अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः ९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ गौतम उवाच ॥
भगवन्नरुणाद्रीश नामधेयानि ते भृशम् ॥
विशेषाच्छ्रोतुमिच्छामि स्थानेऽस्मिन्सुरपूजिते ॥१॥
 ॥ महेश्वर उवाच ॥
नामानि शृणु मे ब्रह्मन्मुख्यानि द्विजसत्तम ॥
दुर्लभान्यल्पपुण्यानां कामदानि सदा भुवि ॥२॥
शोणाद्रीशोऽरुणाद्रीशो देवाधीशो जनप्रियः ॥
प्रपन्नरक्षको धीरः शिवसेवकवर्धकः ॥३॥
अक्षिपेयामृतेशानः स्त्रीपुंभावप्रदायकः ॥
भक्तविज्ञप्तिसंधाता दीनबंदिविमोचकः ॥४॥
मुखरांघ्रिपतिः श्रीमान्मृडो मृगमदेश्वरः ॥
भक्तप्रेक्षणकृत्साक्षी भक्तदोषनिवर्त्तकः ॥५॥
ज्ञानसंबंधनाथश्च श्रीहलाहलसुंदकः ॥
आहवैश्वर्यदाता च स्मर्तृसर्वाघनाशनः ॥६॥
व्यत्यस्तनृत्यद्धृजधृक्सकांतिर्नटनेश्वरः ॥
सामप्रियः कलिध्वंसी वेदमूर्तिर्निरंजनः ॥७॥
जगन्नाथो महादेवस्त्रिनेत्रस्त्रिपुरांतकः ॥
भक्तापराधसोढा च योगीशो भोगनायकः ॥८॥
बालमूर्त्तिः क्षमारूपी धर्मरक्षो वृषध्वजः ॥
हरो गिरीश्वरो भर्गश्चंद्ररेखावतंसकः ॥९॥
स्मरांतकोंऽधकरिपुः सिद्धराजो दिगंबरः ॥
आगमप्रिय ईशानो भस्मरुद्राक्षलांछनः ॥१०॥
श्रीपतिः शंकरः स्रष्टा सर्वविद्येश्वरोऽनघः ॥
गंगाधरः क्रतुध्वंसो विमलो नागभूषणः ॥११॥
अरुणो बहुरूपश्च विरूपाक्षोऽक्षराकृतिः ॥
अनादिरंतरहितः शिवकामः स्वयंप्रभुः ॥१२॥
सच्चिदानंदरूपश्च सर्वात्मा जीवधारकः ॥
स्त्रीसंगवामसुभगो विधिर्विहितसुंदरः ॥१३॥
ज्ञानप्रदो मुक्तिदश्च भक्तवांछितदायकः ॥
आश्चर्यवैभवः कामी निरवद्यो निधिप्रदः ॥१४॥
शूली पशुपतिः शंभुः स्वयंभुर्गिरिशो मृडः ॥
एतानि मम मुख्यानि नामान्यत्र महामुने ॥१५॥
अन्यानि दिव्यनामानि पुराणोक्तानि संस्मर ॥
प्रदक्षिणेन मां नित्यं विशेषात्त्वं समर्चय ॥१६॥
प्रदक्षिणप्रियो यस्मादहं शोणाचलाकृतिः ॥
इत्याज्ञप्तो महादेवमर्चयन्नरुणाचलम् ॥
अविमुंचन्निहावासं कृतवानहमद्रिजे ॥१७॥
॥ गौर्युवाच ॥
भगवन्सर्वधर्मज्ञ गौतमार्य्य मुनीश्वर ॥
प्रदक्षिणस्य माहात्म्यं ब्रूहि मे शोणभूभृतः ॥१८॥
कस्मिन्काले कथं कार्यं कैर्वा पूर्वं प्रदक्षिणम् ॥
कृतं शोणाद्रिनाथस्य प्राप्तमिष्टं परं पदम् ॥१९॥
 ॥ ब्रह्मोवाच ॥
इति पृष्टो मुनिः प्राह गौतमः शैलकन्यकाम् ॥
श्रूयतां देवि माहात्म्यमादिशन्मे महेश्वरः ॥२०॥
 ॥ महादेव उवाच ॥
अहं हि शोणशैलात्मा प्रकाशो वसुधातले ॥२१॥
परितो मां सुराः सर्वे वर्तंते मुनिभिः सह ॥२२॥
यानि कानि च पापानि जन्मांतरकृतानि च ॥
तानि तानि विनश्यंति प्रदक्षिणपदे पदे ॥२३॥
अश्वमेधसहस्राणि वाजपेयायुतानि च ॥
सिद्ध्यंति सर्वतीर्थानि प्रदक्षिणपदे पदे ॥२४॥
अपि प्रहीणस्य समस्तलक्षणैः क्रियाविहीनस्य निकृष्टजन्मनः ॥
प्रदक्षिणीकृत्य शशांकशेखरं प्रयास्यतः कस्य न सिद्धिरग्रतः ॥२५॥
समस्त तीर्थाभिगमेषु पुण्यं समस्तयज्ञागमधर्मजातम् ॥
अवाप्यते शोणमहीधरस्य प्रदक्षिणाप्रक्रमणेन सत्यम् ॥२६॥
पदेनैकेन भूलोकं द्वितीयेनांतरिक्षकम् ॥
तृतीयेन दिवं मर्त्यो जयत्यस्य प्रदक्षिणे ॥२७॥
एकेन मानसं पापं द्वितीयेन तु वाचिकम् ॥
कायिकं तु तृतीयेन पदेन क्षीयते नृणाम् ॥२८॥
पातकानि च सर्वाणि पदेनैकेन मार्जयेत् ॥
द्वितीयेन तपः सर्वं प्राप्नोत्यस्य प्रदक्षिणात् ॥२९॥
पर्णशाला महर्षीणां सिद्धानां च सहस्रशः ॥
सुराणां च तथाऽऽवासा विद्यंतेत्र सहस्रशः ॥३०॥
अत्र सिद्धः पुनर्नित्यं वसाम्यग्रे सुरार्चितः ॥
ममांतरे गुहा दिव्या ध्यातव्या भोगसंयुता ॥३१॥
अग्निस्तंभमयं रूपमरुणादिरिति श्रुतम् ॥
ध्यायँल्लिंगं मम बृहत्मन्दं कुर्यात्प्रदक्षिणम् ॥३२॥
अष्टमूर्तिमयं लिंगमिदं यैस्तैजसं भृशम् ॥
ध्यात्वा प्रदक्षिणं कुर्वन्पातकानि विनिर्दहेत् ॥३३॥
न पुनः संभवस्तस्य यः करोति प्रदक्षिणाम् ॥
शोणाचलाकृतेर्नित्यं नित्यत्वं ध्रुवमश्नुते ॥३४॥
अस्य पादरजःस्पर्शात्पूयते सकला मही ॥
पदमेकं तु धत्ते यः शोणाद्रीशप्रदक्षिणे ॥३५॥
नमस्कुर्वन्प्रतिदिशं ध्यायन्स्तौति कृतांजलिः ॥
असंसृष्टकरः कैश्चिन्मंदं कुर्यात्प्रदक्षिणम् ॥३६॥
आसन्नप्रसवा नारी यथा गच्छेदनाकुलम् ॥
तथा प्रदक्षिणं कुर्यादशृण्वंश्च पदध्वनिम् ॥३७॥
स्नातो विशुद्धवेषः सन्भस्मरुद्राक्षभूषितः ॥
शिवस्मरणसंसृष्टो मंदं दद्यात्पदं बुधः ॥३८॥
मनूनां चरतामग्रे देवानां च सहस्रशः ॥
अदृश्यानां च सिद्धानां नान्येषां वायुरूपिणाम् ॥३९॥
संघट्टमतिसंमर्दं मार्गरोधं विचिंतयन् ॥
अनुकूलेन भक्तः सञ्छनैर्दद्यात्पदं बुधः ॥४०॥
अथवा शिवनामानि संकीर्त्य वरगीतिभिः ॥
शिवनृत्यं च रचयन्भक्तैः सार्द्धं परिक्रमेत् ॥४१॥
माहात्म्यं मम वा शृण्वन्ननन्यमतिरादरात् ॥
शनैः प्रदक्षिणं कुर्यादानन्दरसनिर्भरः ॥४२॥
दानैश्च विविधैः पुण्यैरुपकारैस्तथार्थिनाम् ॥
यथामति दयापूर्ण आस्तिकः परितो व्रजेत् ॥४३॥
कृते त्वग्निमयं लिंगं त्रेतायां मणिपर्वतम् ॥
द्वापरे चिंतयेद्धैमं कलौ मरकताचलम् ॥४४॥
अथवा स्फाटिकं रूपमरुणं तु स्वयंप्रभम् ॥
ध्यायन्विमुक्तः सकलैः पापैः शिवपुरं व्रजेत् ॥४५॥
अवाङ्मनसगम्यत्वादप्रमेयतया स्वयम् ॥
अग्नित्वाच्च परं लिंगमनासाद्याचलाभिधम् ॥४६॥
ध्यात्वा प्रदक्षिणं कर्तुरभिगम्योऽहमंजसा ॥
तस्य पादरजो नृणामजरामरकारणाम् ॥४७॥
रूपमेकं तु धत्ते यः शोणाद्रीशप्रदक्षिणे ॥
वाहनानि सुरौघाणां प्रार्थयंते परस्परम् ॥४८॥
कुर्वतां चरणं वोढुमरुणाद्रिप्रदक्षिणाम् ॥
छायाप्रदानं कुर्वंति कल्पकाद्याः सुरद्रुमाः ॥४९॥
कुर्वतां भुवि मर्त्त्यानामरुणाद्रिप्रदक्षिणाम् ॥
देवगन्धर्वकाद्यानां सहस्रेण समावृताः ॥५०॥
सेवंते ते गणाकीर्णा विमानशतकोटयः ॥
मम प्रदक्षिणं भूमौ कुर्वतां पादपांसुभिः ॥५१॥
पाविता महती वीथी दृष्टा शिवपदप्रदा ॥
अंगप्रदक्षिणं कुर्वन्क्षणात्स्वर्ग्यतनुर्भवेत् ॥५२॥
प्राप्तो वज्रशरीरत्वं न धृष्येत महीतले ॥
व्योमयानोत्सुका देवाः सिद्धाश्च परमर्षयः ॥५३॥
अदृश्याः संचरंत्यत्र पश्यंते मम संनिधिम् ॥
विनयं मम भक्तिं च प्रदक्षिणपरिक्रमे ॥५४॥
दृष्ट्वा हर्षसमायुक्ता मर्त्त्येभ्यो ददते वरम् ॥
अत्र देवास्त्रयस्त्रिंशत्पुरा कृत्वा प्रदक्षिणाम् ॥५५॥
प्रत्यहं मार्गमासीनाः प्रत्येकं कोटितां गताः ॥
आदित्याद्या ग्रहाः सर्वे पुरा कृत्वा प्रदक्षिणाम् ॥५६॥
संपूर्णजगतीभागे सर्वे ग्रहपतां गताः ॥
यः करोति नरो भूमौ सूर्यवारे प्रदक्षिणाम् ॥५७॥
स सूर्यमडलं भित्त्वा मुक्तः शिवपुरं व्रजेत् ॥
सोमवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ॥५८॥
अजरामरतां प्राप्तो नासौम्यो भवति क्षितौ ॥
भौमवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ॥५९॥
आनृण्यमखिलं प्राप्य सार्वभौमो भवेद्ध्रुवम् ॥
बुधवारे नरः कुर्वञ्छोणाद्रीशप्रदक्षिणाम् ॥६०॥
सर्वज्ञतामनुप्राप्तः स वाचां पतितामियात् ॥
गुरुवारे नरः कुर्वन्सर्वदेवनमस्कृतः ॥६१॥
प्रदक्षिणेन शोणाद्रेः स तु लोकगुरुर्भवेत् ॥
भृगुवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ॥६२॥
संप्राप्य महतीं लक्ष्मीं लभते वैष्णवं पदम् ॥
मन्दवारे नरः कृत्वा शोणाद्रीशप्रदक्षिणाम् ॥६३॥
विमुक्तो ग्रहपीडाभिः स विश्वविजयी भवेत् ॥
नक्षत्राणि च सर्वाणि पुरा तद्दैवतैः सह ॥६४॥
मम प्रदक्षिणां कर्तुः पुण्यानि सहसा व्रजेत् ॥
तिथयः करणानीह योगाश्च मम संमताः ॥६५॥
अभीष्टफलदा जाताः कुर्वतां मत्प्रदक्षिणाम् ॥
मुहूर्ता विविधा होराः सौम्याश्च सततोदयाः ॥६६॥
मत्प्रदक्षिणकर्तॄणां जायंते सततं शुभाः ॥
 प्रच्छिनत्ति प्रकारोऽघं दकारो वांछितप्रदः ॥६७॥
क्षिकारात्क्षीयते कर्म णकारो मुक्तिदायकः ॥
दुर्बलाः कार्श्यसंयुक्ता आधिव्याधिविजृंभिताः ॥६८॥
मम प्रदक्षिणं कृत्वा मुच्यंते सर्वदुष्कृतैः ॥
मम प्रदक्षिणं कर्तुर्भक्त्या पादेन संततम् ॥६९॥
क्षणेन साध्वां पश्यामि त्रैलोक्यस्य प्रदक्षिणाम् ॥
लोकेशाश्च दिगीशाश्च ये चान्ये कारणेश्वराः ॥७०॥
मम प्रदक्षिणां कृत्वा स्थिरा राज्ये पुराऽभवन् ॥
अहं च गणसंयुक्तः सर्वदेवर्षिसंयुतः ॥७१॥
उत्तरायणसंयोगे करोमि स्वप्रदक्षिणाम् ॥
मद्रूपं तैजसं लिंगमरुणाद्रिरिति श्रुतम् ॥७२॥
त्रैलोक्यस्य हितार्थाय करिष्यामि प्रदक्षिणाम् ॥
आगता च परांते च गौरी तप इहाद्भुतम् ॥७३॥
कर्तुं प्रदक्षिणं कृत्वा मामेष्यत्यनघा पुनः ॥
कार्तिके मासि नक्षत्रे कृत्तिकाख्ये महातपाः ॥७४॥
मम प्रदक्षिणां गौरी प्रदोषे रचयिष्यति ॥
नराणामल्पपुण्यानां दुर्लभं तत्प्रदक्षिणम् ॥७५॥
ज्योतिर्लिगस्य दृष्टस्य देवी प्रार्थनया तथा ॥
मया समेता देवी सा प्राप्ताऽपीतकुचाभिधा ॥७६॥
आश्वास्यति सुरान्सर्वानुत्तरायणसंगमे ॥
देवगन्धर्वयक्षाणां सिद्धानामपि रक्षसाम् ॥७७॥
सर्वेषां देवयोनीनां भविता तत्र संगमः ॥
ये तदा मां समागत्य पूजयंति तपोधिकाः ॥७८॥
सर्वजन्मकृताघौघ प्रायश्चित्तं व्रजंति ते ॥
दुर्ल्लभं तद्दिनं पुंसामुत्तरायणसंगमे ॥७९॥
तदा मद्रूपमभ्यर्च्य कृतार्थाः सन्तु मानवाः ॥
प्रदक्षिणं तु मे दिव्यं कुर्वंति च महीभुजः ॥८०॥
तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः ॥
राजा यस्य तु देशस्य यो यो राजा तपोधिकः ॥८१॥
स कारयेद्विप्रमुख्यैः श्रोत्रियैर्मे प्रदक्षिणाम् ॥
मंडलं मंडलार्द्धं वा संकल्पविधिपूर्वकम् ॥६२॥
तस्य तस्य स्थिरं राज्यं शत्रूणां च पराहतिम् ॥
करिष्यामि मुने नित्यमहमेव पुरःस्थितः ॥८३॥
न वाहनेन कुर्वीत मम जातु प्रदक्षिणाम् ॥
धर्मलुब्धमना जानञ्छिवाचारपरिप्लुतिम् ॥८४॥
धर्मकेतुः पुरा राजा यमलोकादुपागतः ॥
मम प्रदक्षिणां कर्त्तुं तुरगेणाभ्यरोचयत् ॥८५॥
क्षणेन तुरगो जातो गणनाथः सुरार्चितः ॥
प्रतिपेदे पदं शैवं विमुच्य धरणीपतिम् ॥८६॥
वीक्ष्य तं वाहनं भूयो गणनाथवपुर्द्धरम् ॥
पादप्रदक्षिणां कृत्वा स्वयं च गणपोऽभवत् ॥८७॥
तदाप्रभृति शक्राद्याः सुरा विष्णुसमन्विताः ॥
पादाभ्यामेव कुर्वंति मम सर्वे प्रदक्षिणाम् ॥८८॥
स्वर्गान्निपातितः कोऽपि सिद्धः काले तपःक्षयात् ॥
प्रदक्षिणां ततः कृत्वा पुनर्लब्धपदोऽभवत् ॥८९॥
स्खलितं पादजं रक्तं मम कर्तुः प्रदक्षिणम् ॥
मार्ज्यते तस्य देवेन्द्र मौलिमंदारकेसरैः ॥९०॥
प्रदक्षिणमहावीथी शिलाशकलघट्टितम् ॥
पदं संधार्यते पुंसां श्रीपयोधरकुंकुमैः ॥९१॥
मणिपर्वतशृंगेषु कल्पद्रुमवनांतरे ॥
संचरंति सदा मर्त्या मम कृत्वा प्रदक्षिणम् ॥९२॥
॥ गौर्युवाच ॥
उपचारप्रवृत्तानां फलं मे शंस सुव्रत ॥
यैर्वै जनः कृतार्थः स्याद्यथाशक्ति कृतादरः ॥९३॥
 ॥ मुनिरुवाच ॥
उपचारफलं देवि शृणु वक्ष्याम्यहं तव ॥
यन्मह्यं कृपया पूर्वमुक्तवान्परमेश्वरः ॥९४॥
लूती तंतुकजालानि संसृज्य क्वचिदेव मे ॥
जातिस्मरो महीध्रेऽस्मिन्सोंऽशुकैर्मां व्यवेष्टयत् ॥९५॥
गजः कश्चितृषाक्रांतो विमुच्य च मधु क्वचित् ॥
वनपल्लवमुत्कीर्य मुक्तोऽभूद्गणनायकः ॥९६॥
कृमयो विलुठन्तो मे पार्श्वे दुरितवर्जिताः ॥
सिद्धवेषाः पुनः सर्वे मम लोकं व्रजंति ते ॥९७॥
अव्युच्छिन्नप्रदीपार्चिः क्षणमप्यादधाति यः ॥
स्वयंप्रकाशः स भवन्मम सारूप्यमश्नुते ॥९८॥
हारीतः कोपि संप्राप्तः शाखानीडो ममांतिके ॥
खद्योतो दीपवन्नक्तं तावन्मुक्तिं समागतः ॥९९॥
गावः प्रस्रवणैः सिक्ता वत्सस्मरणसंभवैः ॥
मत्पार्श्वे मुक्तिमापुस्ता मम लोकं समाश्रयन् ॥१००॥
काकः पक्षजवातेन बलिग्रहणलोलुपः ॥
मार्जयन्मत्पुरोभागं मुक्तिं प्रापद्यत क्षणात् ॥१०१॥
मूषको मद्गुहाभागं मणिसंघविकर्षणैः ॥
प्रकाशयन्वितिमिरं मम रूपमपद्यत ॥१०२॥
छायावृक्षत्वमास्थातुं मुनयस्त्रिदशा अपि ॥
प्रार्थयंत्येव मत्पार्श्वे न पुनःसंभवेच्छया ॥१०३॥
गोपुरं शिखरं शालां मण्डपं वापिकामपि ॥
कुर्वतां मत्पुरोभागे सिध्यंतीष्टार्थसंपदः ॥१०४॥
सदा मर्त्त्यैरनासाद्यमग्निलिंगमिदं मम ॥
अनासाद्याचलेशाख्यं पूज्यतां वसुधातले ॥१०५॥
वीक्षणस्पर्शनध्यानैः स्वभूतं निखिलं जगत् ॥
पोषयंती परा शक्तिः पूज्याऽपीतकुचाभिधा ॥१०६॥
सर्वलोकैकजननी संप्राप्ता नित्ययौवनम् ॥
यौवनप्रार्थिभिः सेव्या सदाऽपीतकुचाभिधा ॥१०७॥
क्षणात्तस्य पुरोभागे वसतां प्राणिनामिह ॥
परत्र वात्र दुष्प्राप्यमिष्टवस्तु न विद्यते ॥१०८॥
अप्रमेयगुणाधारमपेक्षितवरप्रदम् ॥
अशेषभोगनिलयं शोणाद्रीशं समर्चय ॥१०९॥
लब्धकामा पुनः शम्भुमाश्रयिष्यसि सुव्रते ॥
तपश्चरणमप्येतत्तव लोकहितावहम् ॥११०॥
न केवलं तव तपः स्ववांछितफलप्रदम् ॥
तपस्यतामृषीणां च क्षेमायैव भविष्यति ॥१११॥
कारणांतरमाशंक्य तपः कुर्वंति देवताः ॥
रहस्यं देवतानां तु फलेनैवानुमीयते ॥११२॥
वयं च सहसंवासास्तव व्रतनिरीक्षणात् ॥
कृतार्थाः स्याम देवेशि तपसा नः कृतार्थता ॥११३॥
इति तस्य मुनेर्वाक्यमर्थगर्भं निशम्य सा ॥
गौरी कौतुकसंयुक्ता प्रशशंस महामुनिम् ॥११४॥
तपः किमन्यत्कर्तव्यं लब्धं तव तु दर्शनम् ॥
अरुणाद्रिरयं दृष्टः श्रुतं माहात्म्यमस्य च ॥११५॥
अहो भूमेस्तु वैचित्र्यं यतो दृष्टा दिवोऽधिका ॥
यत्रैव तैजसं लिंगं देवतानां वरप्रदः ॥११६॥
शिवः प्रसादसिद्धो मे दर्शितं स्थानमात्मनः ॥
अत्रैव शिवमाराध्य वशीकुर्यां जगद्गुरुम् ॥११७॥
अविनाभूतमैक्यं मे देवेन भवतात्सदा ॥
त्वया कृतेन साह्येन भवेयं शिवनायिका ॥११८॥
इति गौतमसंनिधौ तदानीं कृतसंवित्तप आदरेण कर्तुम् ॥
अभजद्रुचिरां च पर्णशालां मुनिना चानुमता तथेति भक्त्या ॥११९॥
सुकुमारतनुः सरोरुहाक्षी घनतुंगस्तनकल्पितोत्तरीया ॥
जटिला हरिनीलरत्नकांतिर्गिरिजा राजति देहवत्तपःश्रीः ॥१२०॥
नियमैर्बहुभिस्तपोविशेषैः क्रतुषु प्राप्तविचित्रयोगबंधैः ॥
निगमागमदृष्टधर्ममार्गं सकलं सा तु कृतार्थतामनैषीत् ॥१२१॥
तपसा विविधेनतप्यमाना न कदाचित्परिखेदमाप तन्वी ॥
हरिरत्नमयी च कापि वल्ली नितरां दीप्तिमती बभूव बाला ॥१२२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणेश्वरप्रदक्षिणामाहात्म्यवर्णनंनाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP