सेतुखण्डः - अध्याय १६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
कुंडे हनुमतः स्नात्वा स्वयं रुद्रेण सेविते ॥
अगस्तितीर्थं विप्रेंद्रास्ततो गच्छेत्समाहितः ॥१॥
एतद्विनिर्मितं तीर्थं साक्षाद्वै कुम्भयोनिना ॥
प्रवर्तमाने कलहे पुरा वै मेरुविंध्ययोः ॥२॥
निरुद्धभुवनाभोगो ववृधे विंध्यपर्वतः ॥
तदा प्राणिषु सर्वेषु निरुच्छ्वासेषु देवताः ॥३॥
कैलासं पर्वतं गत्वा शंभवे तद्व्यजिज्ञपन्॥
तदा स पार्वतीपाणिग्रहणोत्सुककौतुकी ॥४॥
प्रेषयित्वा वसिष्ठादीन्पार्वतीं याचितुं मुनीन्॥
कुंभज त्वं निगृह्णीष्व विंध्याद्रिमिति सोऽन्वशात् ॥५॥
ततः स कुम्भजः प्राह भगवंतं पिनाकिनम् ॥
उद्वाहवेषं ते देव न द्रक्ष्येहं कथं विभो ॥६॥
इति विज्ञापितः शंभुः पुनः कुंभजमब्रवीत्॥
कुंभजोद्वाहवेषं ते पार्वत्या सहितो ह्यहम् ॥७॥
वेदारण्ये महापुण्ये दर्शयिष्याम्यसंशयः ॥
तद्गच्छ शीघ्रं विंध्याद्रिं निग्रहीतुं मुनीश्वर ॥८॥
एवमुक्तस्ततोगस्त्यो विन्ध्याद्रिं स निगृह्य च ॥
पादाक्रमणमात्रेण समीकुर्वन्महीतलम् ॥९॥
चरित्वा दक्षि णान्देशान्गन्धमादनमन्वगात् ॥
स विदित्वा महर्षिस्तु गन्धमादनवैभवम् ॥१०॥
तत्र तीर्थं महापुण्यं स्वनाम्ना निर्ममे मुनिः ॥
लोपामुद्रासखस्तत्र वर्ततेऽद्यापि कुंभजः ॥११॥
तत्र स्नात्वा च पीत्वा च न भूयो जन्मभाग्भवेत् ॥
इह लोके त्रिकालेपि तत्तीर्थसदृशं द्विजाः ॥१२॥
तीर्थं न विद्यते पुण्यं भुक्तिमुक्तिफलप्रदम् ॥
सर्वाभीष्टप्रदं नृणां यत्तीर्थस्नानवैभवात्॥ १३॥
सुदीर्घतमसः पुत्रः कक्षीवान्नाम नामतः ॥
लेभे मनोरमां नाम स्वनयस्य सुतां प्रियाम् ॥१४॥
कक्षीवतः कथा सेयं पुण्यापापविनाशिनी ॥
तां कथां वः प्रवक्ष्यामि तच्छृणुध्वं मुनीश्वराः ॥ १५॥
अस्ति दीर्घतमा नाम मुनिः परमधार्मिकः ॥
तस्य पुत्रः समभवत्कक्षीवानिति विश्रुतः ॥१६॥
उपनीतः स कक्षीवान्ब्रह्मचारी जितें द्रियः ॥
वेदाभ्यासाय स गुरोः कुले वासमकल्पयत् ॥१७॥
उदंकस्य गुरोर्गेहे वसन्दीर्घतमःसुतः ॥
सोऽध्येष्ट चतुरो वेदान्सांगाञ्छास्त्राणि षट् तथा ॥१८॥
इतिहासपुराणानि तथोपनिषदोऽपिच ॥
उषित्वा षष्टिवर्षाणि कक्षीवान्गुरुसन्निधौ ॥१९॥
प्रयास्यन्स्वगृहं विप्रा गुरवे दक्षि णामदात् ॥
उवाच वै गुरुर्विद्वान्कक्षीवान्ब्रह्मवित्तमः ॥२०॥
॥ कक्षीवानुवाच ॥
अहं गृहं प्रयास्यामि कुर्वनुज्ञां महामुने ॥
अवलोक्य कृपादृष्ट्या मां रक्षोदंक सांप्रतम् ॥
उदंकस्त्वेव मुदितः कक्षीवंतमथाब्रवीत् ॥२१॥
॥ उदंक उवाच ॥
अनुजानामि कक्षीवन्गच्छ त्वं स्वगृहं प्रति ॥२२॥
उद्वाहार्थमुपायं ते वत्स वक्ष्यामि तच्छृणु ॥
रामसेतुं प्रयाहि त्वं गंधमादनपर्वतम्॥ २३॥
तत्रागस्त्यकृतं तीर्थं सर्वाभीष्टप्रदा यकम् ॥
भुक्तिमुक्तिप्रदं पुंसां सर्वपापनिबर्हणम्॥ २४॥
विद्यते स्नाहि तत्र त्वं सर्वमंगलसाधने ॥
त्रिवर्षं वस तत्र त्वं नियमाचारसंयुतः ॥२५॥
वर्षेषु त्रिषु यातेषु चतुर्थे वत्सरे ततः ॥
निर्गमिष्यति मातंगः कश्चित्तीर्थोत्तमात्ततः ॥२६॥
चतुर्दंतो महाकायः शरदभ्रसमच्छविः ॥
तं गजं गिरिसंकाशं स्नात्वा तत्र समारुह ॥२७॥
आरुह्य तं गजं वत्स स्वनयस्य पुरीं व्रज ॥
चतुर्दंतगजस्थं त्वां दृष्ट्वा शक्रमिवापरम् ॥२८॥
राजर्षिः स्वनयो धीमान्हर्षव्याकुललोचनः ॥
स्वकन्यायाः कृते दुःखं त्यजेदेव हृदिस्थितम् ॥२९॥
पुरा हि प्रतिजज्ञे सा तस्य पुत्री मनोरमा ॥
चतुर्दंतं महाकायं गजं सर्वांगपांडुरम् ॥३०॥
आरुह्य यः समागच्छेत्स मे भर्ता भवेदिति ॥
स्वकन्यायाः प्रतिज्ञां तां समाकर्ण्य स भूपतिः ॥३१॥
दुःखाकुलमना भूत्वा सततं पर्यचिंतयत् ॥
स्वनये चिंतयत्येवं नारदः समुपागमत् ॥३२॥
तमागतं मुनिं दृष्ट्वा राजर्षिरतिधार्मिकः ॥
प्रत्युद्गम्य मुदा युक्तः पाद्यार्घ्याद्यैरपूजयत् ॥३३॥
प्रणम्य नारदं राजा वचनं चेदमब्रवीत् ॥
कन्येयं मम देवर्षे प्रतिज्ञामकरोत्पुरा ॥३४॥
चतु र्दंतं महाकायं गजं सर्वांगपांडुरम् ॥
आरुह्य यः समागच्छेत्स मे भर्ता भवेदिति ॥३५॥
चतुर्दंतो महाकायो गजः सर्वांगपांडुरः ॥
संभवेदिंद्रभवने भूतले नैव विद्यते ॥३६॥
इयं च दुस्तरामेनां प्रतिज्ञां बालिशाऽकरोत् ॥
इयं प्रतिज्ञातितरां सततं बाधते हि माम् ॥३७॥
अनूढा हि पितुः कन्या सर्वदा शोकमावहेत् ॥
इति तस्य वचः श्रुत्वा स्वनये नारदोऽब्रवीत् ॥३८॥
मा विषीदस्व राजर्षे तस्या ईदृग्विधः पतिः ॥
भविष्यत्यचिरादेव पृथिव्यां ब्राह्मणोत्तमः ॥३९॥
कक्षीवानिति विख्यातो जामाता ते भविष्यति ॥
इत्युक्त्वा नारदमुनिर्ययावाकाशमार्गतः ॥४०॥
स्व नयस्तद्वचः श्रुत्वा नारदेन प्रभाषितम् ॥
आकांक्षते दिवारात्रं तादृग्विधसमागमम् ॥४१॥
अतः सौम्य महाभाग कक्षीवन्बालतापस ॥
अगस्त्यतीर्थमद्य त्वं स्नातुं गच्छ त्वरान्वितः ॥४२॥
सर्वमंगलसिद्धिस्ते भविष्यति न संशयः ॥
उदंकेनैवमुक्तोऽथ कक्षीवान्द्विजपुंगवः ॥४३॥
अनु ज्ञातश्च गुरुणा प्रययौ गंधमादनम् ॥
संप्राप्यागस्त्यतीर्थं च तत्र सस्नौ जितेंद्रियः ॥४४॥
क्षेत्रोपवासमकरोद्दिनमेकं मुनीश्वरः ॥
अपरेद्युः पुनः स्नात्वा पारणामकरोद्द्विजः ॥४५॥
रात्रौ तत्रैव सुष्वाप कक्षीवान्धर्मतत्परः ॥
एवं नियमयुक्तस्य तस्य कक्षीवतो मुनेः ॥४६॥
एकेन दिवसे नोनं वर्षत्रयमथागमत् ॥
अथ वर्षत्रयस्यांते तस्मिन्नेव दिने मुनिः ॥४७॥
अन्वास्य पश्चिमां संध्यां सुखं सुष्वाप तत्तटे ॥
याममात्रावशिष्टायां विभावर्यां महाध्वनिः ॥४८॥
उदभूत्प्रलयांभोधिवीचिकोलाहलोपमः ॥
तेन शब्देन महता कक्षीवान्प्रत्यबुध्यत ॥४९॥
ततस्तु स्वनयो नाम राजा सानुचरो बली ॥
मृगयाकौतुकी तत्र मधुरापतिराययौ ॥५०॥
विनिघ्नन्स गजान्सिंहान्वराहान्महिषान्नुरून् ॥
अन्यान्मृगविशेषांश्च स राजा न्यवधीच्छरैः ॥८५१॥
सामात्यो मृगयासक्तो रथवाजिगजैर्युतः ॥
अगस्त्यतीर्थसविधमाससाद भटान्वितः ॥५२॥
स राजा मृगयाश्रांतः श्रांतसैनिकसंवृतः ॥
तत्तीर्थतीरप्रांतेषु निषसाद महीपतिः ॥५३॥
ततः प्रभाते विमले कक्षी वान्मुनिसत्तमः ॥
अगस्त्यतीर्थे स्नात्वाऽसौ संध्यां पूर्वामुपास्य च ॥५४॥
तस्य तीरे जपन्मत्रांस्तस्थौ नियमसंयुतः ॥
अत्रांतरे तीर्थवराद्गज एको विनिर्ययौ ॥५५॥
चतुर्दंतो महाकायः कैलास इव मूर्तिमान् ॥
स समुत्थाय तत्तीर्थादगात्कक्षीवदंतिकम् ॥५६॥
तमागतमुदंकोक्त लक्षणैरुपलक्षितम् ॥
तदा निरीक्ष्य कक्षीवानारोढुं स्नानमातनोत् ॥५७॥
नमस्कृत्य च तत्तीर्थं श्लाघमानो मुहुर्मुहुः ॥
आरुरोह च कक्षीवांश्चतुर्दंतं महागजम् ॥५८॥
आरुह्य तं चतुर्दंतं रजताचलसंनिभम् ॥
स्वनयस्य पुरीमेव कक्षीवान्गंतुमैच्छत ॥५९॥
तमारूढं चतुर्दंतं श्वेतदंतावलोत्तमम् ॥
स वीक्ष्य निश्चिकायैनं कक्षीवानिति भूपतिः ॥६०॥
प्रसन्नहृदयो राजा तस्यांतिकमुपागमत् ॥
तदाभ्याशमुपागम्य कक्षीवंतं नृपोऽब्रवीत् ॥६१॥
॥ स्वनय उवाच ॥
त्वं ब्रह्मन्कस्य पुत्रोऽसि नाम किं तव मे वद ॥
गजमेनं समारुह्य कुत्र वा गन्तुमिच्छसि ॥
स्वनयेनैवमुक्तस्तु कक्षीवान्वाक्यमब्रवीत् ॥६२॥
॥ कक्षीवानुवाच ॥
पुत्रोऽहं दीर्घतमसः कक्षीवानिति विश्रुतः ॥६३॥
स्वनयस्य तु राजर्षेर्गच्छामि नगरं प्रति ॥
अहमुद्वोढुमिच्छामि तस्य कन्या मनोरमाम् ॥६४॥
चतुर्दंतगजारूढस्तत्प्रतिज्ञां च पूरयन् ॥
स्वनयस्य सुतापाणिं ग्रहीष्यामि नराधिप ॥६५॥
तद्भाषितं समाकर्ण्य श्रोत्रपीयूषवर्षणम् ॥
हर्षसंफुल्लनयनः स्वनयो वाक्यम ब्रवीत् ॥६६॥
कक्षीवन्भोः कृतार्थोस्मि स एव स्वनयो ह्यहम् ॥
उद्वोढुमिच्छति भवान्यस्य कन्यां मनोरमाम् ॥६७॥
स्वागतं ते मुनिश्रेष्ठ कक्षीवन्बालतापस ॥
मम कन्यां गृहाण त्वं तपोधन मनोरमाम् ॥६८॥
तया सह चरन्धर्मान्गार्हस्थ्यं प्रतिपालय ॥
राज्ञोक्तः स तदोवाच कक्षीवान्धर्मतत्परः ॥
राजानं स्वनयं प्रीतं मधुरापुरवासिनम् ॥६९॥
॥ कक्षीवानुवाच ॥
पिता दीर्घतमानाम वेदारण्ये मम प्रभो ॥७०॥
आस्ते तपश्चरन्सौम्यो नियमाचारतत्परः ॥
तस्यांतिकं प्रेषय त्वं विप्रमेकं धरापते ॥७१॥
तथोक्तः स तदा राजा स्वनयो हृष्टमा नसः ॥
अनेकसेनया सार्धं प्राहिणोत्स्वपुरोधसम् ॥७२॥
विप्रं सुदर्शनं नाम वेदारण्यस्थलं प्रति ॥
सुदर्शनः समादिष्टः स्वनयेन नृपेण सः ॥७३॥
महत्या सेनया सार्धं प्रययौ वेदकाननम् ॥
तत्रोटजे समासीन तं दीर्घतमसं मुनिम् ॥७४॥
तपश्चरतमासीनं ध्यायन्वेदाटवी पतिम् ॥
पुरोहितो ददर्शाथ जपंतं मंत्रमुत्तमम् ॥७५॥
प्रणाममकरोत्तस्मै मुनये स सुदर्शनः ॥
उवाच दीर्घतमसं मुनिं प्रह्लादयन्निव ॥७६॥
॥ सुदर्शन उवाच ॥
कच्चित्ते कुशलं ब्रह्मन्कच्चित्ते वर्धते तपः ॥
आश्रमे कुशलं कच्चित्कच्चिद्धर्मे सुखं वद ॥७७॥
पृष्टः सुदर्शनेनैवं मुनिर्दीर्घतमास्तदा ॥
सुदर्शनमुवाचेदमर्घ्यादिविधिपूर्वकम् ॥७८॥
॥ दीर्घतमा उवाच ॥
सर्वत्र कुशलं ब्रह्मन्सुदर्शन महामते ॥
मम वेदाटवीनाथकृपया नाशुभं क्वचित्॥ ७९॥
तवापि कुशलं ब्रह्मन्किं सुखागमनं तथा ॥
किंवाऽऽगमनकार्यं ते सुदर्शन ममाश्रमे ॥८०॥
स्वनयस्य पुरोधास्त्वं खलु वेदविदांवरः ॥
तं विहाय महाराज मधुरापुरवासिनम् ॥८१॥
महत्या सेनया सार्धं किमर्थं त्वमिहागतः ॥
इत्युक्तो दीर्घतमसा तदानीं स सुदर्शनः ॥८२॥
उवाच तं महात्मानं मुनिं ज्वलिततेजसम् ॥
सर्वत्र मे सुखं ब्रह्मन्भवतः कृपया सदा ॥८३॥
भगवन्स्व नयो राजा साष्टांगं प्रणिपत्य तु॥
त्वां प्राह प्रश्रितं वाक्यं मन्मुखेन शृणुष्व तत् ॥८४॥
॥ स्वनय उवाच ॥
कक्षीवांस्ते सुतो ब्रह्म न्गंधमादनपर्वते ॥
स्नानं कुर्वन्नगस्त्यस्य तीर्थे संप्रति वर्तते ॥८५॥
तस्य रूपं तपो धर्ममाचारान्वैदिकांस्तथा ॥
वेदशास्त्रप्रवीणत्वमाभि जात्यं च तादृशम् ॥८६॥
लोकोत्तरमिदं सर्वं विज्ञाय तव नंदने ॥
मनोरमां सुतां तस्मै दातुमिच्छाम्यहं मुने ॥८७॥
मृगयाकौतुकी चाहं गंधमादनपर्वतम् ॥
आगतो मुनिशार्दूल वर्त्ते युष्मत्सुतांतिके ॥८८॥
पित्रनुज्ञां विना नाहमुद्वहेयं सुतां तव ॥
इति ब्रूते तव सुतः कक्षीवान्मुनिस त्तम ॥८९॥
तद्भावां मत्सुतां तस्मै दातुं मेऽनुग्रहं कुरु ॥
प्रैषयं च समीपं ते सेनया च सुदर्शनम् ॥९०॥
॥ सुदर्शन उवाच ॥॥
इति मां भगवन्राजा प्राहिणोत्तव सन्निधिम्॥
तद्भवाननुमन्यस्व राज्ञस्तस्य चिकीर्षितम् ॥९१॥
॥ श्रीसूत उवाच ॥
इत्युक्त्वा विररामाथ स्वनयस्य पुरोहितः ॥
ततो दीर्घतमाः प्राह स्वनयस्य पुरोहितम् ॥९२॥
॥ दीर्घतमा उवाच ॥
सुदर्शन भवत्वेवं कथितं स्वनयेन यत् ॥
ममाभीष्टतमं ह्येतत्पाणिग्रहणमंगलम् ॥९३॥
आगमिष्याम्यहं विप्र गन्धमादनपर्वतम् ॥
इत्युक्त्वा स मुनिर्विप्रा महादीर्घतमा मुनिः ॥९४॥
वेदाटवीपतिं नत्वा भक्तिप्रवणचेतसा ॥
सुदर्शनेन सहितः सेतुमुद्दिश्य निर्ययौ ॥९५॥
षट्भिर्दिनैर्मुनिः पुण्यं प्रययौ गन्धमादनम् ॥
अगस्तितीर्थतीरं च गत्वा दीर्घतमा मुनिः ॥९६॥
अथ पुत्रं ददर्शाग्रे कक्षीवंतं महामुनिः ॥
कक्षीवान्पितरं दृष्ट्वा ववन्दे नाम कीर्तयन् ॥९७॥
ततो दीर्घतमा योगी स्वांकमारोप्य तं सुतम् ॥
मूर्ध्न्युपाघ्राय सस्नेहं सस्वजे पुलकाकुलः ॥९८॥
कुशलं परिपप्रच्छ तदा दीर्घतमा ऋषिः ॥
सर्ववेदास्त्वयाधीताः कक्षीवन्किमु वत्सक ॥९९॥
शास्त्राण्यपाठीः किं त्वं वा वत्स सर्वं वदस्व मे ॥
इति पृष्टः स्वपित्रा स सर्वं वृत्तं तमव्रवीत् ॥१००॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्येऽगस्तितीर्थप्रशंसायां कक्षीवदुद्वाहोद्योगवर्णनंनाम षोडशोऽध्यायः ॥१६॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP