यङ् नाडीं मार्गे प्रवेशयेत्
स्रोतो विवर्द्धयेदेवं स्निग्धमन्नञ्च भोजयेत्
भित्वा वा सेवनीं मुक्त्वा सद्यः क्षतवदाचरेत् ॥९४॥
वेगसन्धारणाद्वायुर्विहतो गुदसंश्रितः
निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च ॥९५॥
मार्गस्य सौक्ष्म्यात्कृच्छ्रेण पुरीषं तस्य गच्छति
सन्निरुद्ध गुदं व्याधिमेतं विद्यात्सुदुस्तरम् ॥९६॥
सन्निरुद्धगुदे तैलैः सेको वातहरैर्हितः
तथा निरुद्धप्रकशक्रियाऽपि कथिताऽथवा ॥९७॥
स्नानोत्सादनहीनस्य मलो वृषणसंस्थितः
प्रक्लिद्यते यदा स्वेदात्कण्डूं जनयते तदा ॥९८॥
ततः कण्डूयनात्क्षिप्रं स्फोटः स्रावश्च जायते
प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ॥९९॥
सर्जाह्वकुष्ठसैन्धवसितसिद्धार्थैः प्रकल्पितो योगः
उद्वर्त्तनेन नियतं शमयति वृषणस्य कण्डूतिम् ॥१००॥
भिषग्वृषणकच्छूं तु चिकित्सेत्पामरोगवत्
अहिपूतननिर्दिष्टक्रिययाऽपि च तां हरेत् ॥१०१॥
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
स्विन्ने वाऽस्नाप्यमानस्य कण्डू रक्तकफोद्भवा ॥१०२॥
कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते
एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् ॥१०३॥
तत्र संशोधनैः पूर्वं धात्रीस्तन्यं विशोधयेत्
त्रिफलाखदिरक्वाथैर्व्रणानां क्षालनं हितम्
शङ्खसौवीरयष्ट्याह्वैर्लेपः कार्योऽहिपूतने ॥१०४॥
प्रवाहिकाऽतिसाराभ्यां निर्गच्छति गुदं बहिः
रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत् ॥१०५॥
गुदभ्रंशे गुदं स्विन्नं स्नेहेनाक्तं प्रवेशयेत्
प्रविष्टं रोधयेद्यत्नाद्गव्यसच्छिद्र चर्मणा ॥१०६॥
पद्मिन्याः कोमलं पत्रं यः खादेच्छर्कराऽन्वितम्
एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः ॥१०७॥
मूषकाणां वसाभिर्वा गुदभ्रंशे प्रलेपनम्
सुस्विन्नं मूषिकामांसेनाथवा स्वेदयेद् गुदम् ॥१०८॥
वृक्षाम्लानलचङ्गेरीबिल्वपाठायवाग्रजम्
तक्रेण शीलयेत् पायुभ्रंशार्त्तोऽनलदीपनम् ॥१०९॥
मूषका दशमूलानि गृह्णीयादुभयं समम्
तयोः क्वाथेन कल्केन पचेत्तैलं यथोदितम् ॥११०॥
अभ्यङ्गात्तस्य तैलस्य गुदभ्रंशो विनश्यति
विनश्यति तथाऽनेन गुदशूलं भगन्दरम् ॥१११॥
सदाहो रक्तपर्यन्तस्त्वपाकी तीव्रवेदनः
कण्डूमाञ्ज्वरकारी च स स्याच्छूकरदंष्ट्रकः ॥११२॥
भृङ्गराजकमूलस्य रजन्या सहितस्य च
चूर्णन्तु सहसा लेपाद्वाराहद्विजनाशनम् ॥११३॥
राजीवमूलकल्कःपीते गव्येन सर्पिषा प्रातः
शमयति शूकरदंष्ट्रं दंष्ट्रोद्भूतंज्वरं घोरम् ॥११४॥
रजनी मार्कवं मूलं पिष्टं शीतेन वारिणा
तल्लेपाद्धन्ति वीसर्पवाराहदशनाह्वयम् ॥११५॥
गम्भीरामल्पशोथां च सवर्णामुपरिस्थिताम्
पाकस्यानुशयीं तान्तु विद्यादन्तः प्रपाकिनीम् ॥११६॥
हरेदनुशयीं वैद्यः क्रियया श्लेष्मविद्र धेः ॥११७॥
क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहसमन्वितौ
दुष्टकर्दमसंस्पर्शादलसं तं विभावयेत् ॥११८॥
पादौ सिक्त्वाऽरनालेन लेपनं त्वलसे हितम्
पटोलकुनटीनिम्बरोचनामरिचैस्तिलैः ॥११९॥
क्षुद्रा स्वरससिद्धेन कटुतैलेन लेपयेत्
ततः कासीसकुनटीतिलचूर्णैर्विचूर्णयेत् ॥१२०॥
करञ्जबीजं रजनी कासीसं पद्मकं मधु
रोचना हरितालञ्च लेपोऽयमलसे हितः ॥१२१॥
परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः
पादयोः कुरुते दारीं सरुजां तलसंश्रिताम् ॥१२२॥
पाददार्यां शिरां प्राज्ञो मोचयेत्तलशोधिनीम्
स्नेहस्वेदोपपन्नौ तु पादौ वा लेपयेन्मुहुः
मधूच्छिष्ठवसामज्जाघृतैः क्षारविमिश्रितैः ॥१२३॥
सर्जाह्वसिन्धूद्भवयोश्चूर्णं घृतमधुप्लुतम्
निर्मथ्य कटुतैलाक्तं हितं पादप्रमार्जने ॥१२४॥
मधुसिक्थकगैरिकवृतगुडमहिषाक्षशालनिर्यासैः
गैरिकसहितैर्लेपः पाकस्फुटनापहः सिद्धः ॥१२५॥
उन्मत्तकस्य बीजेन मानकक्षारवारिणा
विपक्वं कटुतैलन्तु हन्याद्दारीं न संशयः ॥१२६॥
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः
ग्रन्थिः कोलवदुत्सन्नो जायते कदरस्तु सः ॥१२७॥
दहेत्कदरमुद्धृत्य तैलेन दहनेन वा ॥१२८॥
कृष्णानि तिलमात्राणि नीरुजानि तमानिच
वातपित्तकफोद्रे कात्तान्विद्यात्तिलकालकान् ॥१२९॥
अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते
माषवत्कृष्णमुत्सन्नमनिलान्मशकं दिशेत् ॥१३०॥
वित्वचस्तनवः स्फोटाः सूक्ष्माग्राः श्यावपिण्डिकाः
भवन्ति कफपित्ताभ्यां क्षिप्रं नाशं प्रयान्ति च ॥१३१॥
सममुत्सन्नमरुजं मण्डलं कफरक्तजम्
सहजं लक्ष्म चैकेषां लक्ष्यो जतुमणिश्च सः ॥१३२॥
कृष्णः स्निग्धो जतुमणिर्ज्ञेयः श्लेष्मोत्तरैस्त्रिभिः
अरुजं त्वपरे रक्तं लक्ष्मेत्याहुर्भिषग्वराः ॥१३३॥
चर्मकीलं जतुमणिं मशकांस्तिकालकान्
उत्कृत्य शस्त्रेण दहेत्क्षाराग्निभ्यामशेषतः ॥१३४॥
महद्वा यदि वा चाल्पं श्यावं वा यदि वाऽसितम्
नीरुजं मण्डलं गात्रे न्यच्छं तदभिधीयते ॥१३५॥
शिरावेधैः प्रलेपैश्च तथाऽभ्यङ्गैरुपाचरेत्
न्यच्छं लिम्पेत्पयः पित्तैः कल्कैः क्षीरतरूद्भवैः ॥१३६॥
त्रिभुवनविजयापत्रं मूलं स्थविरस्य शिंशपा चैभिः
उद्वर्त्तनं विरचितं न्यच्छव्यङ्गापहं सिद्धम् ॥१३७॥
कण्टकैराचितं वृत्तं कण्डूमत्पाण्डु मण्डलम्
पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् ॥१३८॥
पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा
तेनैव सिद्धं सक्षौद्रं सर्पिः पातुं प्रदापयेत् ॥१३९॥
निम्बारग्वधकल्कैर्वा मुहुरुद्वर्त्तनं हितम् ॥१४०॥
चतुर्गुणेन निम्बोत्थपत्रक्वाथेन गोघृतम्
पचेत्ततस्तु निम्बस्य कृतमालस्य पत्रजैः ॥१४१॥
कल्कैर्भूयः पचेत्सिद्धं तत्पिबेत्पलसम्मितम्
पद्मिनीकण्टकाद्रो गान्मुक्तो भवति नान्यथा ॥१४२॥
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा
कफवातोत्थिता ज्ञेया बालानामजगल्लिका ॥१४३॥
तत्राजगल्लिकां सामां जलौकोभिरुपाचरेत्
शुक्तिसौराष्ट्रिकाक्षारकल्कैश्चालेपयेन्मुहुः
कठिनां क्षारयोगेन द्रा वयेदजगल्लिकाम् ॥१४४॥
यवाकारा प्रकठिना ग्रथिता मांससंश्रया
पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ॥१४५॥
घनामवक्रां पिडकामुन्नतां परिमण्डलाम्
अन्त्रालजीमल्पपूयां तां विद्यात्कफवातजाम् ॥१४६॥
अन्त्रालजीयवप्रख्ये पूर्वं स्वेदैरुपाचरेत्
मनःशिलादेवदारुकुष्ठकल्कैः प्रलेपयेत्
पक्वां व्रणविधानेन तथोक्तेन प्रसाधयेत् ॥१४७॥
विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम्
विवृतामिति तां विद्यात्पित्तोत्थां परिमण्डलम् ॥१४८॥
पद्मकर्णिकवन्मध्ये पिडकां पिडकाचिताम्
इन्द्र विद्धान्तु तां विद्याद्वातपित्तोत्थितां भिषक् ॥१४९॥
मण्डलं वृतमुत्सन्नं सरक्तं पिडकाचितम्
रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम् ॥१५०॥
विसर्पवत्सर्पति यः शोथस्तनुरपाकवान्
दाहज्वरकरः पित्तात्सज्ञेयो जालगर्दभः ॥१५१॥
विवृतामिन्द्र विद्धाञ्च गर्दभीं जालगर्दभम्
पैत्तिकस्य विसर्पस्य क्रिययासाधयेद् भिषक्
पाके तु रोपयेदाज्यैः पक्वैर्मधुरभेषजैः ॥१५२॥
ग्रथिताः पञ्च वा षड् वा दारुणाः कच्छपोन्नताः
कफानिलाभ्यां पिडकाः सा स्मृता कच्छपी बुधैः ॥१५३॥
कच्छपीं स्वेदयेत्पूर्वं तत एव प्रलेपयेत् ॥१५४॥
कल्कीकृतैर्निशा कुष्टसितातालकदारुभिः
तां पक्वां साधयेच्छीघ्रं भिषग्व्रणचिकित्सया ॥१५५॥
प्राप्य मांसशिरास्नायुमेदः श्लेष्मा तथाऽनिलः
ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिर्वसानिभम् ॥१५६॥
स्रवति स्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः
मांसं विशोष्य ग्रथितां शर्करां जनयत्यतः ॥१५७॥
दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः शिराः
स्रवन्ति सहसा रक्तं तां विद्याच्छर्कराऽबुदम् ॥१५८॥
मेदोऽबुदविधानेन साधयेच्छर्कराऽबुदम् ॥१५९॥
शक्तस्य चाप्यनुत्साहः कर्मण्यालस्यमुच्यते
अस्वास्थ्यं चिन्तयाऽत्यर्थमरतिः कथ्यते बुधैः ॥१६०॥
उत्क्लिश्यान्नं न निर्गच्छेत्प्रसेकः ष्ठीवनोरितम्
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् ॥१६१॥
वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः
न चान्नं रोचते यस्मै ग्लानिं तस्य विनिर्दिशेत्
ग्लानिरोजःक्षयाद् दुःखादजीर्णाच्च श्रमाद्भवेत् ॥१६२॥
उदानकोपादाहारसुस्थितत्वाच्च यद्भवेत्
पवनस्योर्ध्वगमनं तमुद्गारं प्रचक्षते ॥१६३॥
आटोपो गुडगुडाशब्दः प्रोक्तो जठरसम्भवः
तमःस्थस्येव यज्ज्ञानं तत्तमः कथ्यते बुधैः ॥१६४॥
इत्येक षष्टितमः क्षुद्ररोगाधिकारः समाप्तः ॥६१॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP