चतुर्थः भागः - योनिरोगाधिकारः

भावप्रकाशसंहिता


अथ सप्ततितमो योनिरोगाधिकारः ॥७०॥
मिथ्याऽहारविहाराभ्यां दुष्टैर्दोषैः प्रदूषिताम्
आर्त्तवाद्बीजतश्चापि दैवाद्वा स्युर्भगे गदाः ॥१॥
उदावर्त्ता तथा वन्ध्या विप्लुता च परिप्लुता
वातला योनिजो रोगो वातदोषेण पञ्चधा ॥२॥
पञ्चधा पित्तदोषेण तत्रादौ लोहितक्षरा
प्रस्रंसिनी वामनी च पुत्रघ्नी पित्तला तथा ॥३॥
अत्यानन्दा कर्णिनी च चरणानन्दपूर्विका
अतिपूर्वाऽपि सा ज्ञेया श्लेष्मला च कफादिमाः ॥४॥
षण्ढ्यण्डिनी च महती सूचीवक्त्रा त्रिदोषिणी
पञ्चैता योनयः प्रोक्ताः सर्वदोषप्रकोपतः ॥५॥
सफेनिलमुदावर्त्ता रजः कृच्छ्रेण मुञ्चति
बन्ध्या निरार्त्तवा ज्ञेया विप्लुता नित्यवेदना ॥६॥
परिप्लुतायां भवति ग्राम्यधर्मरुजा भृशम्
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ॥७॥
सदाहं क्षरते रक्तं यस्याः सा लोहितक्षरा
प्रस्रंसिनी स्रंसते च क्षोभिता दुष्प्रजायिनी ॥८॥
सवातमुद्गिरद्बीजं वामनी रजसा युतम्
स्थितं हि पातयेद्गर्भं पुत्रघ्नी रक्तसंस्रवात् ॥९॥
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् ॥१०॥
अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण विन्दति
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते ॥११॥
मैथुने चरणा पूर्वं पुरुषादतिरिच्यते
बहुशश्चातिचरणा तयोर्बीजं न तिष्ठति ॥१२॥
श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् ॥१३॥
अनार्त्तवाऽस्तनी षण्ढी खरस्पर्शा च मैथुने
महामेढ्रगृहीतायाबालायास्त्वण्डिनी भवेत् ॥१४॥
विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता ॥१५॥
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा
चतसृष्वपि चाद्यासु सर्वलिङ्गनिदर्शनम् ॥१६॥
पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः ॥१७॥
दिवास्वप्नादतिक्रोधाद् व्यायामादतिमैथुनात्
क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यथा ॥१८॥
पूयशोणितसङ्काशं लकुचाकृतिसन्निभम्
जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः ॥१९॥
रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत्
दाहरागज्वरयुतं विद्यात्पित्तात्मकं तु तम् ॥२०॥
तिलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम्
सर्वलिङ्गसमायुक्तं सन्निपातात्मकं वदेत् ॥२१॥
आर्त्तवादर्शने नारी मत्स्यान्सेवेत नित्यशः
काञ्जिकं च तिलान्माषानुदश्विच्च तथा दधि ॥२२॥
इक्ष्वाकुबीजदन्तीचपलागुडमदनकिण्वयवशूकैः
सस्नुक्क्षीरैर्वर्त्तिर्योनिगता कुसुमसञ्जननी ॥२३॥
पीतं ज्योतिष्मतीपत्रं स्वर्जिकोग्रासनं त्र्यहम्
शीतेन पयसा पिष्टं कुसुमं जनयेद् ध्रुवम् ॥२४॥
बला सिता सातिबला मधूकं वटस्य शुङ्गं गजकेशरं च
एतन्मधुक्षीरघृतैर्निपीतं वन्ध्या सुपुत्रं नियतं प्रसूते ॥२५॥
अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम्
ॠतुस्नाताऽङ्गना प्रातः पीत्वा गर्भं दधाति हि ॥२६॥
पुष्योद्धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया
पिष्टं पीत्वा ॠतुस्नाता गर्भं धत्ते न संशयः ॥२७॥
कुरण्टमूलं धातक्याः कुसुमानि वटाङ्कुराः
नीलोत्पलं पयोयुक्तमेतद् गर्भप्रदं ध्रुवम् ॥२८॥
याऽबला पिबति पार्श्वपिप्पलं जीरकेण सहितं हिताशिनी
श्वेतया विशिखपुङ्खया युतं सा सुतं जनयतीह नान्यथा ॥२९॥
पत्रमेकं पलाशस्य पिष्ट्वा दुग्धेन गर्भिणी
पीत्वा पुत्रमवाप्नोति वीर्यवन्तं न संशयः ॥३०॥
शूकरशिम्बीमूलं मध्यं वा दधिफलस्य सपयस्कम्
पीत्वाऽथो भवलिङ्गीबीजं कन्यां न सूते स्त्री ॥३१॥
पुत्रकमञ्जरिमूलं विष्णुक्रान्तेशलिङ्गिनी सहिता
एतद्गर्भेऽष्टदिनं पीत्वा कन्यां न सर्वथा सूते ॥३२॥
पिप्पलिविडङ्गटङ्कणसमचूर्णं या पिबेत्पयसा
ॠतुसमये न हि तस्या गर्भः सञ्जायते क्वापि ॥३३॥
आरनालपरिपेषितं त्र्यहं या जपाकुसुममत्ति पुष्पिणी
सत्पुराणगुडमुष्टिसेविनी सन्दधाति न हि गर्भमङ्गना ॥३४॥
तासु योनिषु चाद्यासु स्नेहादिक्रम इष्यते
वस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम् ॥३५॥
नतवार्त्ताकिनी कुष्ठसैन्धवामरदारुभिः
तिलतैलं पचेन्नारी पिचुमस्य विधारयेत्
विप्लुतायां सदा योनौ व्यथा तेन प्रशाम्यति ॥३६॥
वातलां कर्कशां स्तब्धामल्पस्पर्शां तथैव च
कुम्भीस्वेदैरुपचरेदन्तर्वेश्मनि संवृते
धारयेद्वा पिचुं योनौ तिलतैलस्य सा सदा ॥३७॥
पित्तलानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः
शीताः पित्तहराः कार्याःस्नेहनार्थं घृतानि च ॥३८॥
प्रस्रसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत्
पिधाय वेशवारेण ततो बन्धं समाचरेत् ॥३९॥
शुण्ठीमरिचकृष्णा भिर्धान्यकाजाजिदाडिमैः
पिप्पलीमूलसंयुक्तैर्वेशवारः स्मृतो बुधैः ॥४०॥
धात्रीरसं सितायुक्तं योनिदाहे पिबेत्सदा
सूर्यकान्ता भवं मूलं पिबेद्वा तण्डुलाम्बुना ॥४१॥
योन्यां तु पूयस्राविण्यां शोधनद्र व्यनिर्मितैः
सगोमूत्रैः सलवणैः पिण्डैः सम्पूरणं हितम् ॥४२॥
दुर्गन्धां पिच्छिलां वाऽपि चूर्णैः पञ्चकषायजैः
पूरयेद्धारयेद्रा जवृक्षादिक्वथिताम्बुना ॥४३॥
पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः
वर्त्तिस्तुल्या प्रदेशिन्या योनौ श्लेष्मविशोधिनी ॥४४॥
कर्णिन्यां वर्त्तयो देयाः शोधनद्र व्यनिर्मिताः ॥४५॥
गुडूची त्रिफलादन्तीक्वथितोदकधारया
योनिं प्रक्षालयेत्तेन तत्र कण्डूः प्रशाम्यति ॥४६॥
मुद्गयूषं सखदिरं पथ्यां जातीफलं तथा
निम्बं पूगञ्च सञ्चूर्ण्य वस्त्रपूतं क्षिपेद्भगे ॥४७॥
योनिर्भवति सङ्कीर्णा न स्रवेच्च जलं ततः
कपिकच्छूभवं मूलं क्वाथयेद्विधिना भिषक्
योनिः सङ्कीर्णतां याति क्वाथेनानेन धावने ॥४८॥
जीरकद्वितयं कृष्णं सुषवी सुरभिर्वचा
वासकः सैन्धवश्चापि यवक्षारो यवानिका ॥४९॥
एषां चूर्णं घृते किञ्चिद्भृष्ट्वा खण्डेन मोदकम्
कृत्वा खादेद्यथावह्नि योनिरोगाद्विमुच्यते ॥५०॥
मूषकक्वाथसंसिद्धतिलतैलकृतः पिचुः
नाशयेद् योनिरोगांस्तान्धृतो योनौ न संशयः ॥५१॥
त्रिफलां द्वौ सहचरौ गुडूचीं सपुनर्नवाम्
शुकनासां हरिद्रे द्वे रास्नां मेदां शतावरीम् ॥५२॥
कल्कीकृत्य घृतप्रस्थं पचेत्क्षीरे चतुर्गुणे
तत्सिद्धं पाययेन्नारी योनिरोगप्रशान्तये ॥५३॥
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला
मेदे पयस्याकाकोल्यौ मूलं चैवाश्वगन्धजम् ॥५४॥
अजमोदा हरिद्रे द्वे प्रियङ्गुः कटुरोहिणी
उत्पलं कुमुदं द्रा क्षा काकोल्यौ चन्दनद्वयम् ॥५५॥
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत्
शतावरीरसं क्षीरं घृताद्देयं चतुर्गुणम् ॥५६॥
सर्पि रेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते
पुत्राञ्जनयते वीरान्मेधाऽढ्यान्प्रियदर्शनान् ॥५७॥
या चैवास्थिरगर्भा स्यात्पुत्रं वा जनयेन्मृतम्
अल्पायुषं वा जनयेद्या च कन्यां प्रसूयते ॥५८॥
योनिरोगे रजोदोषे परिस्रावे च शस्यते
प्रजावर्धनमायुष्यं सर्वग्रहनिवारणम् ॥५९॥
नाम्ना फलघृतं ह्येतदश्विभ्यां परिकीर्त्तितम्
अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः ॥६०॥
जीवद्वत्सैकवर्णाया घृतं तत्र प्रयुज्यते
आरण्यगोमयेनैव वह्निज्वाला च दीयते ॥६१॥
गैरिकाम्रास्थिजन्तुघ्नरजन्यञ्जनकट्फलाः
पूरयेद्योनिमेतेषां चूर्णैः क्षौद्र्रसमन्वितैः ॥६२॥
त्रिफलायाः कषायेण सक्षौद्रे ण च सेचयेत्
प्रमदा योनिकन्देन व्याधिना परिमुच्यते ॥६३॥
तत्र चलितगर्भस्थापने ह्रीवेरादिक्वाथः
ह्रीवेरातिविषामुस्तमोचशक्रैश्शृतं जलम्
दद्याद् गर्भे प्रचलिते प्रदरे कुक्षिरुज्यपि ॥६४॥
मधुकं चन्दनो शीरसारिवापद्मपत्रकैः
शर्करामधुसंयुक्तैः कषायो गर्भिणीज्वरे ॥६५॥
चन्दनं सारिवालोध्रमृद्वीकाशर्कराऽन्वितम्
क्वाथं कृत्वा प्रदद्याच्च गर्भिणीज्वरशान्तये
पीतं विश्वमजाक्षीरैर्नाशयेद्विषमज्वरम् ॥६६॥
आम्रजम्बूत्वचः क्वाथैर्लेहयेल्लाजशक्तुकम्
अनेनालीढमात्रेण गर्भिणी ग्रहणीं जयेत् ॥६७॥
ह्रीबेरारलुरक्तचन्दनबलाधान्याकवत्सादनी
मुस्तोशीरयवासपर्पटविषाक्वाथं पिबेद् गर्भिणी
नानाव्याधिरुजाऽतिसारगदके रक्तस्रुतौ वा ज्वरे
योगोऽय मुनिभिः पुरा निगदितः सूत्यामयेऽप्युत्तमः ॥६८॥
ग्राम्यधर्माध्व गमनयानायासप्रपीडनैः
ज्वरोपवासोत्पतन प्रहाराजीर्णधावनैः ॥६९॥
वमनाच्च विरेकाच्च कुन्थनाद् गर्भपातनात्
तीक्ष्णक्षारोष्णकटुकतिक्तरूक्षनिषेवणात् ॥७०॥
वेगाभिघाताद्विषमादासनाच्छयनाद्भयात्
गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ॥७१॥
आ चतुर्थात्ततो मासात्प्रस्रवेद् गर्भविद्र वः
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ॥७२॥
गर्भोऽभिघात विषमासनपीडनाद्यैः
पक्वं द्रुमादिव फलं पतति क्षणेन ॥७३॥
गुर्विण्या गर्भतो रक्तं स्रवेद्यदि मुहुर्मुहुः
तन्निरोधाय सा दुग्धमुत्पलादिशृतं पिबेत् ॥७४॥
उत्पलं नीलमारक्तं कह्लारं कुमुदं तथा
श्वेताम्भोजञ्च मधुकमुत्पलादिरयं गणः ॥७५॥
संशीलितो हरत्येव दाहं तृष्णां हृदामयम्
रक्तपित्तञ्च मूर्च्छां च तथा छर्दिमरोचकम् ॥७६॥
प्रस्रंसमाने गर्भे स्याद्दाहः शूलञ्च पार्श्वयोः
पृष्ठरुक्प्रदरानाहौ मूत्रसङ्गश्च जायते ॥७७॥
स्थानात्स्थानान्तरं तस्मिन्प्रयात्यपि च जायते
आमपक्वाशयादौ तु क्षोभः पूर्वेऽप्युपद्र वाः ॥७८॥
स्निग्धशीतक्रियास्तेषु दाहादिषु समाचरेत्
कुशकाशोरुबूकाणां मूलैर्गोक्षुरकस्य च ॥७९॥
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलहृत्परम्
श्वदंष्ट्रामधुकक्षुद्रा ऽम्लानैः सिद्धं पयः पिबेत्
शर्करामधुसंयुक्तं गर्भिणीवेदनापहम् ॥८०॥
मृत्कोष्ठागारिकागेहसम्भवा नवमल्लिका
समङ्गा धातकीपुष्पं गैरिकं च रसाञ्जनम् ॥८१॥
तथा सर्जरसश्चैतान्यथालाभं विचूर्णयेत्
तच्चूर्णं मधुना लिह्याद् गर्भपातप्रशान्तये ॥८२॥
कशेरूत्पलशृङ्गाटकल्कं वा पयसा पिबेत्
पक्वं वचारसोनाभ्यां हिङ्गुसौवर्चलान्वितम्
आनाहे तु पिबेद् दुग्धं गुर्विणी सुखिनी भवेत् ॥८३॥
तृणपञ्चकमूलानां कल्केन विपचेत्पयः
तत्पयो गर्भिणी पीत्वा मूत्रसङ्गाद्विमुच्यते ॥८४॥
शालीक्षुकुशकाशैः स्याच्छरेण तृणपञ्चकम्
एषां मूलं तृषादाहपित्तासृङ्मूत्रसङ्गहृत् ॥८५॥
मधुकं शाकबीजं च पयस्या सुरदारु च
अश्मन्तकस्तिलाः कृष्णस्ताम्रवल्ली शतावरी ॥८६॥
वृक्षादनी पयस्या च प्रियङ्गूत्पलसारिवाः
अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ॥८७॥
बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचो घृतम्
पृश्निपर्णी वचा शिग्रुः श्वदंष्ट्रा मधुपर्णिका ॥८८॥
शृङ्गाटकं विषं द्रा क्षा कशेरु मधुकं सिता
वत्सैते सप्त योगाः स्युरर्द्धश्लोकसमापनाः ॥८९॥
यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुता
एवं गर्भो न पतति गर्भशूलञ्च शाम्यति ॥९०॥
कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिकाः
मूलानि क्षीरसिद्धानि दापयेद्भिषगष्टमे ॥९१॥
नवमे मधुकानन्तापयस्यासारिवा पिबेत् ॥९२॥
क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम्
सक्षीरं वा हिता शुण्ठी मधुकं सुरदारु च ॥९३॥
क्षीरिकामुत्पलं दुग्धं समङ्गामूलकं शिवाम्
पिबेदेकादशे मासि गर्भिणीशूलशान्तये ॥९४॥
सिता विदारी काकोली क्षीरी चैव मृणालिका
गर्भिणी द्वादशे मासि पिबेच्छूलघ्नमौषधम् ॥९५॥
एवमाप्यायते गर्भस्तीव्रा रूक् चोपशाम्यति ॥९६॥
गर्भो वातेन संशुष्को नोदरं पूरयेद्यदि
सा बृंहणीयैः संसिद्धं दुग्धं मांसरसं पिबेत् ॥९७॥
शुष्कार्त्तवमजाताङ्गं संशुष्कं मरुताऽदितम्
त्यक्तं जीवेन तत्तस्मात्कठिनं चावतिष्ठते ॥९८॥
शुक्रार्त्तवार्दको वायुरुदराध्मानकृद् भवेत्
कदाचिच्चेत्तदाऽध्मानं स्वयमेव प्रशाम्यति ॥९९॥
नैगमेयेन गर्भोऽय हृतो लोकध्वनिस्तदा
स एवाल्पप्रवृत्त्या चेल्लघुर्भूत्वाऽवतिष्ठते ॥१००॥
नवमे दशमे मासि नारी गर्भं प्रसूयते
एकादशे द्वादशे वा ततोऽन्यत्र विकारतः ॥१०२॥
वातेन गर्भसङ्कोचात्प्रसूतिसमयेऽपि या
गर्भं न जनयेन्नारी तस्याः शृणु चिकित्सितम् ॥१०३॥
कुट्टयेन्मुशलेनैषा कृत्वा धान्यमुलूखले
विषमं चासनं यानं सेवेत प्रसवार्थिनी ॥१०४॥
प्रसवस्य विलम्बे तु धूपयेदभितो भगम्
कृष्णसर्पस्य निर्मोकैस्तथा पिण्डीतकेन वा ॥१०५॥
तन्तुना लाङ्गलीमूलं बध्नीयाद्धस्तपादयोः
सुवर्चलां विशल्यां वा धारयेदाशु सूयते ॥१०६॥
करङ्कीभूतगोमूर्द्धा सूतिकाभवनोपरि
स्थापितस्तत्क्षणान्नार्याः सुखं प्रसवकारकः ॥१०७॥
पोतकामूलकल्केन तिलतैलयुतेन च
योनेरभ्यन्तरं लिप्त्वा सुखं नारी प्रसूयते ॥१०८॥
कृष्णा वचा चापि जलेन पिष्टा सैरण्डतैला खलु नाभिलेपात्
सुखं प्रसूतिं कुरुतेऽङ्गनानां निपीडितानां बहुभिः प्रमादैः ॥१०९॥
मातुलुङ्गस्य मूलं तु मधुकेन युतं तथा
घृतेन सहितं पीत्वा सुखं नारी प्रसूयते ॥११०॥
इक्षोरुत्तरमूलं निजतनुमानेन तन्तुना बद्ध्वा
कटिविषये गर्भवती सुखेन सूतेऽविलम्बेन ॥१११॥
तालस्य चोत्तरं मूलं स्वप्रमाणेन तन्तुना
बद्ध्वा कट्यान्तु नियतं सुखं नारी प्रसूयते ॥११२॥
मूढः करोति पवनः खलु मूढगर्भशूलञ्च योनिजठरादिषु मूत्रसङ्गम्
भुग्नोऽनिलेन विगुणेन ततः स गर्भः संख्यामतीत्य बहुधा समुपैति योनिम् ॥११३॥
संकीलकः प्रतिखुरः परिघोऽथ बीजस्तेषूर्ध्वबाहुचरणैः शिरसा च योनौ
सङ्गी च यो भवति कीलकवत्स कीलो
दृश्यैः खुरैः प्रतिखुरः स हि कायसङ्गी ॥११४॥
द्वारं निरुद्ध्य् शिरसा जठरेण कश्चित् कश्चिच्छरीरपरिवर्त्तितकुब्जकायः
एकेन कश्चिदपरस्तु भुजद्वयेन तिर्यग्गतो भवति कश्चिदवाङ्मुखोऽन्य
पार्श्वापवृत्तगतिरेति तथैव कश्चिदित्यष्टधा भवति गर्भगतिः प्रसूतौ ॥११५॥
अपविद्धशिरा या तु शीताङ्गी निरपत्रपा
नीलोद्गतशिरा हन्ति सा गर्भं स च तां तथा ॥११६॥
गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता
भवेदुच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशो ॥११७॥
मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः ॥११८॥
योनिसंवरणं सङ्गः कुक्षौ मक्कल्ल एव च
हन्युः स्त्रियं मूढगर्भो यथोक्ताश्चाप्युपद्र वाः ॥११९॥
याभिः सङ्कटकालेऽपि बह्व्यो नार्यः प्रसाविताः
सम्यग्लब्धं यशस्तास्तु नार्यः कुर्युरिमां क्रियाम् ॥१२०॥
गर्भे जीवति मूढे तु गर्भं यत्नेन निर्हरेत्
हस्तेन सर्पिषाऽक्तेन योनेरन्तर्गतेन सा ॥१२१॥
मृते तु गर्भे गर्भिण्या योनौ शस्त्रं प्रवेशयेत्
शस्त्रशास्त्रार्थविदुषी लघुहस्ता भयोज्झिता ॥१२२॥
सचेतनं तु शस्त्रेण न कथञ्चन दारयेत्
स दीर्यमाणो जननीमात्मानं चापि मारयेत् ॥१२३॥
नोपेक्षेत मृतं गर्भं मुहूर्त्तमपि पण्डितः
तदाशु जननीं हन्ति प्रभूतान्नं यथा पशुम् ॥१२४॥
यद्यदङ्गं हि गर्भस्य योनौ सक्तं तु तद्भिषक्
सम्यग्विनिर्हरेच्छित्वा रक्षेन्नारीं प्रयत्नतः ॥१२५॥
एवं निर्हृतशल्यां तां सिञ्चेदुष्णेन वारिणा
ततोऽभ्यक्तशरीरायां योनौ स्नेहं विधारयेत् ॥१२६॥
एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति ॥१२७॥
तुम्बीपत्रं तथा लोध्रं समभागं सुपेषयेत्
तेन लेपो भगे कार्यः शीघ्रंस्याद्योनिरक्षता ॥१२८॥
पलाशोदुम्बरफलं तिलतैलसमन्वितम्
योनौ विलिप्तं मधुना गाढीकरणमुत्तमम् ॥१२९॥
प्रसूता वनिता वृद्धकुक्षिह्रासाय सम्पिबेत्
प्रातर्मथितसंमिश्रां त्रिसप्ताहात्कणाजटाम् ॥१३०॥
प्रसूताया न पतिता जठरादपरा यदि
तदा सा कुरुते शूलमाध्मानं वह्निमन्दताम् ॥१३१॥
केशवेष्टितयाऽङ्गुल्या तस्याः कण्ठं प्रघर्षयेत्
निर्मोककटुकाऽलाबू कृतबन्धनसर्षपः
चूर्णितैः कटुतैलाक्तैर्धूपयेदभितो भगम् ॥१३२॥
लाङ्गलीमूलकल्केन पाणिपादतलानि हि ॥१३३॥
प्रलिम्पेत्सूतिका योषिदपरापातनाय वै
हस्तं छिन्ननखं स्निग्धं सूतायोनौ शनैः क्षिपेत् ॥१३४॥
अपरां तेन हस्तेन जनयित्री विनिर्हरेत्
एवं निर्हृतशल्यां तां सिञ्चेदुष्णेन वारिणा
ततोऽभ्यक्तशरीराया योनौ स्नेहं निधापयेत् ॥१३५॥
वनितायाः प्रसूताया वातो रूक्षेण वर्द्धितः
तीक्ष्णोष्णशोषितं रक्तं रुद्ध्वा ग्रन्थिं करोति हि ॥१३६॥
नाभ्यधः पार्श्वयोर्वस्तौ वस्तिमूर्द्धनि चापि वा
ततश्च नाभौ वस्तौ च भवेच्छूलं तथोदरे ॥१३७॥
भवेत्पक्वाशयाध्मानं मूत्रसङ्गश्च जायते
एतद्भिषग्भिरुदितं मक्कल्लामयलक्षणम् ॥१३८॥
सुचूर्णितं यवक्षारं पिबेत्कोष्णेन वारिणा
सर्पिषा वा पिबेन्नारी मक्कल्लस्य निवृत्तये ॥१३९॥
पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली
नागरं चित्रकं चव्यं रेणुकैलाऽजमोदिकाः ॥१४०॥
सर्षपो हिङ्गु भार्गी च पाठेन्द्र यवजीरकाः
महानिम्बश्च मूर्वा च विषा तिक्ता विडङ्गकम् ॥१४१॥
पिप्पल्यादिर्गणो ह्येष कफमारुतनाशनः
क्वाथमेषां पिबेन्नारी लवणेन समन्वितम् ॥१४२॥
गुल्मशूलज्वरहरं दीपनञ्चामपाचनम्
मक्कल्लशूलगुल्मघ्नं कफानिलहरं परम् ॥१४३॥
त्रिकटुकचातुर्जातककुस्तुम्बुरुचूर्णसंयुक्तम्
खादेद् गुडं पुराणं नित्यं मक्कल्लदलनाय ॥१४४॥
प्रसूता युक्तमाहारं विहारं च समाचरेत्
व्यायामं मैथुनं क्रोधं शीतसेवाञ्च वर्जयेत् ॥१४५॥
मिथ्याचारात्सूतिकाया यो व्याधिरुपजायते
स कृच्छ्रसाध्योऽसाध्यो वा भवेत्तत्पथ्यमाचरेत् ॥१४६॥
मिथ्योपचारात्संक्लेशाद्विषमाजीर्णभोजनात्
सूतिकायास्तु ये रोगा जायन्ते दारुणाश्च ते ॥१४७॥
अङ्गमर्दो ज्वरः कासः पिपासा गुरुगात्रता
शोथः शूलातिसारौ च सूतिकारोगलक्षणम् ॥१४८॥
ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः
तन्द्रा ऽरुचिप्रसेकाद्या वातश्लेष्मसमुद्भवाः ॥१४९॥
कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाश्रिताः
ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्र वाः ॥१५०॥
सूतिकारोगशान्त्यर्थं कुर्याद्वातहरीं क्रियाम्
दशमूलकृतं क्वाथं कोष्णं दद्याद् घृतान्वितम् ॥१५१॥
अमृतानागरसहचरभद्रो त्कटपञ्चमूलकं जलदम्
शृतशीतं मधुयुक्तं शमयत्यचिरेण सूतिकाऽतङ्कम् ॥१५२॥
देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम्
भूनिम्बः कट्फलं मुस्तं तिक्ता धान्यहरीतकी ॥१५३॥
गजकृष्णा सदुःस्पर्शा गोक्षुरुर्धन्वयासकः
बृहत्यतिविषा छिन्ना कर्कटः कृष्णजीरकः ॥१५४॥
समभागान्वितैरेतैः सिन्धुरामठसंयुतम्
क्वाथमष्टावशेषं तु प्रसूतां पाययेत् स्त्रियम् ॥१५५॥
शूलकासज्वरश्वासमूर्च्छाकम्पशिरोऽत्तिभिः
युक्तं प्रलापतृड्दाहतन्द्रा ऽतीसारवान्तिभिः ॥१५६॥
निहन्ति सूतिकारोगं वातपित्तकफोद्भवम्
कषायो देवदार्वादिः सूतायाः परमौषधम् ॥१५७॥
जीरकं स्थूलजीरश्च शतपुष्पाद्वयं तथा
यवानी चाजमोदा च धान्यकं मेथिकाऽपि च ॥१५८॥
शुण्ठी कृष्णा कणामूलं चित्रकं हपुषाऽपि च
बदरी गजचूर्णञ्च कुष्ठं कम्पिल्लकं तथा ॥१५९॥
एतानि पलमात्राणि गुडं पलशतं मतम्
क्षीरप्रस्थद्वयं दद्यात्सर्पिषः कुडवं तथा ॥१६॥०॥
पञ्चजीरकपाकोऽय प्रसूतानां प्रशान्तये
युज्यते सूतिकारोगे योनिरोगे ज्वरे क्षये ॥१६॥१॥
कासे श्वासे पाण्डुरोगे कार्श्ये वातामयेषु च ॥१६॥२॥
आज्यं स्यात्पलयुग्ममत्र पयसः प्रस्थद्वयं खण्डतः
पञ्चाशत्पलमत्र चूर्णितमथो प्रक्षिप्यते नागरम्
प्रस्थार्धं गुडवद्विपाच्य विधिना मुष्टित्रयं धान्यका
न्मिश्याः पञ्चपलं पलं कृमिरिपोः साजाजिजीरादपि ॥१६॥३॥
व्योषाम्भोददलोरगेन्द्र सुमनस्त्वग्द्रा विडीनां पलं
पक्वं नागरखण्डसंज्ञकमिदं तत्सूतिकारोगहृत्
तृटछर्दिज्वरदाहशोषशमनं सश्वासकासापहं
प्लीहव्याधिविनाशनं कृमिहरं मन्दाग्निसन्दीपनम् ॥१६॥४॥
सर्वशः परिशुद्धा स्यात्स्निग्धपथ्याल्पभोजना
स्वेदाभ्यङ्गपरा नित्यं भवेन्मासमतन्द्रि ता ॥१६॥५॥
सक्षीरौ वाऽप्यदुग्धौ वा दोषः प्राप्य स्तनौ स्त्रियाः
रक्तं मांसञ्च संदूष्य स्तनरोगाय कल्पते
धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः
दोषाविसरणास्तासां न भवन्ति स्तनामयाः ॥१६॥९॥
तासामेव प्रसूतानां गर्भिणीनाञ्च ताः पुनः
स्वभावादेव विवृता जायन्ते संस्रवन्त्यतः ॥१७॥०॥
पञ्चानामपि तेषां तु हित्वा शोणितविद्र धिम्
लक्षणानि समानानि ब्राह्यविद्र धिलक्षणैः ॥१७॥१॥
शोथं स्तनोत्थितमवेक्ष्य भिषग्विदध्याद्यद्विद्र धावभिहितं बहुधा विधानम्
आमे विदाहिनि तथैव च तस्य पाके
यस्याः स्तनौ सततमेव च निग्रहात् तौ ॥१७॥२॥
पित्तघ्नानि तु शीतानि द्र व्याण्यत्र प्रयोजयेत्
जलौकोभिर्हरेद्र क्तं न स्तनावुपनाहयेत् ॥१७॥३॥
लेपो विशालामूलेन हन्ति पीडां स्तनोत्थिताम्
निशाकनककल्काभ्यां लेपः प्रोक्तः स्तनार्त्तिहा ॥१७॥४॥
लेपो निहन्ति मूलं वन्ध्याकर्कोटिकाभवं शीघ्रम् ॥१७॥५॥
इति सप्ततितमो योनिरोगाधिकारः समाप्तः ॥७०॥
इति स्त्रीणां योनिरोगाधिकारः  समाप्तः

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP