चतुर्थः भागः - कर्णरोगाधिकारः
भावप्रकाशसंहिता
अथ चतुःषष्टितमः कर्णरोगाधिकारः ॥६४॥
कर्णशूलः कर्णनादो बाधिर्यं क्ष्वेड एव च
कर्ण स्रावकर्णकण्डूः कर्णगूथस्तथैव च ॥१॥
प्रतिनाहो जन्तुकर्णो विद्र धिर्द्विविधस्तथा
कर्णपाकःपूतिकर्णस्तथैवार्शश्चतुर्विधः ॥२॥
तथाऽबुदं सप्तविधं शोफश्चापि चतुर्विधः
एते कर्णगता रोगा अष्टाविंशतिरीरिताः ॥३॥
समीरणः श्रोत्रगतोऽन्यथा चरन्समन्ततः शूलमतीव कर्णयोः
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ॥४॥
मूर्च्छा दाहो ज्वरः कासः श्वासोऽथ वमथुस्तथा
उपद्र वाः कर्णशूले भवन्त्येते मरिष्यतः ॥५॥
कर्णश्रोत्रस्थिते वाते शृणोति विविधान्स्वनान्
भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते ॥६॥
यदा शब्दवहं वायुः स्रोत आवृत्य तिष्ठति
शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्य तेन जायते ॥७॥
बाधिर्यं बालवृद्धोत्थं चिरोत्थञ्च विवर्जयेत् ॥८॥
वायुः पित्तादिभिर्युक्तो वेणुघोषसमं स्वनम्
करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते ॥९॥
शिरोऽभिघातादथ वा निमज्जतो जले प्रपातादथ वाऽपि विद्र धेः
स्रवेद्धि पूयं श्रवणोऽनिलार्दितः स कर्णसंस्राव इति प्रकीर्त्तितः ॥१०॥
मारुतः कफसंयुक्तः कर्णे कण्डूं करोति हि ॥११॥
पित्तोष्मशोषितः श्लेष्मा कुरुते कर्णगूथकम् ॥१२॥
स कर्णगूथो द्र वतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते
तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसाऽद्धभेदकृत् ॥१३॥
यदा तु मूर्च्छन्त्यथवा तु जन्तवः सृजन्त्यपत्त्यान्यथवाऽपि मक्षिकाः
तदञ्जनत्वाच्छ्रवणे निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः ॥१४॥
पतङ्गाः शतपद्यश्च कर्णस्रोतः प्रविश्य हि
अरतिं व्याकुलत्वञ्च भृशं कुर्वन्ति वेदनाम्
कर्णो निस्तुद्यते तस्य तथा च फर्फरायते
कीटे चरति रुक्तीव्रा निस्पन्दे मन्दवेदना ॥१५॥
क्षताभिघातप्रभवस्तु विद्र धिर्भवेत्तथा दोषकृतोऽपरः पुनः
स रक्तपीतारुणमस्रमास्रवेत्प्रतोदधूमायनदाहचोषवान् ॥१६॥
कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत् ॥१७॥
कर्णविद्र धपाकेन कर्णे वा वारिपूरणात्
पूयं स्रवति यः पूति स ज्ञेयः पूतिकर्णकः ॥१८॥
कर्णशोथार्बुदार्शांसि जानीयादुक्तलक्षणैः ॥१९॥
नादोऽतिरुक्कर्णमलस्य शोथः स्रावस्तनुश्चावणञ्च वातात् ॥२०॥
शोथः सरागो दरणं विदाहः सपूतिपीतस्रवणञ्च पित्तात् ॥२१॥
वैश्रुत्यकण्डूस्थिरशोथशुक्ल स्निग्धा स्रुतिः स्वल्परुजा कफाच्च ॥२२॥
सर्वाणि रूपाणि च सन्निपातात्स्रावश्च तत्राधिकदोषवर्णः ॥२३॥
अथ कर्णपालीरोगाः
सौकुमार्याच्चिरोत्सृष्टे सहसैवातिवर्धिते
कर्णे शोथो भवेत्पाल्यां सरुजः परिपोटवान्
कृष्णारुणनिभः स्तब्धः स वातात्परिपोटकः ॥२४॥
गुर्वाभरण संयोगात्ताडनाद्घर्षणादपि
शोथः पाल्यां भवेच्छ्यावो दाहपाकरुजाऽन्वितः
रक्तो वा रक्तपित्ताभ्यामुत्पातः सगदः स्मृतः ॥२५॥
कर्णं बलाद्वर्द्धयतः पाल्यां वायुः प्रकुप्यति
कफं संगृह्य कुरुते शोथं स्तब्धमवेदनम्
उन्मन्थकः सकण्डूको विकारः कफवातजः ॥२६॥
संवर्ध्यमाने दुर्विद्धे कण्डूदाहरुजाऽन्वितः
शोथो भवति पाकश्च त्रिदोषो दुःखवर्द्धनः ॥२७॥
कफासृक्कृमयः क्रुद्धाः सर्षपाभा विसारिणः
कुर्वन्ति पिडकां पाल्यां कण्डूदाहसमन्विताम्
कफासृक्कृमिसम्भूतः स विसर्पन्नितस्ततः
लिह्यात्सशष्कुलद्यं पालद्यं परिलेही च स स्मृतः ॥२८॥
