अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः ५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ब्रह्मोवाच ॥
अरण्याद्गौतमं शांतमुटजद्वार आगतम् ॥
प्रत्याधातुं प्रववृते शिवभक्तिर्जगन्मयी ॥१॥
आलुलोके समायातं गौतमं शिष्यसेवितम् ॥
लंबमानशिरःश्मश्रुसम्पूर्णमुखमण्डलम् ॥२॥
जटाभिरतिताम्राभिस्तीर्थस्नानविशुद्धिभिः ॥
न्यस्तरुद्राक्षमणिभिर्ज्वालाभिरिव पावकम् ३॥
भस्मत्रिपुण्ड्रकोपेतविशालनिटिलोज्वलम् ॥
शुक्लयज्ञोपवीतेन पूर्णं रुद्राक्षदामभिः ॥४॥
दधानं वल्कले रक्ते तपः कृशितविग्रहम् ॥
जपंतं वैदिकान्मंत्रान्रुद्रप्रीतिकरान्बहून् ॥५॥
शम्भुनावसितोदात्तसारूप्यमिव भाषितम् ॥
तेजोनिधिं दयापूर्णं प्रत्यक्षमिव भास्करम् ॥६॥
आलोक्य तं महात्मानं वृद्धं शंभुपदाश्रयम् ॥
कृतांजलिपुटा गौरी प्रणन्तुमुपचक्रमे ॥७॥
कृतांजलिं मुनिर्वीक्ष्य समस्तजगदम्बिकाम् ॥
किमेतदिति साश्चर्यं वारयन्प्रणनाम सः ॥८॥
स्वागतं गौरि सुभगे लोकमातर्दयानिधे ॥
व्याजेन भक्तसंरक्षां कर्तुमत्रागतास्यहो ॥९॥
अहो मान्ये मान्यमर्थं विज्ञायैव पुरा वयम् ॥
पृथग्भावमिवालंब्य शिष्यादिभिः समागताः ॥१०॥
यद्देवि ते न चेत्किंचिन्मायाविलसितन्निजम् ॥
ततः प्रपंचसंसिद्धिः कथमेव भविष्यति ॥११॥
तिष्ठत्वशेषं मे वक्तुं मायाविलसितं तव ॥
न शक्यते यन्निर्णेतुं त्वदीयैश्च कदाचन ॥१२॥
आस्यतां पावने शुद्धं आसने कुशनिर्मिते ॥
गृह्यतां पाद्यमर्घं च दत्तं च विधिवन्मया ॥१३॥
इति शिष्यैः समानीते दर्भांके परमासने ॥
आसीनामंबिकां वृद्धो मुनिरानर्च भक्तिमान् ॥१४॥
निवेद्य सकलां पूजां भक्तिभावसमन्वितः ॥
गौर्या समभ्यनुज्ञातः स्वयमप्यासने स्थितः ॥१५॥
उवाच दशनज्योत्स्नापरिधौतदिशामुखः ॥
पुलकांचितसर्वांगः सानंदाश्रु सगद्गदम् ॥१६॥
अहो देवस्य माहात्म्यं शम्भोरमिततेजसः ॥
सद्भक्त रक्षणाय त्वामादिशद्भक्तवत्सलः ॥१७॥
असिद्धमन्यल्लब्धव्यं किं वान्यत्तव विद्यते ॥
अम्बैतद्भक्तिमाहात्म्यं संदर्शयितुमीश्वरः ॥१८॥
कैलासशैलवृत्तांतः कंपातटतपःस्थितः ॥
अरुणाद्रिसमादेशः सर्वं ज्ञातमिदं मया ॥१९॥
आगतासि महाभागे भक्ताश्रममिमं स्वयम् ॥
स्नेहेन करुणामूर्ते कर्त्तव्यमुपदिश्यताम् ॥२०॥
इति तस्य वचः श्रुत्वा महर्षेः सर्ववेदिनः ॥
अंबिका प्राह कुतुकात्स्तुवन्ती तं महामुनिम् ॥२१॥
महावैभवमेतत्ते देवदेवः स्वयं शिवः ॥
मध्ये तपस्विनां त्वं तु द्रष्टव्य इति चादिशत् ॥२२॥
आगमानां शिवोक्तानां वेदानामपि पारगः ॥
तपसा शंभुभक्तानां त्वमेव शिवसंमतः ॥२३॥
अरुणाचल नाम्नाहं तिष्ठामीत्यब्रवीच्छिवः ॥
अस्याचलस्य माहात्म्यं श्रोतव्यं च भवन्मुखात् ॥२४॥
प्राप्तास्म्यहं तपः कर्तुमरुणाचलसन्निधौ ॥
भवतां दर्शनादेव स्वयमीशः प्रसीदति ॥२५॥
शिवभक्तेन संभाषा शिवसंकीर्त्तनश्रवः ॥
शिवलिंगार्चनं लोके वपुर्ग्रहफलोदयः ॥२६॥
तस्मान्ममैतन्माहात्म्यं श्रोतव्यं भवतो मुखात् ॥
सुव्यक्तमुपदेशेन ज्ञानतोऽसि पिता मम ॥२७॥
इति तस्या वचः श्रुत्वा गौतमस्तपसां निधिः ॥
आचख्यौ गिरिशं ध्यायन्नरुणाचलवैभवम् ॥२८॥
अज्ञातमिव यत्किंचित्पृच्छ्यते च पुनस्त्वया ॥
अवैमि सर्वविद्यानां माया शैवी त्वमेव सा ॥२९॥
अथवा भक्तवक्त्रेण शिववैभवसंश्रवः ॥
शिक्षणं शांभवं तेषां तव तुष्टेश्च कारणम् ॥३०॥
पठितानां च वेदानां यदावृत्तफलावहम् ॥
वदतां शृण्वतां लोके शिवसंकीर्त्तनं तथा ॥३१॥
 सफलान्यद्य सर्वाणि तपांसि चरितानि मे ॥
यदहं शंभुनादिष्टं माहात्म्यं कीर्त्तये श्रुतम् ॥३२॥
शिवाशिवप्रसादेन माहात्म्यमिदमद्भुतम् ॥३३॥
अरुणाचलमाहात्म्यं दुरितक्षयकारणम् ॥
श्रूयतामनवद्यांगि पुरावृत्तमिदं महत् ॥३४॥
अरुणाद्रिमयं लिंगमाविर्भूतं यथा पुरा ॥
न शक्यते पुनर्वक्तुमशेषं वक्त्रकोटिभिः ॥३५॥
अरुणाचलमाहात्म्यं ब्रह्मणामपि कोटिभिः ॥
ब्रह्मणा विष्णुना पूर्वं सोमभास्करवह्निभिः ॥३६॥
इन्द्रादिभिश्च दिक्पालैः पूजितश्चाष्टसिद्धये ॥
सिद्धचारणगंधर्व यक्षविद्याधरोरगैः ॥३७॥
खगैश्च मुनिभिर्दिव्यैः सिद्धयोगिभिरर्चितः ॥
तत्तत्पापनिवृत्त्यर्थं तत्तदीप्सितसिद्धये ॥३८॥
आराधितोऽयं भगवानरुणाद्रिपतिः शिवः ॥
दृष्टो हरति पापानि सेवितो वांछितप्रदः ॥३९॥
कीर्तितोपि जनैर्दूरैः शोणाद्रिरिति मुक्तिदः ॥
तेजःस्तंभमयं रूपमरुणाद्रिरिति श्रुतम् ॥४०॥
ध्यायन्तो योगिनश्चित्ते शिवसायुज्यमाप्नुयुः ॥
दत्तं हुतं च यत्किंचिज्जप्तं चान्यत्तपः कृतम् ॥४१॥
अक्षय्यं भवति प्राप्तमरुणाचलसंनिधौ ॥
पुरा ब्रह्मा च विष्णुश्च शिवतेजोंशसंभवौ ॥४२॥
साहंकारौ युयुधतुः परस्परजिगीषया ॥
तथा तयोर्गर्वशांत्यै योगिध्येयः सदाशिवः ॥४३॥
अग्नितेजोमयं रूपमादिमध्यांतवर्जितम् ॥
संप्राप्य तस्थौ तन्मध्ये दिशो दश विभासयन् ॥४४॥
तेजःस्तंभस्य तस्याथ द्रष्टुमाद्यंतभागयोः ॥
हंसक्रोडतनू कृत्वा जग्मतुर्द्यां रसातलम् ॥४५॥
तौ विषण्णमुखौ दृष्ट्वा भगवान्करुणानिधिः ॥
आविर्बभूव च तयोर्वरं प्रादादभीप्सितम् ॥४६॥
तत्प्रार्थितश्च देवेशो यातः स्थावरलिंगताम् ॥
अरुणाद्रिरिति ख्यातः प्रशांतः संप्रकाशते ॥४७॥
दिव्यदुन्दुभिनिर्घोषैरप्सरोगीतनर्त्तनैः ॥
पूज्यते तैजसं लिंगं पुष्पवृष्टिशतैः सदा ॥४८॥
ब्रह्मणामप्यतीतानां पुरा षण्णवतेः प्रभुः ॥
विष्णुनाभिसमुद्भूतो ब्रह्मा लोकान्ससर्ज हि ॥४९॥
स कदाचित्तपोविघ्नं कर्तुकामेन योगिनाम् ॥
इंद्रेण प्रार्थितो ब्रह्मा ससर्ज ललितां स्त्रियम् ॥५०॥
लावण्यगुणसंपूर्णामालोक्य कमलेक्षणाम् ॥
मुमोह कंदर्पशरैः स विद्धहृदयो विधिः ॥५१॥
स्प्रष्टुकामं तमालोक्य ब्रह्माणं कमलासनम् ॥
नत्वा प्रदक्षिणव्याजाद्गंतुमैच्छद्वराप्सराः ॥५२॥
अस्यां प्रदक्षिणां भक्त्या कुर्वाणायां प्रजापतेः ॥
चतसृभ्योऽपि दिग्भ्योऽस्य मुखान्युदभवन्क्षणात् ॥५३॥
सा बाला पक्षिणी भूत्वा गगनं समगाहत ॥
पुनश्च खगरूपेण समायांतं समीक्ष्य सा ॥५४॥
शरणं याचमाना सा शोणाद्रिमिममाश्रयत् ॥
ब्रह्मणा विष्णुना च त्वमदृष्टपदशेखरः ॥५५॥
रक्ष मामरुणाद्रीश शरण्य शरणागताम् ॥
इति तस्यां भयार्त्तायां क्रोशंत्यामरुणाचलात् ॥५६॥
उदभूत्स्थावराल्लिंगाद्व्याधः कश्चिद्धनुर्द्धरः ॥
संधाय सायकं चापे समेघगगनद्युतिः ॥५७॥
निषादे पुरतो दृष्टे मोहस्तस्य ननाश हि ॥
ततः प्रसन्नहृदयोतिनम्रः कमलोद्भवः ॥५८॥
नमश्चक्रे शरण्याय शोणाद्रिपतये तदा ॥
सर्वपापक्षयकृते नमस्तुभ्यं पिनाकिने ॥५९॥
अरुणाचलरूपाय भक्ववश्याय शंभवे ॥
अजानतां स्वभक्तानामकर्मविनिवर्त्तने ॥६०॥
त्वदन्यः कः प्रभुः कर्तुमशक्यं चापि देहिनाम् ॥
उपसंहर मे देहं तेजसा पापनिश्चयम् ॥६१॥
अन्यं वा सृज विश्वात्मन्ब्रह्माणं लोकसृष्टये ॥
अथ तस्य वचः श्रुत्वा शिवो दीनस्य वेधसः ॥६२॥
उवाच करुणामूर्तिर्भूत्वा चंद्रार्द्धशेखरः ॥
दत्तः कालस्तव मया पुरैव न निवर्त्यते ॥६३॥
कं वा रागादयो दोषा न बाधेरन्प्रभुस्थितम् ॥
 तस्माद्दूरस्थितोऽप्येतदरुणाचलसंज्ञितम् ॥६४॥
भजस्व तैजसं लिंगं सर्वदोषनिवृत्तये ॥
वाचिकं मानसं पापं कायिकं वा च यद्भवेत् ॥६५॥
विनश्यति क्षणात्सर्वमरुणाचलदर्शनात् ॥
प्रदक्षिणा नमस्कारैः स्मरणैरर्चनैः स्तवैः ॥६६॥
अरुणाद्रिरयं नृणां सर्वकल्मषनाशनः ॥
कैलासे मेरुशृंगे वा स्वस्थानेषु कलाद्रिषु ॥६७॥
संदृश्यः कश्चिदेवाहमरुणाद्रिरयं स्वयम् ॥
यच्छृंगदर्शनान्नॄणां चक्षुर्लाभेन केवलम् ॥६८॥
भवेत्सर्वाघनाशश्च लाभश्च ज्ञानचक्षुषः ॥
मदंशसंभवो ब्रह्मा स्वनाम्ना ब्रह्मपुष्करे ॥६९॥
अत्र स्नातः पुरा ब्रह्मन्मोहोऽगाज्जगतीपतेः ॥
स्नात्वा त्वं ब्रह्मतीर्थे मां समभ्यर्च्य कृतांजलिः ॥७०॥
मौनी प्रदक्षिणं कृत्वा विश्वात्मन्भव विज्वरः ॥७१॥
इति वचनमुदीर्य विश्वनाथं स्थितमरुणाचलरूपतो महेशम् ॥
अथ सरसि निमज्य पद्मजन्मा दुरितहरं समपूजयत्क्रमेण ॥७२॥
इममरुणगिरीशमेष वेधा यमनियमादिविशुद्धचित्तयोगः ॥
स्फुटतरमभिपूज्य सोपचारं गतदुरितोऽथ जगाम चाधिपत्यम् ॥७३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मपुष्करमाहात्म्यवर्णनंनाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP