सेतुखण्डः - अध्याय १५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
ब्रह्मकुण्डे महापुण्ये स्नानं कृत्वा समाहितः ॥
नरो हनूमतः कुण्डमथ गच्छेद्विजोत्तमाः ॥१॥
पुरा हतेषु रक्षःसु समाप्ते रणकर्मणि ॥
रामादिषु निवृत्तेषु गंधमादनपर्वते ॥२॥
सर्व लोकोपकाराय हनूमान्मारुतात्मजः ॥
सर्वतीर्थोत्तमं चक्रे स्वनाम्ना तीर्थमुत्तमम् ॥३॥
विदित्वा वैभवं यस्य स्वयं रुद्रेण सेव्यते ॥
तस्य तीर्थस्य सदृशं न भूतं न भविष्यति ॥४॥
यत्र स्नाता नरा यांति शिवलोकं सनातनम् ॥
यस्मिंस्तीर्थे महापुण्ये महापातकनाशने ॥५॥
सर्वलोकोपकाराय निर्मिते वायुसूनुना ॥
सर्वाणि नरकाण्यासञ्च्छून्यान्येव चिराय वै ॥६॥
वैभवं तस्य तीर्थस्य शंकरो वेत्ति वा न वा ॥
यत्र धर्मसखोनाम राजा केकयवंशजः ॥७॥
भक्त्या सह पुरा स्नात्वा शतं पुत्रानवाप्त वान् ॥
॥ ऋषय ऊचुः ॥
सूत धर्मसखस्याद्य चरितं वक्तुमर्हसि ॥
हनूमत्कुण्डतीर्थे यो लेभे स्नात्वा शतं सुतान् ॥८॥
॥ श्रीसूत उवाच ॥
शृणुध्वमृषयो यूयं चरितं तस्य भूपतेः ॥९॥
अद्य धर्मसखस्याहं प्रवक्ष्यामि समासतः ॥
राजा धर्मसखोनाम विजितारिः सुधार्मिकः ॥१०॥
बभूव नीतिमान्पूर्वं प्रजापालनतत्परः ॥
तस्य भार्याशतं विप्रा वभूव पतिदैवतम् ॥११॥
स पालयन्महीं राजा सशैलवनकाननाम् ॥
तासु भार्यासु तनयं नाविंदद्वंशवर्द्धनम् ॥१२॥
पुत्रार्थं स महीपालो बहूयत्नानथाकरोत् ॥५
अकरोच्च महादानं पुत्रार्थं स महीपतिः ॥१३॥
अश्वमेधादिभिर्यज्ञैरयजच्च सुरान्प्रति ॥
तुलापुरुषमुख्यानि ददौ दानानि भूरिशः ॥१४॥
आमध्यरात्रमन्नानि सर्वेभ्योऽप्यनिवारितम् ॥
प्रायच्छद्बहुसूपानि सस्योपेतानि भूमिपः ॥१५॥
पितॄनुद्दिश्य च श्राद्धमकरोद्विधिपूर्वकम् ॥
संतानदायिनो मंत्राञ्जजाप नियतेद्रियः ॥१६॥
एवमादीन्बहून्धर्मान्पुत्रार्थं कृतवान्नृपः ॥
पुत्रमुद्दिश्य सततं कुर्वन्धर्माननुत्तमान् ॥१७॥
राजा दीर्घेण कालेन वृद्धतां प्रत्यपद्यत ॥
कदाचित्तस्य वृद्धस्य यतमानस्य भूपतेः ॥१८॥
पुत्रस्सुचंद्रनामाभूज्ज्येष्ठपत्न्यां मनोरमः ॥
जातं पुत्रं जनन्यस्ताः सर्वा वैषम्यवर्जिताः ॥१९॥
समं संवर्द्धयामासुः क्षीरादिभिरनुत्तमाः ॥
राज्ञश्च सर्वमातॄणां पौराणाम्मंत्रिणां तथा ॥२०॥
मनोनयनसंतोषजनकोऽयं सुतोऽभवत् ॥
लालयानः सुतं राजा मुदं लेभे परात्पराम्॥२१॥
आंदोलिकाशयानस्य सूनोस्तस्य कदाचन ॥
वृश्चिकोऽकुट्टयत्पादे पुच्छेनोद्यद्विषाग्निना ॥२२॥
कुट्टनाद्वृश्चिकस्यासावरुदत्तनयो भृशम् ॥
ततस्तन्मातरः सर्वाः प्रारुदञ्च्छोककातराः ॥२३॥
परिवार्यात्मजं विप्राः सध्वनिः संकुलोऽभवत् ॥
आर्तध्वनिं स शुश्राव राजा धर्मसखस्तदा ॥२४॥
उपविष्टः सभामध्ये सहामात्यपुरोहितः ॥
अथ प्रातिष्ठिपद्राजा सौविदल्लं स वेदितुम् ॥२५॥
अन्तःपुरबहिर्द्वारं सौविदल्लः समेत्य सः ॥
षंढवृद्धान्समाहूय वाक्यमेतदभाषत ॥२६॥
षंढाः किमर्थमधुना रुदत्यन्तःपुर स्त्रियः ॥
तत्परिज्ञायतां तत्र गत्वा रोदनकारणम् ॥२७॥
एतदर्थं हि मां राजा प्रेरयामास संसदि ॥
इत्युक्तास्तु परिज्ञाय निदानं रोदनस्य ते ॥२८॥
निर्गम्यांतःपुरात्तस्मै यथावृत्तं न्यवेदयत् ॥
स षंढकवचः श्रुत्वा सौविदल्लः सभां गतः ॥२९॥
राज्ञे निवेदयामास पुत्रं वृश्चिकपीडितम् ॥
ततो धर्मसखो राजा श्रुत्वा वृत्तांतमीदृशम् ॥३०॥
त्वरमाणः समुत्थाय सामात्यः सपुरोहितः ॥
प्रविश्यांतःपुरं सार्द्धं मांत्रिकैर्विषहा रिभिः ॥३१॥
चिकित्सयामास सुतमौषधाद्यैरनेकशः ॥
जातस्वास्थ्यं ततः पुत्रं लालयित्वा स भूपतिः ॥३२॥
मानयित्वा च मंत्रज्ञान्रत्नकां चनमौक्तिकैः ॥
निष्क्रम्यांतःपुराद्राजा भृशं चिंतासमाकुलः ॥३३॥
ऋत्विक्पुरोहितामात्यैस्तां सभां सनुपाविशत् ॥
तत्र धर्मसखो राजा समासीनो वरासने ॥
उवाचेदं वचो युक्तमृत्विजः सपुरोहितान् ॥३४॥
॥ धर्मसख उवाच ॥
दुःखायैवैकपुत्रत्वं भवति ब्राह्मणो त्तमाः ॥३५॥
एकपुत्रत्वतो तृणां वरा चैव ह्यपुत्रता ॥
नित्यं व्यपाययुक्तत्वाद्वरमेव ह्यपुत्रता ॥
अहं भार्याशतं विप्रा उदवोढ विचिंत्य तु ॥३६॥
वयश्च समतिक्रांतं सपत्नीकस्य मे द्विजाः ॥
प्राणा मम च भार्याणामस्मिन्पुत्रे व्यवस्थिताः ॥३७॥
तन्नाशे मम भार्याणां सर्वासां च मृतिर्ध्रुवा ॥
ममापि प्राणनाशः स्यादेकपुत्रस्य मारणे ॥३८॥
अतो मे बहुपुत्रत्वं केनोपायेन वै भवेत् ॥
तमुपायं मम ब्रूत ब्राह्मणा वेदवि त्तमाः ॥३९॥
एकैकः शतभार्यासु पुत्रो मे स्याद्यथा गुणी ॥
तत्कर्म व्रत यूयं तु शास्त्रमालोक्य धर्मतः ॥४०॥
महता लघुना वापि कर्मणा दुष्करेण वा ॥
फलं यद्यपि तत्साध्यं करिष्येऽहं न संशयः ॥४१॥
युष्माभिरुदितं कर्म करिष्यामि न संशयः ॥
कृतमेव हि तद्वित्त शपेऽहं सुकृतैर्मम ॥४२॥
अस्ति चेदीदृशं कर्म येन पुत्रशतं भवेत् ॥
तत्कर्म कुत्र कर्तव्यं मयेति वदताधुना ॥४३॥
इति पृष्टास्तदा राज्ञा ऋत्विजः सपुरोहिताः ॥
संभूय सर्वे राजानमिदमूचुः सुनिश्चितम् ॥४४॥
॥ ऋत्विज ऊचुः ॥
अस्ति राजन्प्रवक्ष्यामो येन पुत्रशतं तव ॥
भवेद्धर्मेण महता शतभार्यासु कैकय ॥४५॥
अस्ति कश्चिन्महापुण्यो गन्धमादनपर्वतः ॥
दक्षिणांबुधिमध्ये यः सेतुरूपेण वर्तते ॥४६॥
सिद्धचारणगंधर्वदेवर्षिगणसंकुलः ॥
दर्शनात्स्पर्शनान्नृणां महापातकनाशनः ॥४७॥
तत्रास्ति हनुमत्कुंडमिति लोकेषु विश्रुतम् ॥
महादुःखप्रशमनं स्वर्गमोक्षफलप्रदम् ॥४८॥
नरकक्लेशशमनं तथा दारिद्र्यमोचनम् ॥
पुत्रप्रदमपुत्राणामस्त्रीणां स्त्रीपदं नृणाम् ॥४९॥
तत्र त्वं प्रयतः स्नात्वा सर्वाभीष्टप्रदायिनीम्॥
पुत्रीयेष्टिं च तत्तीरे कुरुष्व सुसमाहितः ॥५०॥
तेन ते शतभार्यासु प्रत्येकं तनयो नृप ॥
एकैकस्तु भवेच्छीघ्रं मा कुरु ष्वात्र संशयम्॥ ५१॥
तथोक्तो नृपतिर्विप्रैऋत्विक्भिः सपुरोहितैः ॥
तत्क्षणेनैव ऋत्विक्भिर्भार्याभिश्च पुरोधसा ॥५२॥
वृतोमात्यैश्च भृत्यैश्च यज्ञसंभारसंयुतः ॥
प्रययौ दक्षिणांभोधौ गन्धमादनपर्वतम् ॥५३॥
हनुमत्कुंडमासाद्य तत्र सस्नौ ससैनिकः ॥
मासमात्रं स तत्तीरे न्यवस त्स्नानमाचरन् ॥५४॥
ततो वसंते संप्राप्ते चैत्रमासि नृपोत्तमः ॥
इष्टिमारब्धवांस्तत्र पुत्रीयां सपुरोहितः ॥५५॥
सम्यक्कर्माणि चक्रुस्ते ऋत्विजः सपुरोधसः ॥
सपत्नीकस्य राजर्षेस्तथाधर्मसखस्य तु ॥५६॥
इष्टौ तस्य समाप्तायां हनूमत्कुंडतीरतः ॥
पुरोहितो हुतोच्छिष्टं प्राश यद्राजयोषितः ॥५७॥
ततो धर्मसखो राजा हनूमत्कुंडवारिषु ॥
सम्यक्चकारावभृथस्नानं भार्याशतान्वितः ॥५८॥
ऋत्विक्भ्यो दक्षिणाः प्रादादसंख्यातास्तु भूरिशः ॥
ग्रामांश्च प्रददौ राजा बाह्मणेभ्यो द्विजोत्तमाः ॥५९॥
सामात्यः सपरीवारः सपत्नीकः स धार्म्मिकः ॥
राजा ततो निववृते पुरीं स्वां प्रति नंदितः ॥६०॥
ततः कतिपये काले गते दशममामि वै ॥
शतं भार्याः शतं पुत्रान्सुषुवुर्गुणवत्तरान् ॥६१॥
अथ प्रीतमना राजा वीरो धर्मसखो महान् ॥
स्नातः शुद्धश्च संकल्प्य जातकर्माकरोत्तदा ॥६२॥
गोभूतिलहिरण्यादि ब्राह्मणेभ्यो ददौ बहु ॥
द्वौ पुत्रौ ज्येष्ठभार्यायाः पूर्वजोऽवरजस्तदा ॥६३॥
सर्वे ववृधिरे पुत्रा एकाधिकशतं द्विजाः ॥
प्रौढेषु तेषु राजासौ तेभ्यो राज्यं विभज्य तु ॥६४॥
दत्त्वा च प्रययौ सेतुं सभार्यो गन्धमादनम्॥
हनुमत्कुंडमासाद्य तपोऽतप्यत तत्तटे ॥६५॥
महान्कालो व्यतीयाय राज्ञ स्तस्य तपस्यतः ॥
राज्ञो धर्मसखस्यास्य ध्यायमानस्य शूलिनम् ॥६६॥
ततो बहुतिथे काले गते धर्मसखो नृपः ॥
कालधर्मं ययौ तत्र धार्म्मिकश्शांतमानसः ॥६७॥
पत्न्योपि तस्य राजर्षेरनुजग्मुः पतिं तदा ॥
ज्येष्ठपुत्रः सुचन्द्रोपि संस्कृत्य पितरं ततः ॥६८॥
अकरोच्छ्राद्ध पर्यंतं कर्माणि श्रद्धया सह ॥
राजा सभार्यो वैकुंठं मरणादत्र जग्मिवान् ॥६९॥
सुचन्द्रमुख्यास्ते सर्वे राजपुत्रा महौजसः ॥
स्वस्वराज्यं बुभुजिरे भ्रातरस्त्यक्तमत्सराः ॥७०॥
एवं वः कथितं विप्रा हनूमत्कुंडवैभवम् ॥
राज्ञो धर्मसखस्यापि चरित्रं परमाद्भुतम् ॥७१॥
तत्सर्वं कामसि द्ध्यर्थं स्नायात्कुंडे हनृमतः ॥७२॥
अध्यायमेनं पठते मनुष्यः शृणोति वा यः सुसमाहितो द्विजाः ॥
सोऽनंतमाप्नोति सुखं परत्र क्रीडेत सार्द्धं दिवि देववृन्दैः ॥७३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये हनुमत्कुंडप्रशंसायां धर्मसखशतपुउत्रावाप्तिवर्णनंनाम पञ्चदशोऽध्यायः ॥१५॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP