वैराग्यप्रकरणम् - सर्गः १

योगवासिष्ठः

श्रीः ।
यतः सर्वाणि भूतानि प्रतिभान्ति स्थितानि च ।
यत्रैवोपशमं यान्ति तस्मै सत्यात्मने नमः ॥१॥
ज्ञाता ज्ञानं तथा ज्ञेयं द्रष्टा दर्शनदृश्यभूः ।
कर्ता हेतुः क्रिया यस्मात्तस्मै ज्ञस्यात्मने नमः ॥२॥
स्फुरन्ति सीकरा यस्मादानन्दस्याम्बरेऽवनौ ।
सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः ॥३॥
सुतीक्ष्णो ब्राह्मणः कश्चित्संशयाकृष्टमानसः ।
अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् ॥४॥
सुतीक्ष्ण उवाच।
भगवन्धर्मतत्त्वज्ञ सर्वशास्त्रविनिश्चित ।
संशयोऽस्ति महानेकस्त्वमेतं कृपया वद॥५॥
मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् ।
उभयं वा विनिश्चित्य एकं कथय कारणम् ॥६॥
अगस्तिरुवाच ।
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥७॥
केवलात्कर्मणो ज्ञानान्नहि मोक्षोऽभिजायते ।
किंतूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥८॥
अस्मिन्नर्थे पुरावृत्तमितिहासं वदामि ते ।
कारुण्याख्यः पुरा कश्चिद्ब्राह्मणोऽधीतवेदकः ॥९॥
अग्निवेश्यस्य पुत्रोऽभूद्वेदवेदाङ्गपारगः ।
गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति ॥१०॥
तस्थावकर्मकृत्तूष्णीं संशयानो गृहे तदा ।
अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् ॥११॥
प्राह एतद्वचो निन्द्यं गुरुः पुत्रं हिताय च ।
अग्निवेश्य उवाच ।
किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः ॥१२॥
अकर्मनिरतः सिद्धिं कथं प्राप्स्यसि तद्वद ।
कर्मणोऽस्मान्निवृत्तेः किं कारणं तन्निवेद्यताम् ॥१३॥
कारुण्य उवाच ।
यावज्जीवमग्निहोत्रं नित्यं संध्यामुपासयेत्।
प्रवृत्तिरूपो धर्मोऽयं श्रुत्या स्मृत्या च चोदितः ॥१४॥
न धनेन भवेन्मोक्षः कर्मणा प्रजया न वा ।
त्यागमात्रेण किंत्वेके यतयोऽश्नन्ति चामृतम् ॥१५॥
इति श्रुत्योर्द्वयोर्मध्ये किं कर्तव्यं मया गुरो ।
इति संदिग्धतां गत्वा तूष्णींभूतोऽस्मि कर्मणि ॥१६॥
अगस्तिरुवाच ।
इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः ।
तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥१७॥
अग्निवेश्य उवाच ।
शृणु पुत्र कथामेकां तदर्थं हृदयेऽखिलम् ।
मत्तोऽवधार्य पुत्र त्वं यथेच्छसि तथा कुरु ॥१८॥
सुरुचिर्नाम काचित्स्त्री अप्सरोगणउत्तमा ।
उपविष्टा हिमवतः शिखरे शिखिसंवृते ॥१९॥
रमन्ते कामसंतप्ताः किन्नर्यो यत्र किन्नरैः ।
स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥२०॥
दूतमिन्द्रस्य गच्छन्तमन्तरिक्षे ददर्श सा ।
तमुवाच महाभागा सुरुचिश्चाप्सरोवरा ॥२१॥
सुरुचिरुवाच ।
देवदूत महाभाग कुत आगम्यते त्वया ।
अधुना कुत्र गन्तासि तत्सर्वं कृपया वद ॥२२॥
देवदूत उवाच ।
साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते ।
अरिष्टनेमी राजर्षिर्दत्त्वा राज्यं सुताय वै ॥२३॥
वीतरागः स धर्मात्मा निर्ययौ तपसे वनम् ।
तपश्चरत्यसौ राजा पर्वते गन्धमादने ॥२४॥
कार्यं कृत्वा मया तत्र तत आगम्यतेऽधुना ।
गन्तास्मि पार्श्वे शक्रस्य तं वृत्तान्तं निवेदितुम् ॥२५॥
अप्सरा उवाच ।
वृत्तान्तः कोऽभवत्तत्र कथयस्व मम प्रभो ।
प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि ॥२६॥
देवदूत उवाच ।
शृणु भद्रे यथावृत्तं विस्तरेण वदामि ते ।
तस्मिन्राज्ञि वने तत्र तपश्चरति दुस्तरम् ॥२७॥
इत्यहं देवराजेन सुभ्रूराज्ञापितस्तदा ।
दूत त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम् ॥२८॥
अप्सरोगणसंयुक्तं नानावादित्रशोभितम्।
गन्धर्वसिद्धयक्षैश्च किन्नराद्यैश्च शोभितम् ॥२९॥
तालवेणुमृदङ्गादि पर्वते गन्धमादने ।
नानावृक्षसमाकीर्णे गत्वा तस्मिन्गिरौ शुभे ॥३०॥
अरिष्टनेमिं राजानं दूतारोप्य विमानके ।
आनय स्वर्गभोगाय नगरीममरावतीम् ॥३१॥
दूत उवाच ।
इत्याज्ञां प्राप्य शक्रस्य गृहीत्वा तद्विमानकम् ।
सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ ॥३२॥
आगत्य पर्वते तस्मिन्राज्ञो गत्वाऽऽश्रमं मया ।
निवेदिता महेन्द्रस्य सर्वाज्ञाऽरिष्टनेमये ॥३३॥
इति मद्वचनं श्रुत्वा संशयानोऽवदच्छुभे ।
राजोवाच ।
प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि ॥३४॥
गुणा दोषाश्च के तत्र स्वर्गे वद ममाग्रतः ।
ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येऽहं यथारुचि ॥३५॥
दूत उवाच ।
स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम् ।
उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् ॥३६॥

मध्यमेन तथा मध्यः स्वर्गो भवति नान्यथा ।
कनिष्ठेन तु पुण्येन स्वर्गो भवति तादृशः ॥३७॥
परोत्कर्षासहिष्णुत्वं स्पर्धा चैव समैश्च तैः ॥
कनिष्ठेषु च संतोषो यावत्पुण्यक्षयो भवेत् ॥३८॥
क्षीणे पुण्ये विशन्त्येतं मर्त्यलोकं च मानवाः ॥
इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः ॥३९॥
इति श्रुत्वा वचो भद्रे स राजा प्रत्यभाषत ।
राजोवाच ।
नेच्छामि देवदूताहं स्वर्गमीदृग्विधं फलम् ॥४०॥
अतः परं महोग्रं च तपः कृत्वा कलेवरम् ।
त्यक्ष्याम्यहमशुद्धं हि जीर्णां त्वचमिवोरगः ॥४१॥
देवदूत विमानेदं गृहीत्वा त्वं यथागतः ॥
तथा गच्छ महेन्द्रस्य संनिधौ त्वं नमोऽस्तु ते ॥४२॥
देवदूत उवाच ।
इत्युक्तोऽहं गतो भद्रे शक्रस्याग्रे निवेदितुम ।
यथावृत्तं निवेद्याथ महदाश्चर्यतां गतः ॥४३॥
पुनः प्राह महेन्द्रो मां श्लक्ष्णं मधुरया गिरा ॥
इन्द्र उवाच ।
दूत गच्छ पुनस्तत्र तं राजानं नयाश्रमम् ॥४४॥
वाल्मीकेर्ज्ञाततत्त्वस्य स्वबोधार्थं विरागिणम्।
संदेशं मम वाल्मीकेर्महर्षेस्त्वं निवेदय ॥४५॥
महर्षे त्वं विनीताय राज्ञेऽस्मै वीतरागिणे।
नस्वर्गमिच्छते तत्त्वं प्रबोधय महामुने ॥४६॥
तेन संसारदुःखार्तो मोक्षमेष्यति च क्रमात् ।
इत्युक्त्वा देवराजेन प्रेषितोऽहं तदन्तिके ॥४७॥
मयागत्य पुनस्तत्र राजा वल्मीकजन्मने ।
निवेदितो महेन्द्रस्य राज्ञा मोक्षस्य साधनम् ॥४८॥
ततो वल्मीकजन्मासौ राजानं समपृच्छत ॥
अनामयमतिप्रीत्या कुशलप्रश्नवार्तया ॥४९॥
राजोवाच ।
भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेय विदांवर ।
कृतार्थोऽहं भवद्दृष्ट्या तदेव कुशलं मम ॥५०॥
भगवन्प्रष्टुमिच्छामि तदविघ्नेन मे वद ॥
संसारबन्धदुःखार्तेः कथं मुञ्चामि तद्वद ॥५१॥
वाल्मीकिरुवाच ।
श्रृणु राजन्प्रवक्ष्यामि रामायणमखण्डितम् ।
श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि ॥५२॥
वसिष्ठरामसंवादं मोक्षोपायकथां शुभाम ।
ज्ञातस्वभावो राजेन्द्र वदामि श्रूयतां बुध ॥५३॥
राजोवाच ॥
को रामः कीदृशः कस्य बद्धो वा मुक्त एव वा ।
एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर ॥५४॥
वाल्मीकिरुवाच ॥
शापव्याजवशादेव राजवेषधरो हरिः ।
आहृताज्ञानसंपन्नः किंचिज्ज्ञोऽसौ भवत्प्रभुः ॥५५॥
राजोवाच ।
चिदानन्दस्वरूपे हि रामे चैतन्यविग्रहे।
शापस्य कारणं ब्रूहि कः शप्ता चेति मे वद ॥५६॥
वाल्मीकिरुवाच ।
सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि ।
वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः ॥५७॥
ब्रह्मणा पूजितस्तत्र सल्यलोकनिवासिभिः ।
विना कुमारं तं दृष्ट्रा ह्युवाच प्रभुरीश्वरः ॥५८॥
सनत्कुमार स्तब्धोऽसि निष्कामो गर्वचेष्टया ।
अतस्त्वं भव कामार्तः शरजन्मेति नामतः ॥५९॥
तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् ॥
किंचित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि ॥६०॥
भृगुर्भार्यां हतां दृष्ट्रा ह्युवाच क्रोधमूर्च्छितः ॥
विष्णो तवापि भार्याया वियोगो हि भविष्यति ॥६१॥
वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् ।
अतस्त्वं स्त्रीवियोगं तु वचनान्मम यास्यसि ॥६२॥
भार्या हि देवदत्तस्य पयोष्णीतीरसँस्थिता ।
नृसिंहवेषधृग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥६३॥
तेन शप्तो हि नृहरिर्दुःखार्तः स्त्रीवियोगतः ॥
तवापि भार्यया सार्धं वियोगो हि भविष्यति ॥६४॥
भृगुणैवं कुमारेण शापितो देवशर्मणा ।
वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः ॥६५॥
एतत्ते कथितं सर्वे शापव्याजस्य कारणम् ॥
इदानीं वच्मि तत्सर्वे सावधानमतिः शृणु ॥६६॥

इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वत्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे सूत्रपातनको नाम प्रथमः सर्गः ॥१॥

N/A

References : N/A
Last Updated : July 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP