वैराग्यप्रकरणम् - सर्गः १५
योगवासिष्ठः
श्रीराम उवाच ।
मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्धते ।
मिथ्यामयेन भीतोऽस्मि दुरहंकारशत्रुणा ॥१॥
अहंकारवशादेव दोषकोशकदर्थताम् ।
ददाति दीनदीनानां संसारो विविधाकृतिः ॥२॥
अहंकारवशादापदहंकाराहुराधयः ।
अहंकारवशादीहा त्वहंकारो ममामयः ॥३॥
तमहंकारमाश्रित्य परमं चिरवैरिणम् ।
न भुजे न पिबाम्यम्भः किमु भोगान्भुजे मुने ॥४॥
संसाररजनी दीर्घा माया मनसि मोहिनी ।
ततोऽहंकारदोषेण किरातेनेव वागुरा ॥५॥
यानि दुःखानि दीर्घाणि विषमाणि महान्ति च ।
अहंकारात्प्रसूतानि तान्यगात्खदिरा इव ॥६॥
शमेन्दुसैंहिकेयास्यं गुणपद्महिमाशनिम् ।
साम्यमेघशरत्कालमहंकारं त्यजाम्यहम् ॥७॥
नाहं रामो न मे वाञ्छा भावेषु न च मे मनः ।
शान्त आसितुमिच्छामि स्वात्मनीव जिनो यथा ॥८॥
अहंकारवशाद्यद्यन्मया भुक्तं हुतं कृतम् ।
सर्वं तत्तदवस्त्वेव वस्त्वहंकाररिक्तता ॥९॥
अहमित्यस्ति चेद्ब्रह्मन्नहमापदि दुःखितः ।
नास्ति चेत्सुखितस्तस्मादनहंकारिता वरम् ॥१०॥
अहंकारं परित्यज्य मुने शान्तमनस्तया ।
अवतिष्ठे गतोद्वेगो भोगौघो भङ्गुरास्पदः ॥११॥
ब्रह्मन्यावदहंकारवारिदः परिजृम्भते ।
तावद्विकासमायाति तृष्णाकुटजमञ्जरी ॥१२॥
अहंकारघने शान्ते तृष्णा नवतडिल्लता ।
शान्तदीपशिखावृत्त्या क्वापि यात्यतिसत्वरम् ॥१३॥
अहंकारमहाविन्ध्ये मनोमत्तमहागजः ।
विस्फूर्जति घनास्फोटैः स्तनितैरिव वारिदः ॥१४॥
इह देहमहारण्ये घनाहंकारकेसरी ।
योऽयमुल्लसति स्फारस्तेनेदं जगदाततम् ॥१५॥
तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा ।
अहंकारोग्रखिङ्गेन कण्ठे मुक्तावली कृता ॥१६॥
पुत्रमित्रकलत्रादितन्त्रमन्त्रविवर्जितम् ।
प्रसारितमनेनेह मुनेऽहंकारवैरिणा ॥१७॥
प्रमार्जितेऽहमित्यस्मिन्पदे स्वयमपि द्रुतम् ।
प्रमार्जिता भवन्त्येते सर्व एव दुराधयः ॥१८॥
अहमित्यम्बुदे शान्ते शनैश्च शमशातिनी ।
मनोगगनसंमोहमिहिका क्वापि गच्छति ॥१९॥
निरहंकारवृत्तेर्मे मौर्ख्याच्छोकेन सीदतः ।
यत्किंचिदुचितं ब्रह्मंस्तदाख्यातुमिहार्हसि ॥२०॥
सर्वापदां निलयमध्रुवमन्तरस्थ-
मुन्मुक्तमुत्तमगुणेन न संश्रयामि ।
यत्नादहंकृतिपदं परितोऽतिदुःखं
शेषेण मां समनुशाधि महानुभाव ॥२१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे अहंकारजुगुप्सा नाम पञ्चदशः सर्गः ॥१५॥
N/A
References : N/A
Last Updated : July 12, 2021
TOP