वैराग्यप्रकरणम् - सर्गः ३
योगवासिष्ठः
भरद्वाज उवाच ।
जीवन्मुक्तस्थितिं व्रह्मन्कृत्वा राघवमादितः ।
क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥१॥
श्रीवाल्मीकिरुवाच ।
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत्।
अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥२॥
दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते ।
कदाचित्केनचिन्नाम स्वबोधोऽन्विष्यतामतः ॥३॥
स चेह संभवत्येव तदर्थमिदमाततम् ।
शास्त्रमाकर्णयसि चेत्तत्त्वमाप्स्यसि नान्यथा ॥४॥
जगद्भ्रमोऽयं दृश्योऽपि नास्त्येवेत्यनुभूयते ।
वर्णो व्योम्न इवाखेदाद्विचारेणामुनाऽनघ ॥५॥
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥६॥
अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह ।
भवत्यकृत्रिमाज्ञानां कल्पैरपि न निर्वृतिः ॥७॥
अशेषेण परित्यागो वासनानां य उत्तमः ।
मोक्षं इत्युच्यते ब्रह्मन्स एव विमलक्रमः ॥८॥
क्षीणायां वासनायां तु चेतो गलति सत्वरम् ।
क्षीणायां शीतसंतत्यां ब्रह्मन्हिमकणो यथा ॥९॥
अयं वासनया देहो ध्रियते भूतपञ्जरः ।
तनुनान्तर्निविष्टेन मुक्तौघस्तन्तुना यथा ॥१०॥
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा ।
मलिना जन्मनो हेतुः शुद्धा जन्मविनाशिनी ॥११॥
अज्ञानसुघनाकारा घनाहंकारशालिनी।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥१२॥
पुनर्जन्माङ्कुरं त्यक्त्वा स्थिता संभृष्टबीजवत्।
देहार्थं ध्रियते ज्ञातज्ञेया शुद्धेति चोच्यते ॥१३॥
अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु ।
वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥१४॥
ये शुद्धवासना भूयो न जन्मानर्थभाजनम् ।
ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥१५॥
जीवन्मुक्तिपदं प्राप्तो यथा रामो महामतिः ।
तत्तेऽहं शृणु वक्ष्याभि जरामरणशान्तये ॥१६॥
भरद्वाज महाबुद्धे रामक्रममिमं शुभम् ।
शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा ॥१७॥
विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः ।
दिवसान्यनयद्गेहे लीलाभिरकुतोभयः ॥१८॥
अथ गच्छति काले तु. पालयत्यवनिं नृपे ।
प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥१९॥
तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः ।
रामस्याभूद्भृशं तत्र कदाचिद्गुणशालिनः ॥२०॥
राघवश्चिन्तयित्वैवमुपेत्य चरणौ पितुः ।
हंसः पद्माविव नवौ जग्राह नखकेसरौ ॥२१॥
श्रीराम उवाच ।
तीर्थानि देवसद्मानि वनान्यायतनानि च ।
द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम् ॥२२॥
तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि ।
न सोऽस्ति भुवने नाथ त्वया योऽर्थी न मानितः ॥२३॥
इति संप्रार्थितो राजा वसिष्ठेन समं तदा ।
विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥२४॥
शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः ।
मङ्गलालंकृतवपुः कृतस्वस्त्ययनो द्विजैः ॥२५॥
वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः ।
स्निग्धैः कतिपयैरेव राजपुत्रवरैः सह ॥२६॥
अम्बाभिर्विहिताशीभिरालिङ्ग्यालिङ्ग्य भूषितः ।
निरगात्स्वगृहात्तस्मात्तीर्थयात्रार्थमुद्यतः ॥२७॥
निर्गतः स्वपुरात्पौरैस्तूर्यघोषेण वादितः ।
पीयमानः पुरस्त्रीणां नेत्रैर्भृङ्गौघभङ्गुरैः ॥२८॥
ग्रामीणललनालोलहस्तपद्मापनोदितैः ।
लाजवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः ॥२९॥
आवर्जयन्विप्रगणान्परिशृण्वन्प्रजाशिषः ।
आलोकयन्दिगन्तांश्च परिचक्राम जाङ्गलान् ॥३०॥
अथारभ्य स्वकात्तस्मात्क्रमात्कोशलमण्डलात् ।
स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥३१॥
नदीतीराणि पुण्यानि वनान्यायतनानि च ।
जङ्गलानि जनान्तेषु तटान्यब्धिमहीभृताम् ॥३२॥
मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् ।
सरस्वतीं शतद्रूं च चन्द्रभागामिरावतीम् ॥३३॥
वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा ।
चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥३४॥
प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा॥
वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥३५॥
मानसं च क्रमसरस्तथैवोत्तरमानसम्।
वडवावदनं चैव तीर्थवृन्दं स सादरम् ॥३६॥
अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा॥
सरांसि सरितश्चैव तथा नदह्रदावलीम् ॥३७॥
स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथा ।
स्थानानि च चतुःषष्टिं हरेरथ हरस्य च ॥३८॥
नानाश्चर्यविचित्राणि चतुरब्धितटानि च ।
विन्ध्यमन्दरकुञ्जांश्च कुलशैलस्थलानि च ॥३९॥
राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च ।
देवानां ब्राह्मणानां चे पावनानाश्रमाञ्छुभान् ॥४०॥
भूयोभूयः स बभ्राम भ्रातृभ्यां सह मानदः।
चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥४१॥
अमरकिन्नरमानवमानितः
समवलोक्य महीमखिलामिमाम् ।
उपययौ स्वगृहं रघुनन्दनो
विहृतदिक् शिवलोकमिवेश्वरः ॥४४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे तीर्थयात्राकरणं नाम तृतीयः सर्गः ॥३॥
N/A
References : N/A
Last Updated : July 12, 2021
TOP