कर्णशूले कर्णनादे बाधिर्ये क्ष्वेड एव च
चतुर्ष्वपि च रोगेषु सामान्यं भेषजं स्मृतम्
शृङ्गवेरं सहमधु सैन्धवं तैलमेव च
कदुष्णं कर्णयोर्धार्यमेतत्स्याद् वेदनाऽपहम् ॥२९॥
लशुनार्द्र कशिग्रूणां वारुण्या मूलकस्य च
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥३०॥
अर्काङ्कुरानम्लपिष्टान्स तैललवणान्वितान्
सन्निदध्यात्सुधाकाण्डे कोरिते मृत्स्नयाऽवृते ॥३१॥
पुटपाकक्रमात्स्विन्नं पीडयेदारसागमात्
सुखोष्णं तद्र सं कर्णे प्रक्षिपेच्छूलशान्तये ॥३२॥
अर्कस्य पत्रं परिणामपीतमाज्येन लिप्तं शिखियोगतप्तम्
आपीड्य तस्याम्बु सुखोष्णमेव कर्णे निषिक्तं हरते हि शूलम् ॥३३॥
तीव्रशूलातुरे कर्णे सशब्दे क्लेदवाहिनि
छागमूत्रं प्रशंसन्ति कोष्णं सैन्धवसंयुतम् ॥३४॥
तैलं श्वेतार्कमूलेन मन्देऽग्नौ विधिना कृतम्
हरेदाशु त्रिदोषोत्थं कर्णशूलप्रपूरणात् ॥३५॥
हिङ्गुसैन्धवशुण्ठीभिस्तैलं सर्षपसम्भवम्
विपक्वं हरतेऽवश्यं कर्णशूलं प्रपूरणात् ॥३६॥
कर्णशूले कर्णनादे बाधिर्ये क्ष्वेड एव च
पूरणं कटुतैलेन हितं वातघ्नमौषधम् ॥३७॥
शिखरिक्षारजवारि तत्कृतकल्केन साधितं तैलम्
अपहरति कर्णनादं बाधिर्यं चापि पूरणतः ॥३८॥
गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत्
सजलञ्च सदुग्धञ्च तद्बाधिर्यहरं परम् ॥३९॥
इति बिल्व तैलम्
कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके
सामान्यं कर्म कुर्वीत योगान्वैशेषिकानपि ॥४०॥
स्वर्जिकाचूर्णसंयुक्तं बीजपूररसं क्षिपेत्
कर्णस्रावरुजो दाहास्ते नश्यन्ति न संशयः ॥४१॥
आम्रजम्बूप्रवालानि मधुकस्य वटस्य च
एभिस्तु साधितं तैलं पूतिकर्णगदं हरेत् ॥४२॥
जातीपत्ररसैस्तैलं विपक्वं पूतिकर्णजित्
पिष्टं रसाञ्जनं नार्याः क्षीरेण क्षौद्र संयुतम्
प्रशस्यते चिरोत्थे तत्स्रावके पूतिकर्णके ॥४३॥
कुष्ठहिङ्गुबचा दारुशताह्वाविश्वसैन्धवैः
पूतिकर्णापहं तैलं बस्तमूत्रेण साधितम् ॥४४॥
शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत्
तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ॥४५॥
चूर्णेन गन्धकशिलारजनीभवेन मुष्ट्यंशकेन कटुतैलपलाष्टकन्तु
धत्तूरपत्ररसतुल्यमिदं विपक्वं नाडीं जयेच्चिरभवामपि कर्णजाताम् ॥४६॥
कृमिकर्णविनाशाय कृमिघ्नीं कारयेत्क्रियाम्
वार्त्ताकुधूमश्च हितःसार्षपः स्नेह एव च ॥४७॥
पूरणं हरितालेन गव्यमूत्रयुतेन च
धूपने कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते ॥४८॥
चिकित्सा कर्णशोथानां तथा कर्णार्शसामपि
कर्णार्बुदानां कुर्वीत शोथार्शोऽबुदवद्भिषक् ॥४९
पालीसंशोषणे कुर्याद्वातकर्णरुजः क्रियाः
स्वेदयेद्यत्नतस्तां च स्विन्नां संवर्धयेत्तिलैः ॥५०॥
शतावरीवाजिगन्धापय स्यैरण्डबीजकैः
तैलं विपक्वं सक्षीरं पालद्यं संवर्द्धयेत्सुखम् ॥५१॥
जीवनीयस्य कल्केन तैलं दुग्धेन पाचयेत्
चिकित्सेत्तेन तैलेन हृतास्रं परिपोटकम् ॥५२॥
शीतलेपैर्जलौकोभिरुत्पातं समुपाचरेत्
हलिनीसुरसाभ्यां च गोधाकङ्कवसाऽन्वितम् ॥५३॥
तैलञ्च पक्वमभ्यङ्गादुन्मन्थं नाशयेद् ध्रुवम्
दुःखवर्द्धनकं सिक्त्वा जम्ब्वाम्रबिल्वपत्रजैः ॥५४॥
क्वाथैस्तैलेन सुस्निग्धं तच्चूर्णैश्चावधूलयेत्
बहुशो गोमयैस्तप्तैः स्वेदितं परिलेहितम्
घनसारैः समालिम्पेदजामूत्रेण कल्कितैः ॥५५॥
इति चतुःषष्टितमः कर्णरोगाधिकारः समाप्तः ॥६४॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP