वैराग्यप्रकरणम् - सर्गः १८
योगवासिष्ठः
श्रीराम उवाच ।
आर्द्रान्त्रतन्त्रीगहनो विकारी परिपातवान् ।
देहः स्फुरति संसारे सोऽपि दुःखाय केवलम् ॥१॥
अज्ञोऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः ।
युक्त्या भव्योऽप्यभव्योऽपि न जडो नापि चेतनः॥२॥
जडाजडदृशोर्मध्ये दोलायितदुराशयः ।
अविवेकी विमूढात्मा मोहमेव प्रयच्छति ॥३॥
स्तोकेनानन्दमायाति स्तोकेनायाति खेदिताम् ।
नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ॥४॥
आगमापायिना नित्यं दन्तकेसरशालिना ।
विकासस्मितपुष्पेण प्रतिक्षणमलंकृतः ॥५॥
भुजशाखो घनस्कन्धो द्विजस्तम्भशुभस्थितिः ।
लोचनालिविलाक्रान्तः शिरःपीठबृहत्फलः ॥६॥
श्रवदन्तरसग्रस्तो हस्तपादसुपल्लवः ।
गुल्मवान्कार्यसंघातो विहङ्गमकृतास्पदः ॥७॥
सच्छायो देहवृक्षोऽयं जीवपान्थगणास्पदः ।
कस्यात्मीयः कस्य पर आस्थानास्थे किलात्र के ॥८॥
तात संतरणार्थेन गृहीतायां पुनःपुनः ।
नावि देहलतायां च कस्य स्यादात्मभावना ॥९॥
देहनाम्नि वने शून्ये बहुगर्तसमाकुले ।
तनूरुहासंख्यतरौ विश्वासं कोऽधिगच्छति ॥१०॥
मांसस्नाय्वस्थिवलिते शरीरपटहेऽदृढे ।
मार्जारवदहं तात तिष्ठाम्यत्र गतध्वनौ ॥११॥
संसारारण्यसंरूढो विलसच्चित्तमर्कटः ।
चिन्तामञ्जरिताकारो दीर्घदुःखघुणक्षतः ॥१२॥
तृष्णाभुजङ्गमीगेहं कोप काक कृतालयः ।
स्मितपुण्योद्गमः श्रीमाञ्छुभाशुभमहाफलः ॥१३॥
सुस्कन्धोघलताजालो हस्तस्तबकसुन्दरः ।
पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥१४॥
सर्वेन्द्रियखगाधारः सुजानुस्तम्भ उन्नतः ।
सरसच्छायया युक्तः कामपान्थनिषेवितः ॥१५॥
मूर्धसंजनिताऽऽदीर्घशिरोरुहतृणावलिः ।
अहंकारगृध्रकृतकुलायः सुषिरोदरः ॥१६॥
विच्छिन्नवासनाजालमूलत्वाद्दुर्लवाकृतिः ।
व्यायामविरसः कायप्लक्षोऽयं न सुखाय मे ॥१७॥
कलेवरमहंकारगृहस्थस्य महागृहम् ।
लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम ॥१८॥
पङ्क्तिबद्धेन्द्रियपशुं वलत्तृष्णागृहाङ्गनम् ।
रागरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम ॥१९॥
पृष्ठास्थिकाष्ठसंघट्टपरिसंकटकोटरम् ।
आन्त्ररज्जुभिराबद्धं नेष्टं देहगृहं मम ॥२०
प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् ।
जरामङ्कोलधवलं नेष्टं देहगृहं मम ॥२१॥
चित्तभृत्यकृतानन्तचेष्टावष्टब्धसंस्थिति ।
मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम ॥२२॥
दुःखार्भककृताक्रन्दं सुखशय्यामनोरमम् ।
दुरीहादग्धदासीकं नेष्टं देहगृहं मम ॥२३॥
मलाढ्यविषयव्यूहभाण्डोपस्करसंकटम् ।
अज्ञानक्षारवलितं नेष्टं देहगृहं मम ॥२४॥
गुल्फगुग्गुलुविश्रान्तजानूर्ध्वस्तम्भमस्तकम् ।
दीर्घदोर्दारुसुदृढं नेष्टं देहगृहं मम ॥२५॥
प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गनम् ।
चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ॥२६॥
मूर्धजाच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् ।
आदीर्घाङ्गुलिनिर्व्यूहं नेष्टं देहगृहं मम ॥२७॥
सर्वाङ्गकुड्यसंघातघनरोमयवाङ्कुरम् ।
संशून्यपेटविवरं नेष्टं देहगृहं मम ॥२८॥
नखोर्णनाभिनिलयं सरमारणितान्तरम् ।
भाङ्कारकारिपवनं नेष्टं देहगृहं मम ॥२९॥
प्रवेशनिर्गमव्यग्रवातवेगमनारतम् ।
वितताक्षगवाक्षं तन्नेष्टं देहगृहं मम ॥३०॥
जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् ।
दृष्टदन्तास्थिशकलं नेष्टं देहगृह मम ॥३१॥
त्वक्सुधालेपमसृणं यन्त्रसंचारचञ्चलम् ।
मनः सदाखुनोत्खातं नेष्टं देहगृहं मम ॥३२॥ आखु
स्मितदीपप्रभोद्भासि क्षणमानन्दसुन्दरम् ।
क्षणं व्याप्तं तमःपूरैर्नेष्टं देहगृहं मम ॥३३॥
समस्तरोगायतनं वलीपलितपत्तनम् ।
सर्वाधिसारगहनं नेष्टं देहगृहं मम ॥३४॥
अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा ।
तमोगहनदिक्कुञ्जा नेष्टा देहाटवी मम ॥३५॥
देहालयं धारयितुं न शक्नोमि मुनीश्वर ।
पङ्कमग्नं समुद्धर्तुं गजमल्पबलो यथा ॥३६॥
किं श्रिया किं च राज्येन किं कायेन किमीहितैः ।
दिनैः कतिपयैरेव कालः सर्वं निकृन्तति ॥३७॥
रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने ।
नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥३८॥
मरणावसरे काया जीवं नानुसरन्ति ये ।
तेषु तात कृतघ्नेषु कैवास्था वद धीमताम् ॥३९॥
मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः ।
न संत्यजति मां यावत्तावदेनं त्यजाम्यहम् ॥४०॥
पवनस्पन्दतरलः पेलवः कायपल्लवः ।
जर्जरस्तनुवृत्तश्च नेष्टो मे कटुनीरसः ॥४१॥
भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवाम् ।
तनुतामेत्य यत्नेन विनाशमनुधावति ॥४२॥
तान्येव सुखदुःखानि भावाभावमयान्यसौ ।
भूयोऽप्यनुभवन्कायः प्राकृतो हि न लज्जते ॥४३॥
सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् ।
नोच्छ्रायमेति न स्थैर्यं कायः किमिति पाल्यते ॥४४॥
जराकाले जरामेति मृत्युकाले तथा मृतिम् ।
सम एवाविशेषज्ञः कायो भोगिदरिद्रयोः ॥४५॥
संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे ।
सुप्तस्तिष्ठति मुक्तेहो मूकोऽयं कायकच्छपः ॥४६॥
दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः ।
संसाराब्धाविहोह्यन्ते कंचित्तेषु नरं विदुः ॥४७॥
दीर्घदौरात्म्यवलया निपातफलपातया ।
न देहलतया कार्यं किंचिदस्ति विवेकिनः ॥४८॥
मज्जन्कर्दमकोशेषु झटित्येव जरां गतः ।
न ज्ञायते यात्यचिरात्कः कथं देहदर्दुरः ॥४९॥
निःसारसकलारम्भाः कायाश्चपलवायवः ।
रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥५०॥
वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः ।
आगच्छतश्च भगवञ्छरीरस्य कदाचन ॥५१॥
बद्धास्था ये शरीरेषु बद्धास्था ये जगत्स्थितौ ।
तान्मोहमदिरोन्मत्तान्धिग्धिगस्तु पुनःपुनः ॥५२॥
नाहं देहस्य नो देहो मम नायमहं तथा ।
इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥५३॥
मानावमानबहुला बहुलाभमनोरमाः ।
शरीरमात्रबद्धास्थं घ्नन्ति दोषदृशो नरम् ॥५४॥
शरीरश्वभ्रशायिन्या पिशाच्या पेशलाङ्गया ।
अहंकारचमत्कृत्या छलेन छलिता वयम् ॥५५॥
प्रज्ञा वराका सर्वैव कायबद्धास्थयानया ।
मिथ्याज्ञानकुराक्षस्या छलिता कष्टमेकिका ॥५६॥
न किंचिदपि दृश्येऽस्मिन्सत्यं तेन हतात्मना ।
चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥५७॥
दिनैः कतिपयैरेव निर्झराम्बुकणो यथा ।
पतत्ययमयत्नेन जरठः कायपल्लवः ॥५८॥
कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव ।
व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥५९॥
मिथ्याज्ञानविकारेऽस्मिन्स्वप्नसंभ्रमपत्तने ।
काये स्फुटतरापाये क्षणमास्था न मे द्विज ॥६०॥
तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च ।
स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥६१॥
सततभङ्गुरकार्यपरम्परा
विजयिजातजयं हठवृत्तिषु ।
प्रबलदोषमिदं तु कलेवरं
तृणमिवाहमपोह्य सुखं स्थितः ॥६२॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कायजुगुप्सानामाष्टादशः सर्गः ॥१८॥
N/A
References : N/A
Last Updated : July 12, 2021
TOP