अथ माहेश्वरखण्डे तृतीयेऽरुणाचलमाहात्म्ये पूर्वार्धम् ॥ १- ३ - १) ॥
१ नैमिषारण्यवासिभिर्मुनिभिः सूतमहर्षिं प्रत्यरुणाचलमाहात्म्यश्रवणेच्छया पृष्टे सूतेन तान्प्रत्यरुणाचलमाहात्म्यकथनोपक्रमे ब्रह्मसनकसंवादकथनम्, सनकेन तैजसशिवलिङ्गमाहात्म्यश्रवणेच्छया पृष्टेन भगवता ब्रह्मणाऽरुणाचलेश्वरतैजसशिवध्यानपू-र्वकमरुणाचलेश्वरमाहात्म्यकथनोपक्रमवर्णनम्, तत्र पूर्वं विष्णुब्रह्मणोः परस्परमात्म-श्रैष्ठयप्रागल्भ्यपूर्वकं युध्यमानयोर्मध्ये वह्निस्तम्भमयभगवदाविर्भावः, आकाशवाण्या च तयोर्युद्धाद्विरतिः, अथ तस्याग्निस्तम्भमयरूपस्याऽनाद्यन्तस्य भगवतोऽधोऽन्तं परिच्छेत्तुं विष्णोर्वराहरूपेण गतस्याऽनन्तस्यान्तं परिच्छेत्तुमशक्यतया विषादप्राप्त्यनन्तरं पूर्वस्थलं प्रत्यागमनम, ऊर्ध्वमन्तं परिच्छेत्तुं ब्रह्मणो हंसरूपेण गतस्याऽनन्तस्यान्तं परिच्छेत्तुमशक्यतया विषादशप्त्यनन्तरमूर्ध्वलोकस्थितानां सिद्धानां वचनतोऽनन्तस्यानन्ततां परिज्ञाय पूर्वस्थलं प्रति समेत्य भगवतः पुरतोऽवस्थितिवर्णनम् ॥
२ अथ ब्रह्मविष्णुभ्यां वह्निस्तम्भमयस्य भगवतः स्तवनम्, ततो वह्निस्तम्भमयपरमेश्वरेण
ब्रह्मविष्ण्वोर्वरप्रदानम, व्रह्मविष्ण्वोः प्रार्थनया वह्निस्तम्भमयेन परमेश्वरेण निजरूपमुपसंहृत्यारुणाचलरूपेण स्थावरलिंगताधारणम, स्थावरलिंगमाहात्म्यवर्णनम् ॥
३ अथारुणाद्रीश्वरचरित्रवर्णनम, तत्र भगवत्या जगदम्बया कदाचिद्रहसि शम्भोः क्रीडावशेन नेत्रत्रयपिधानम, शंकरस्य चन्द्रसूर्याग्निरूपेषु त्रिषु नेत्रेषु पार्वत्या निमिषार्धमात्रं पिहितेषु सकलजगतोऽकाले क्षयः, तदानीमविनाशिभिस्तपसा लब्धस्फूर्तिभिः सिद्धैस्तपोबलप्राप्तज्ञानचक्षुषा तत्सांबशंकरचरित्रं विज्ञाय सांबसदाशिवस्तुतिकरणम, श्रीशंकरेण सिद्धानां स्तुतिमाकर्ण्य निजनिमिषार्धेन वत्सरकोटिपरिमितकालातिक्रमणेन जगतः प्रलयं दृष्ट्वा पार्वतीं प्रतीदं त्वयाऽयोग्यं कर्म कृतमित्युक्ते पार्वत्या स्वकृतजगत्क्षयजनितदुरितनिवृत्त्यै प्रायश्चित्तपृच्छायां कृतायां भगवता लोकशिक्षार्थं पार्वत्यै तपःकरणार्थमनुज्ञाकरणम्, ततः श्रीशंकरानुज्ञया पार्वत्याः कांचीपुरीस्थकंपानदीतीरस्थितैकाम्रतले तपश्चर्यार्थमागमनम्. ॥
४ अथ कम्पानदीतीरस्थितैकाम्रतले पार्वत्या सैकतशिवलिगं संस्थाप्य, स्वधर्माचरणपूर्वकं तपश्चर्याकरणम्, अथ शंकरेण पार्वत्या दृढभक्तिपरीक्षणार्थं नदीपूरप्रवाहेण समंततो व्याप्तौ कृतायां देव्या सैकतशिवलिंगस्य प्रवाहाल्लयभीत्या दृढमालिंग्य पूरप्रवाहेण वेष्ट्यमानयाऽपि लिङ्गं विहायाऽन्यतोऽगमनम्, पार्वतीदृढपरिरम्भणतः सैकतलिङ्गे पार्वतीकुचचूचुकचिह्नमुद्राङ्कितत्ववर्णनम्, अथाकाशवाण्या पार्वतीमाश्वास्य तस्य सैकतलिंगस्याभ्यर्हणे वरं प्रदायारुणाचलं प्रति गत्वा गौतमोपदेशेन तपःकरणार्थमनुज्ञाकरणम्, अथ देव्या पार्वत्या तत्र कंपानदीतीरे दर्शनार्थं सेवार्थं चागतेभ्यः सर्वदेवेभ्य ऋषिभ्यश्च सैकतशिवलिङ्गपूजनार्थमाज्ञाकरणम्, ततः पार्वत्याः सर्वदेवैः सहारुणाद्रौ गौतममहर्षेराश्रमं प्रति गमनम्- ॥
५ अथ गौतममहर्षिणा पार्वत्याः स्वागतसत्कारकरणम्, पार्वताप्रार्थितेन गौतममहर्षिणा पार्वतीं प्रत्यरुणाचलमाहात्म्यवर्णनम्-तत्प्रसंगेन ब्रह्मपुष्करमाहात्म्यवृत्तान्तवर्णनम् २२० १
६ अरुणाचले श्रीमहाविष्णुप्रभृतिसमस्तदेवगणमहर्षिगणराजर्षिगणस्थापितविविधतीर्थमाहात्म्यानां वृत्तान्तपूर्वकं वर्णनम्. ॥
७ अथाग्निमयस्य लिङ्गस्य पार्वत्योपशान्तताकारणे पृष्टे गौतममहर्षिणाऽरुणाचलेश्वरस्य चतुर्युगीयनामभेदवर्णनम् तत्र देवकृतस्तुत्यारुणाचलेश्वरस्य भगवतः शीतलताप्राप्तिवृत्तान्तवर्णनम्, अथारुणाचलस्थाष्टलोकपालस्थापिताष्टदिक्स्थतीर्थमाहात्म्यवृत्तान्तः, मार्कण्डेयप्रार्थनया महेश्वरेण सर्वतीर्थसमुच्चयस्यैकीकरणवर्णनम्, अथ तीर्थमाहात्म्यं श्रुत्वा सुप्रसन्नया पार्वत्या श्रीपरमेश्वरार्चनविधिजिज्ञासया गौतममहर्षिं प्रति प्रश्नकरणम्. ॥
८ अथ गौतमेन महर्षिणा पार्वत्यै श्रीशङ्करशोणाद्रीश्वरप्रसादादिरूपनिजवृत्तान्तं निवेद्य श्रीशंकरप्रोक्तागमोक्तसविस्तरारुणाचलेश्वरशिवाराधनामाहात्म्यवर्णनम् ॥
९ श्रीशंकरेण श्रीशोणाद्रीश्वरविविधनामकथनम्, अथ शोणाद्रीश्वरप्रदक्षिणामाहात्म्य- कथनम्, शोणाद्रीश्वरप्रदक्षिणामाहात्म्यप्रसंगेन धर्मकेतुराजवृत्तान्तवर्णनम्, भगवते विविधोपचारसमर्पणमाहात्म्यवर्णनम्, गौतमेन स्वस्मै भगवता भगवत्या अपीतकु- चाख्यायाः पार्वत्यास्तपोदीक्षाग्रहणाय स्वसमीपं प्रत्यागमनादिभविष्यद्वृत्तान्तं वर्ण- यित्वा भगवत्याः पार्वत्याः प्रशंसाकरणम् ,ततः पार्वत्या तपः कर्तुं गौतमेनानुमोदितया गौतमाश्रमे काचित्पर्णशालामध्यास्य यथोक्तनियमपूर्वकं तपश्चर्याकरणवर्णनम् ॥
१० अथ तत्र तपस्यन्तीं देवी प्रति महिषासुरत्रस्तानां सर्वेषामिन्द्रादिदेवानामागमनम्, इन्द्रादिदेवैर्देव्यै महिषासुरकृतनिजवित्रासनिवेदनम, देवानां दैन्यमालोक्य देव्या महिषासुरवधार्थं प्रतिज्ञां कृत्वा देवानामाश्वासनकरणम्, देवीत आश्वासनं प्राप्य देवेषु गतेषु सत्सु देव्या स्वात्मनः परितश्चतुर्षु दिक्छैलेषु स्थानरक्षार्थं चतुर्बटुकस्थापनम्, तथा च चतसृणां निजपरिचारिकाणामरुणाद्रिं प्रति केवलमतिथिप्रेषणार्थ- माज्ञाकरणम्, एवं व्यवस्थां कृत्वा गौतमाश्रमसंनिधौ पार्वत्यास्तपःकरणम्, पार्व- तीतपःसामर्थ्यात्तत्राश्रमे सर्वतः शान्ततावर्णनम्; अथ कदाचिन्महिषासुरस्य मृगयार्थं शोणाद्रिपरिसरे भ्रमणम्, अथ देवीस्थाने बटुभिर्निरुद्धेन महिषासुरेण वृद्धा- तिथिब्राह्माणरूपेण देवीं प्रति गत्वा निजप्रशंसाकरणपूर्वकं स्ववरणार्थं स्वाभिप्रायनिवेदनम्, अथ देव्या महिषासुरं प्रति युद्धार्थं निजाभिप्रायकथनम्, ततो युद्धोद्यतं महिषासुरं दृष्ट्वा कन्यारूपायास्तस्या जगदंबाया भव्यभयंकरदुर्गारूपेणावस्थानम्, महिषासुरेण निजसेनाह्वानम्, ब्रह्मादिदेवैर्देव्यै विविधनिजायुधसमर्पणम्, देवीस्व- रूपं दृष्ट्वा भयेन पलायितं महिषासुरं प्रति देव्या वानरमुखसुरगुरुद्वाराऽरुणाचलं प्रत्यागन्तुं निषेद्धुं सन्देशप्रेषणम्, सुरगुरुप्रोक्तं देवीसंदेशं निशम्य भृशं क्रुद्धेन महिषासुरेणारुणाचले देव्या सह युद्धार्थं सर्वदैत्यसैन्यप्रेषणम्, आगतं दैत्यसैन्यं विलोक्य देव्या स्वतेजसा विविधभूतवेतालमातृकायोगिन्यादिगणानां सृष्टिकरणम्, दैत्यसैन्यदेवीसैन्ययोः प्रचण्डयुद्धवर्णनम्, तत्र युद्धे महिषासुरेण सह देव्या युद्धारम्भः. ॥
११ देवीमहिषासुरयोर्युद्धे देव्या महिषासुरमर्दनम, अथ महिषार्दिन्या दुर्गाया इन्द्रादिदेवैः स्तुतिकरणम्, अथ महिषासुरशिरःस्थितशिवलिंगस्य देव्याः पाणितलं आसञ्जनवर्णनम्, ततः स्वहस्तेन शिवभक्तहननं जातमिति मन्यमानाया जगदम्बायाः शोकेन गौतमाग्रतस्तीर्थयात्रार्थकस्वसंकल्पनिवेदनम्, ततो गौतमेन जगदम्बाया आश्वासनपूर्वकं महिषासुरवृत्तकथनपूर्वकं गौर्यै दोषनिवृत्त्यर्थमरुणाचलाग्रतस्तीर्थ स्नानरूपोपायकथनम् ॥
१२ अथाकाशवाण्या गौर्या स्वखड्गेन खड्गतीर्थं निर्माय तत्र कार्तिकमासपर्यंतं निमज्जनम्, खड्गतीर्थतीरे स्वहस्तच्युतमहिषासुरशिरःस्थितलिंगस्थापनम, ततः कार्तिके मासि कृत्तिकानक्षत्रेऽरुणाद्रीश्वरस्तुतिकरणम्, ततः प्रसन्नेन भगवताऽरुणाद्रीश्वरेण ज्योतीरूपेणाविर्भूय ज्योतिरन्तर्गतहिरण्मयपुरुषरूपेण जगदंबायै वरप्रदानम्, ततो जगदम्बयाऽरुणाद्रीश्वरस्य प्रदक्षिणाकरणम्, ततः प्रसन्नेन श्रीशोणाद्रीश्वरेण शंकरेण भगवता सह जगदंबायाः समागमवर्णनम् ॥
१३ अथ शिवेन पार्वत्यै वरप्रदानपूर्वकं पार्वत्या सह रंतुकाम्यया पार्वत्यंगे मृगमदालेपनम्, मृगमदोत्पत्तिवृत्तान्तवर्णने पुलकाख्यदैत्यस्य चरित्रस्थनम्, देवीहस्तोत्थितकमलस्य वृत्तान्तः, तत्प्रसंगेन काञ्चीस्थमहादेवमाहात्म्यवर्णनपूर्वकपार्वतीदर्शनमाहात्म्यवृद्धये पार्वत्याः शिवं प्रति प्रार्थना, शिवेन पार्वत्यै वरप्रदानम्, अरुणाद्रीश्वरमहावैभवमाहात्म्यवर्णनम्. -... -. - - २३५ १
इति माहेश्वरखण्डे तृतीयेऽरुणाचलमाहात्म्ये पूर्वार्धम् ॥