वैराग्यप्रकरणम् - सर्गः १९
योगवासिष्ठः
श्रीराम उवाच ।
लब्ध्वापि तरलाकारे कार्यभारतरंगिणि ।
संसारसागरे जन्म बाल्यं दुःखाय केवलम् ॥१॥
अशक्तिरापदस्तृष्णा मूकता मूढबुद्धिता ।
गृध्नुता लोलता दैन्यं सर्वं बाल्ये प्रवर्तते ॥२॥
रोषरोदनरौद्रासु दैन्यजर्जरितासु च ।
दशासु बन्धनं बाल्यमालानं करिणामिव ॥३॥
न मृतौ न जरारोगे न चापदि न यौवने ।
ताश्चिन्ताः परिकृन्तन्ति हृदयं शैशवेषु याः ॥४॥
तिर्यग्जातिसमारम्भः सर्वैरेवावधीरितः ।
लोलो बालसमाचारो मरणादपि दुःखदः ॥५॥
प्रतिबिम्बघनाज्ञानं नानासंकल्पपेलवम् ।
बाल्यमालूनसंशीर्णमनः कस्य सुखावहम् ॥६॥
जलवह्नयनिलाजस्रजातभीत्या पदे पदे ।
यद्भयं शैशवेऽबुद्ध्या कस्यापदि हि तद्भवेत् ॥७॥
लीलासु दुर्विलासेषु दुरीहासु दुराशये ।
परमं मोहमाधत्ते बालो बलवदापतन् ॥८॥
विकल्पकल्पितारम्भं दुर्विलारसं दुरास्पदम् ।
शैशवं शासनायैव पुरुषस्य न शान्तये ॥९॥
ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः ।
ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः ॥१०॥
बाल्यं रम्यमिति व्यर्थबुद्धयः कल्पयन्ति ये ।
तान्मूर्खपुरुषान्ब्रह्मन्धिगस्तु हृतचेतसः ॥११॥
यत्र दोलाकृति मनः परिस्फुरति वृत्तिषु ।
त्रैलोक्याऽभव्यमपि तत्कथं भवति तुष्टये ॥१२॥
सर्वेषामेव सत्त्वानां सर्वावस्थाभ्य एव हि ।
मनश्चञ्चलतामेति बाल्ये दशगुणं मुने ॥१३॥
मनः प्रकृत्यैव चलं बाल्यं च चलतां वरम् ।
तयोः संश्लिष्यतोस्त्राता क इवान्तः कुचापले ॥१४॥
स्त्रीलोचनैस्तडित्पुञ्जैर्ज्वलाजालैस्तरङ्गकैः ।
चापलं शिक्षितं ब्रह्मञ्छैशवाक्रान्तचेतसः ॥१५॥
शैशवं च मनश्चैव सर्वास्वेव हि वृत्तिषु ।
भ्रातराविव लक्ष्येते सततं भङ्गुरस्थिती ॥१६॥
सर्वाणि दुःखभूतानि सर्वे दोषा दुराधयः ।
बालमेवोपजीवन्ति श्रीमन्तमिव मानवाः ॥१७॥
नवं नवं प्रीतिकरं न शिशुः प्रत्यहं यदि ।
प्राप्नोति तदसौ याति विषवैषम्यमूर्च्छनाम् ॥१८॥
स्तोकेन वशमायाति स्तोकेनैति विकारिताम् ।
अमेध्य एव रमते बालः कौलेयको यथा ॥१९॥
अजस्रवाष्पवदनः कर्दमाक्तो जडाशयः ।
वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशः शिशुः ॥२०॥
भयाहारपरं दीनं दृष्टादृष्टाभिलाषि च ।
लोलबुद्धि वपुर्धत्ते बाल्यं दुःखाय केवलम् ॥२१॥
स्वसंकल्पाभिलषितान्भावानप्राप्य तप्तधीः ।
दुःखमेत्यबलो बालो विनिष्कृत्त इवाशये ॥२२॥
दुरीहालब्धलक्षाणि बहुवक्रोल्बणानि च ।
बालस्य यानि दुःखानि मुने तानि न कस्यचित् ॥२३॥
बालो बलवता स्वेन मनोरथविलासिना ।
मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थली ॥२४॥
विद्यागृहगतो बालो परामेति कदर्थनाम् ।
आलान इव नागेन्द्रो विषवैषम्यभीषणाम् ॥२५॥
नानामनोरथमयी मिथ्याकल्पितकल्पना ।
दुःखायात्यन्तदीर्घाय बालता पेलवाशया ॥२६॥
संहृष्टो भुवनं भोक्तमिन्दुमादातुमम्बरात् ।
वाञ्छते येन मौर्ख्येण तत्सुखाय कथं भवेत् ॥२७॥
अन्तश्चित्तेरशक्तस्य शीतातपनिवारणे ।
को विशेषो महाबुद्धे बालस्योर्वीरुहस्तथा ॥२८॥
उड्डीतुमभिवाञ्छन्ति पक्षाभ्यां क्षुत्परायणाः ।
भयाहारपरा नित्यं बाला विहगधर्मिणः ॥२९॥
शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा ।
जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् ॥३०॥
सकलदोषदशाविहताशयं
शरणमप्यविवेकविलासिनः ।
इह न कस्यचिदेव महामुने
भवति बाल्यमलं परितुष्टये ॥३१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे बाल्यजुगुप्सानामैकोनविंशः सर्गः ॥१९॥
N/A
References : N/A
Last Updated : July 12, 2021
TOP