सेतुखण्डः - अध्याय ३६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
धनुष्कोटेस्तु माहात्म्यं भूयोऽपि प्रब्रवीम्यहम् ॥
दुराचाराभिधो यत्र स्नात्वा मुक्तो भवद्द्विजाः॥ १॥
॥ मुनय ऊचुः ॥
दुराचाराभिधः कोऽसौ सूत तत्त्वार्थकोविद ॥
किंच पापं कृतं तेन दुराचारेण वै मुने ॥२॥
कथं वा पातका न्मुक्तो धनुष्कोटौ निमज्जनात् ॥
एतच्छुश्रूषमाणानां विस्तराद्वद नो मुने ॥३॥
॥ श्रीसूत उवाच ॥
मुनयः श्रूयतां तस्य दुराचारस्य पातकम् ॥
स्नानेन धनुषः कोटौ यथा मुक्तश्च पातकात् ॥४॥
दुराचाराभिधो विप्रो गौतमीतीरमाश्रितः ॥
कश्चिदस्ति द्विजाः पापी क्रूरकर्मरतः सदा ॥५॥
ब्रह्मघ्नैश्च सुरापैश्च स्तेयिभिर्गुरुतल्पगैः ॥
तदा संसर्गदुष्टोऽसौ तैः साकं न्यवसद्विजाः ॥६॥
महापातकिसंसर्गं दोषेणास्य द्विजस्य वै ॥
ब्राह्मण्यं सकलं नष्टं निःशेषेण द्विजोत्तमाः ॥७॥
महापातकिभिः सार्द्धं दिनमेकं तु यो द्विजः ॥
निवसेत्सादरं तस्य तत्क्षणाद्वै द्विजन्मनः ॥ ८॥
ब्राह्मणस्य तुरीयांशो नश्यत्येव न संशयः ॥
द्विदिनं सेवनात्स्पर्शाद्दर्शनाच्छयनात्तथा ॥९॥
भोजनात्सह पंक्तौ च महापातकिभिर्द्विजाः ॥
द्वितीयभागो नश्येत ब्राह्मणस्य न संशयः ॥१०॥
त्रिदिनाच्च तृतीयांशो नश्यत्येव न संशयः ॥
चतुर्दिनाच्चतुर्थांशो विलयं याति हि ध्रुवम् ॥११॥
अतः परं तु तैः साकं शयनासनभोजनैः ॥
तत्तुल्यपातकी भूयान्महापातकसंभवात् ॥१२॥
तेन ब्राह्मण्यहीनोऽयं दुराचाराभिधो द्विजाः ॥
ग्रस्तोऽभवद्भीषणेन वेतालेन बलीयसा ॥१३॥
असौ परवशस्तेन वेतालेनातिपीडितः ॥
देशाद्देशं भ्रमन्विप्रा वनाच्चैव वनांतरम् ॥१४॥
पूर्वपुण्यविपाकेन दैवयोगेन स द्विजः ॥
रामचंद्रधनुष्कोटिं महापातकनाशनीम् ॥१५॥
अनुद्रुतः पिशाचेन तेनाविष्टो ययौ द्विजाः ॥
न्यमज्जयत्स वेतालो धनुष्कोटिजले त्वमुम् ॥१६॥
धनुष्कोटिजले सोऽयं वेतालेन प्रवेशितः ॥
उदतिष्ठत्क्षणादेव वेतालेन विमोचितः ॥१७॥
उत्थितोऽसौ द्विजो विप्रा धनुष्कोटिजलात्तदा ॥
स्वस्थो व्यचिंतयत्कोऽयं देशो जलधितीरतः ॥१८॥
कथं मयागतमिह गौतमीतीरवासिना ॥
इति चिंताकुलः सोऽयं धनुष्कोटिनिवासिनम् ॥१९॥
दत्तात्रेयं महात्मानं योगिप्रवरमुत्तमम् ॥
समागम्य प्रणम्यासौ दुराचारोऽभ्यभाषत ॥२०॥
न जाने भगवन्देशः कतमोऽयं वदाधुना ॥
गौतमीतीरनिलयो दुराचाराभिधो ह्यहम् ॥२१॥
कृपया ब्रूहि मे ब्रह्मन्मयात्र कथमागतम्॥
इति पृष्टो मुनिस्तेन दुराचारेण सुव्रतः ॥२२॥
ध्यात्वा मुहूर्तमवदद्दुराचारं घृणानिधिः ॥
महापातकिसंसर्गे दुराचार कृते पुरा ॥२३॥
ब्राह्मण्यं नष्टमभवद्वेतालस्त्वां ततोऽग्रहीत् ॥
तेनाविष्टस्त्वमायातो विवशोऽत्र विमूढधीः ॥२४॥
न्यमज्जयत्त्वां वेतालो धनुष्कोटिजलेऽत्र तु ॥
तत्र मज्जनमात्रेण विमुक्तः पातकाद्भवान् ॥२५॥
धनुष्कोटौ तु ये स्नानं पुण्ये कुर्वंति मानवाः ॥
तेषां नश्यंति वै सत्यं पंचपातकसंचयाः ॥२६॥
रामचंद्रधनुष्कोटावत्र मज्जनमात्रतः ॥
महापातकिसंसर्गदोषस्ते विलयं ययौ ॥२७॥
तन्नाशादेव वेतालस्त्वां मुक्त्वा विलयं गतः ॥
त्वामग्रहीद्यो वेतालः पुरायं ब्राह्मणोऽभवत् ॥२८॥
सोऽयं भाद्रपदे मासे कृष्णपक्षे महालयम् ॥
पार्वणेन विधानेन पितॄणां नाकरोन्मुदा ॥२९॥
तेन स्वपितृभिः शप्तो वेतालत्वमगादयम् ॥
सोपि चास्य धनुष्कोटेरवलोकनमात्रतः ॥३०॥
वेतालत्वं विहायेह विष्णुलोकम वाप्तवान् ॥
अतो भाद्रपदे मासे कृष्णपक्षे महालयम् ॥३१॥
उद्दिश्य स्वपितॄन्ये तु न कुर्वन्त्यतिलोभतः ॥
महालोभयुतास्तेऽद्धा वेतालाः स्युर्न संशयः ॥३२॥
तस्माद्भाद्रपदे मासे कृष्णपक्षे महालयम् ॥
पितॄनुद्दिश्य शक्त्या ये ब्राह्मणान्वेदपारगान् ॥३३॥
भोजयेयुर्महान्नेन न ते विंदंति दुर्गतिम् ॥
यस्तु भाद्रपदे मासे कृष्णपक्षे महालयम् ॥३४॥
स्वशक्त्यनुगुणं विप्रमेकं द्वौ त्रीनकिंचनः ॥
भोजयेन्नहि दौर्गत्यं भवेदस्य कदाचन ॥३५॥
अयं भाद्रपदे मासे पितॄणामनुपासनात् ॥
ययौ वेतालतां विप्रो यस्त्वां जग्राह पापिनम् ॥३६॥
कालो भाद्रपदमासमारभ्य वृश्चिकावधि ॥
महालयस्य कथितो मुनिभिस्तत्त्वदर्शिभिः ॥३७॥
मासो भाद्रपदः कालस्तत्रापि हि विशिष्यते ॥
कृष्ण पक्षो विशिष्टः स्याद्दुराचारक तत्र वै ॥३८॥
तस्मिञ्छुभे कृष्णपक्षे प्रथमायां तथा तिथौ ॥
श्राद्धं महालयं कुर्याद्यो नरो भक्तिपूर्वकम् ॥३९॥
तस्य प्रीणाति भगवान्पावकः सर्वपावनः ॥
स वह्निलोकमाप्नोति वह्निना सह मोदते ॥४०॥
तस्मै च ज्वलनो देवः सर्वैश्वर्यं ददात्यपि ॥
प्रथमायां तिथौ मर्त्यो यो न कुर्यान्महालयम् ॥४१॥
वह्निर्गृहं दहेत्तस्य श्रियं क्षेत्रादिकं तथा ॥
वेदज्ञे ब्राह्मणे भुक्ते प्रथमायां महालये ॥४२॥
दश कल्पसहस्राणि पितरो यांति तृप्तताम् ॥
द्वितीयायां तु यो भक्त्या कुर्याच्छ्राद्धं महालयम् ॥४३॥
तस्य प्रीणाति भगवान्भवानीपतिरीश्वरः ॥
स कैलासमवाप्नोति शिवेन सह मोदते ॥४४॥
विपुलां संपदं तस्मै प्रीतो दद्यान्महेश्वरः ॥
द्वितीयायां तिथौ मर्त्यो यो न कुर्यान्महालयम् ॥४५॥
तस्य वै कुपितः शंभुर्नाशयेद्ब्रह्मवर्चसम् ॥
रौरवं कालसूत्राख्यं नरकं चास्य दास्यति ॥४६॥
वेदज्ञे ब्राह्मणे भुक्ते द्वितीयायां महालये ॥
विंशत्कल्प सहस्राणि पितरो यांति तृप्तताम् ॥४७॥
अनुग्रहात्पितॄणां च संततिश्चास्य वर्द्धते ॥
तृतीयायां नरो भक्त्या कुर्याच्छ्राद्धं महालयम् ॥४८॥
तस्य प्रीणाति भगवाँल्लोकपालो धनाधिपः ॥
महापद्मादिनिधयो वर्तंते तस्य वै वशे ॥४९॥
तस्यानुगास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥
तृतीयायां तिथौ मर्त्यो यो न कुर्यान्महालयम् ॥५०॥
धनदो भगवांस्तस्य संपदं हरति क्षणात् ॥
दारिद्यं च ददात्यस्मै बहुदुःखसमाकुलम् ॥५१॥
तृतीयायां तिथौ मर्त्यो यः करोति महालयम् ॥
तृप्यंति पितरस्तस्य त्रिंशत्कल्पसहस्रकम् ॥५२॥
चतुर्थ्यां तु नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
तस्य प्रीणाति भगवान्हेरंबः पार्वतीसुतः ॥५३॥
तस्य विघ्नाश्च नश्यंति गजवक्त्रप्रसादतः ॥
चतुर्थ्यां तु तिथौ मर्त्यो यो न कुर्यान्महालयम् ॥५४॥
विघ्नेशो भगवांस्तस्य सदा विघ्नं करोति हि ॥
चण्डकोलाहलाभिख्ये नरके च पतत्यथ ॥५५॥
चतुर्थ्यां वै तिथौ मर्त्यो यः करोति महालयम् ॥
पितरः कल्पसाहस्रं चत्वारिंशत्प्रहर्षिताः ॥५६॥
बहून्पुत्रान्प्रदास्यंति श्राद्धकर्तुर्निरंतरम् ॥
पंचम्यां तु तिथौ भक्त्या यो न कुर्यान्महालयम् ॥५७॥
तस्य लक्ष्मीर्भगवती परित्यजति मंदिरम् ॥
अलक्ष्मीः कलहाधारा तस्य प्रादुर्भवेद्गृहे ॥५८॥
पचम्यां तु तिथौ मर्त्यो यः करोति महालयम् ॥
तस्य तृप्यंति पितरः पंचकल्पसहस्रके ॥५९॥
संततिं चाप्यविच्छिन्नामस्मै दास्यंति तर्पिताः ॥
पार्वती च प्रसन्ना स्यान्महदैश्वर्यदायिनी ॥६०॥
षष्ठ्यां तिथौ नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
तस्य प्रीणाति भगवान्षण्मुखः पार्वती सुतः ॥६१॥
तस्य पुत्राश्च पौत्राश्च षण्मुखस्य प्रसादतः ॥
ग्रहैर्वालग्रहैश्चैव न बाध्यंते कदाचन ॥६२॥
षष्ठ्यां तिथौ नरो भक्त्या यो न कुर्यान्महालयम् ॥
तस्य स्कन्दो महासेनो विमुखः स्यान्न संशयः ॥६३॥
गर्भान्निर्गतमात्रैव प्रजा तस्य विनश्यति ॥
पूतनादिग्रहकुलैर्बाध्यते च निरंतरम् ॥६४॥
वह्निज्वालाप्रवेशाख्ये नरके च पतत्यधः ॥
षष्ठ्यां तिथौ यः श्रद्धावान्कुर्याच्छ्राद्धं महालयम् ॥६५॥
षष्टिकल्पसहस्रं तु पितरो यामति तृप्तताम् ॥
पुत्रानपि प्रदास्यंति संपदं विपुलां तथा ॥६६॥
सप्तम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ॥
हिरण्यपाणिर्भगवानादित्यस्तस्य तुष्यति ॥६७॥
अरोगो दृढगात्रः स्याद्भास्करस्य प्रसादतः ॥
हिरण्यपाणिर्भगवान्हिरण्यं पाणिना स्वयम् ॥६८॥
महालयश्राद्धकर्त्रे ददाति प्रीतमानसः ॥
सप्तम्यां तु तिथौ भक्त्या यो न कुर्यान्महालयम् ॥६९॥
व्याधिभिः क्षयरोगाद्यै बाध्यते स दिवानिशम् ॥
तीक्ष्णधारास्त्रशय्याख्ये नरके च पतत्यधः ॥७०॥
सप्तम्यां यो नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
सप्ततिं कल्पसाहस्रं प्रीणंति पितरोऽस्य वै ॥७१॥
संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ॥
अष्टम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महाल यम् ॥७२॥
मृत्युंजयः कृत्तिवासास्तस्य प्रीणाति शंकरः ॥
करस्थं तस्य कैवल्यं शंकरस्य प्रसादतः ॥७३॥
महालयेन श्राद्धेन तुष्टे साक्षात्त्रि यंबके ॥
चतुर्दशसु लोकेषु दुर्लभं तस्य किं भवेत् ॥७४॥
महालयं न कुर्याद्वै योऽष्टम्यां मूढचेतनः ॥
संसारसागरे घोरे सदा मज्जति दुःखितः ॥७५॥
कदाचिदपि तस्येष्टं नैव सिद्ध्यति भूतले ॥
वैतरिण्याख्यनरके पतत्याचंद्रतारकम् ॥७६॥
योऽष्टम्यां श्रद्धया श्राद्धं नरः कुर्यान्महालयम् ॥
अशीतिकल्पसाहस्रं तृप्यंति पितरोऽस्य वै ॥७७॥
आशीर्भिर्वर्द्धयंत्येनं विघ्नश्चास्य व्यपोहति ॥
संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ॥७८॥
नवम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ॥
दुर्गादेवी भगवती तस्य प्रीणाति शांभवी ॥७९॥
क्षयापस्मारकुष्ठा दीन्क्षुद्रप्रेतपिशाचकान् ॥
नाशयेत्तस्य सन्तुष्टा दुर्गा महिषमर्दिनी ॥८०॥
नवम्यां तु तिथौ मर्त्यो यो न कुर्यान्महालयम् ॥
अपस्मारेण पीड्येत तथैव ब्रह्मरक्षसा ॥८१॥
अभिचारार्थकृत्याभिर्वाध्येत च निरन्तरम् ॥
नवम्यां यस्तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम्॥ ८२॥
नवतिं कल्पसाहस्रं तृप्यन्ति पितरोऽस्य वै ॥
संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ॥८३॥
दशम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ॥
तस्यामृतकलश्चन्द्रः षोडशात्मा प्रसीदति ॥८४॥
औषधीनामधीशेऽस्मिञ्छ्राद्धेनानेन तोषिते ॥
व्रीह्यादीनि तु धान्यानि दद्युरोषधयः सदा॥ ८५॥
यो न कुर्याद्दशम्यां तु महालयमनुत्तमम् ॥
ओषध्यो निष्फलास्तस्य कृषिश्चाप्यस्य निष्फला ॥८६॥
दशम्यां यस्तिथौ मर्त्यः श्राद्धंकुर्यान्महालयम् ॥
शतकल्पसहस्राणि तृप्यंति पितरोऽस्य वै ॥८७॥
संततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ॥
एकादश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥८८॥
संहर्ता सर्वलोकस्य तस्य रुद्रः प्रसीदति ॥
रुद्रस्य सर्वसंहर्तुः प्रसादेन जगत्पतेः ॥८९॥
शत्रून्पराजय त्येष श्राद्धकर्ता निरन्तरम् ॥
ब्रह्महत्यायुतं चापि तस्य नश्यति तत्क्षणात् ॥९०॥
अग्निष्टोमादियज्ञानां फलमाप्नोति पुष्कलम् ॥
एकादश्यां नरो भक्त्या यो न कुर्यान्महालयम् ॥९१॥
तस्य वै विमुखो रुद्रो न प्रसीदति कर्हिचित् ॥
सर्वतो वर्धमानाश्च बाधन्ते शत्रवो ह्यमुम् ॥९२॥
अग्निष्टोमादिका यज्ञाः कृताश्च बहुदक्षिणाः ॥
निष्फला एव तस्य स्युर्भस्मनि न्यस्तहव्यवत् ॥९३॥
ब्रह्मवातकतुल्यः स्याच्छ्राद्धाकरणदोषतः ॥
एकादश्यां तिथौ यस्तु श्राद्धं कुर्यान्महालयम् ॥९४॥
द्विशतं कल्पसाहस्रं तृप्यंति पितरोऽस्य वै ॥
संततिं चाप्यविच्छिन्नां दद्युः पितृ गणाः सदा ॥९५॥
द्वादश्यां तु तिथौ मर्त्यः कुर्याच्छ्राद्धं महालयम् ।
तस्य लक्ष्मीपतिः साक्षात्प्रसीदति जनार्दनः ॥९६॥
प्रसन्ने सति देवेशे देवदेवे जनार्दने ॥
चराचरं जगत्सर्वं प्रीतमेव न संशयः ॥९७॥
भूमिर्हरिप्रिया चास्य सस्यं संवर्द्धयत्यपि ॥
लक्ष्मीश्च वर्द्धते तस्य मंदिरे हरिवल्लभा ॥९८॥
गदा कौमोदकी नाम नारायणकरस्थिता ॥
अपस्मारादिभूतानि नाशयत्येव सर्वदा ॥९९॥
तीक्ष्णधारं तथा चक्रं शत्रूनस्य दहत्यपि ॥
यातुधानपिशाचादीञ्छंखश्चास्य व्यपोहति ॥१००॥
एवं सर्वात्मना पीडां वारयत्यस्य केशवः ॥
महालयं न कुर्याद्यो द्वादश्यां मनुजा धम ॥१॥
तस्य क्षेत्राणि संपच्च विनश्यंति न संशयः ॥
अपस्मारादिभूतानि शत्रवश्च महाबलाः ॥२॥
यातुधानाश्च बाधन्ते तं वै विष्णुपराङ्मुखम्॥
पात्यते नरके चापि अस्थिभेदननामके॥३॥
द्वादश्यां भक्तियुक्तो यः श्राद्धं कुर्यान्महालयम् ॥
षट्शतं कल्पसाहस्रं प्रीणंति पितरोऽस्य वै ॥४॥
संततिं चाप्यविच्छिन्नां पितरोऽस्मै ददत्यपि॥
त्रयोदश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥५॥
प्रसीदत्यस्य भगवान्कंदर्पो रतिनायकः ॥
स्रग्चंदनादयो भोगा ललनाश्च मनोरमाः ॥६॥
कामदेवप्रसादेन तस्य सिद्ध्यंति सर्वदा॥
आजन्ममरणांतं च सुखमेव स विंदते ॥७॥
यो न कुर्यात्त्रयोदश्यां न च श्राद्धं महालयम् ॥
कामदेवोऽस्य विमुखः स्त्रियो भोगांश्च नाशयेत् ॥८॥
अंगारशय्याभ्रमणे नरके पातयत्यमुम् ॥
पितॄनुद्दिश्य यः कुर्यात्त्र योदश्यां महालयम् ॥९॥
सहस्रकल्पसाहस्रं प्रीणंति पितरोऽस्य वै ॥
संततिं चाप्यविच्छिन्नां दद्युः पितॄगणास्तदा ॥११०॥
चतुर्दश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
तस्याभीष्टप्रदानाय जागर्ति भगवाच्छिवः ॥११॥
उपदिश्य शिवज्ञानं सायुज्यं च ददात्यपि ॥
सुरापानायुतं चापि स्वर्णस्तेयायुतं तथा ॥१२॥
नश्यंति तत्क्षणादेव चतुर्दश्यां महालयात् ॥
चण्डालवृषलस्त्रीणां संगदोषोऽपि नश्यति ॥१३॥
अश्वमेधसहस्रस्य पौंडरीकायुतस्य च ॥
पुष्कला फलसिद्धिः स्याच्चतुर्दश्यां महालयात् ॥१४॥
यो न कुर्याच्चतुर्दश्यां श्राद्धमेतन्महालयम् ॥
स कल्पकोटिसाहस्रं कल्पकोटिशतं तथा ॥१५॥
संसारांधमहाकूपे पतितः स्यादनिष्कृतिः ॥
अचोरयित्वा कनकमपीत्वापि सुरां तथा ॥१६॥
सुरापानादिभिर्दोषैर्लिप्यते स विमूढधीः ॥
कृता अपि विधानेन यज्ञाः स्युर्निष्फलास्तथा ॥१७॥
चतुर्दश्यां तिथौ यस्तु कुर्याच्छ्राद्धं महालयम् ॥
लक्षकोटिसहस्राणि लक्षकोटिशतानिच ॥१८॥
कल्पानि पितरस्तस्य तृप्यंत्येव न संशयः ॥
नरकस्थाश्च पितरः स्वर्गं यांति प्रहर्षिताः ॥१९॥
संततिं चाप्यविच्छिन्नां दद्युः पितृगणास्तदा ॥
अमायां तु नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥१२०॥
पितॄणां तस्य तृप्तिः स्यादनंता नात्र संशयः ॥
सुधामास्वाद्य या तृप्तिर्देवानां दिवि वै भवेत् ॥२१॥
अनंता तादृशी तृप्तिरमावास्यां महालयात् ॥
अमावास्या महापुण्या पितृदेवनमस्कृता ॥२२॥
शांता ह्येषा तु परमा शिवस्य च महाप्रिया ॥
तस्यां महालये श्राद्धे भोजयेद्वेदवित्तमान् ॥२३॥
तेन तृप्तिः पितॄणां स्यादनंता तुष्यते शिवः ॥
ब्रह्महत्यादयः पंच पातका नाशमाप्नुयुः ॥२४॥
कृताश्च स्युर्विधानेन सर्वे यज्ञाः सदक्षिणाः ॥
अनुष्ठिताः स्युर्विधिवत्सर्वे धर्माः सनातनाः ॥२५॥
अमावास्यादिने येन कृतं श्राद्धं महालयम् ॥
प्रत्यग्ब्रह्मैकतां ज्ञात्वा सायुज्यं यात्यसंशयम्॥ २६॥
यो न कुर्यादमावास्यां महालयमचेतनः ॥
ब्रह्मलोकगताश्चास्य पितरो यांति नारकम् ॥२७॥
संततिश्चास्य मूढस्य विच्छि द्येतैव तत्क्षणात् ॥
स एव हि महानर्थो यदमायां तिथौ नरैः ॥२८॥
महालयार्थो विप्रेंद्रा विधिवन्नैव भोजिताः ॥
मासि भाद्रपदे प्राप्ते नृत्यंति पितृदेवताः ॥२९॥
अस्मानुद्दिश्य मत्पुत्रा भोजयेयुर्द्विजोत्तमान् ॥
तेन नो नरकक्लेशो न भविष्यति दारुणः ॥१३०॥
वासश्च स्वर्गलोके स्याद्यावदाचन्द्रतारकम् ॥
मासि भाद्रपदे प्राप्ते पितॄणां तृदिदायिनी ॥३१॥
एकैकं भोजयेद्विप्रं प्रत्यहं भक्तिपूर्वकम् ॥
पितृमातृकुलोद्भूताः पितरस्तृप्तिमाप्नुयुः ॥३२॥
कृष्णपक्षे विशेषेण ब्राह्मणान्भोजयेत्सुधीः ॥
घृतसूपादिसस्यैश्च तैलाभ्यंगपुरःसरम् ॥३३॥
सुधां पास्यंति पितरस्तस्याकल्पं प्रहर्षिताः ॥
सप्तमीं कृष्णपक्षस्य प्रारभ्य प्रत्यहं नराः ॥३४॥
विप्रान्यावदमावास्या त्रींस्त्रीनभ्यर्च्य भोजयेत् ॥
आरभ्य द्वादशीं विप्रांस्त्रीनवश्यं तु भोजयेत् ॥३५॥
अन्यथैश्वर्यहानिः स्यान्महादारिद्र्यभाग्भवेत् ॥
वित्तलोभं परित्यज्य विप्रान्सूपघृतादि भिः ॥३६॥
पयसा पायसान्नेन दध्नापूपादिभिस्तथा ॥
पेयैर्लेह्यैश्च चोष्यैश्च भक्ष्यैश्च विविधैरपि ॥३७॥
भोजयेद्वेदविन्मुख्यांस्तृप्तिस्तेषां यथा भवेत् ॥
तेन ब्रह्मा हरिः शंभुस्तृप्ताः स्युर्नात्र संशयः॥३८॥
अग्निष्वात्तादिपितरस्तथैवेंद्रादिदेवताः ॥
बहुनात्र किमुक्तेन तुष्टं तेन जगत्त्रयम् ॥३९॥
पार्वणेन विधानेन कुर्याच्छ्राद्धे महालयम्॥
नरो महालयश्राद्धे पितृवंश्यान्पितॄनिव ॥१४०॥
मातृवंश्यानपि पितॄन्भोजयेच्छ्रेयसे मुदा ॥
दक्षिणां च यथाशक्ति दद्याद्वित्तानुसारतः ॥४१॥
तस्मिन्महालये श्राद्धे वित्तशाठ्यं न कारयेत् ॥
दक्षिणा खलु यज्ञानां कथितेयं पुरोगवा ॥४२॥
अनः पुरोगवैर्हीनं करिष्यति यथाध्वनि ॥
अदक्षिणं तथा सोयं पितृयज्ञोऽपि रिष्यति॥४३॥
तस्माद्यज्ञेषु दातव्या दक्षिणाल्पा हि जानता॥
विधवाभिरपि स्त्रीभिरपुत्राभिर्महालयः ॥४४॥
भर्त्तॄनुद्दिश्य कर्तव्यो भूरिभोजनकर्मणा ॥
अन्यथा धर्महानिः स्यान्नरकं च महद्भवेत् ॥४५॥
मासि भाद्रपदे प्राप्ते यो न कुर्यान्महालयम् ॥
तत्कुलं नाशमाप्नोति ब्रह्महत्यां च विंदति ॥४६॥
महालयं प्रकुर्वंति श्रद्धावंतः पितॄन्प्रति ॥
न तेषां संततिच्छेदो भवेत्संपदभंगुरा ॥४७॥
आलयं ह्यास्पदं प्रोक्तं महः कल्याणमुच्यते ॥
कल्याणानामास्पदत्वान्महालयमुदीर्यते ॥४८॥
तस्मान्महालयं मर्त्यः कुर्यात्कल्याणसिद्धये ॥
अमंगलं भवेत्तस्य न कुर्याच्चेन्महालयम् ॥४९॥
नकुर्याद्यद्यपि श्राद्धं मातापित्रोर्मृतेऽहनि ॥
कुर्यान्महालयश्राद्धमस्मरन्नेव बुद्धिमान् ॥१५०॥
कर्तुं महालयश्राद्धं यदि शक्तिर्न विद्यते ॥
याचित्वापि नरः कुर्यात्पितृणां तन्महालयम् ॥५१॥
ब्राह्मणेभ्यो विशिष्टे भ्यो याचेत धनधान्यकम् ॥
पतितेभ्यो न गृह्णीयाद्धनधान्यं कदाचन ॥५२॥
ब्राह्मणेभ्यो न लभ्येत यदि धान्यधनादिकम् ॥
याचेत क्षत्रियश्रेष्ठा न्महालयचिकीर्षया ॥५३॥
दातारश्चेन्न भूपाला वैश्येभ्योऽपि च याचयेत् ॥
वैश्या अपि हि दातारो यदि लोके न संति वै ॥५४॥
दद्याद्भाद्रपदे मासे गोग्रासं पितृतृप्तये ॥
अथ वा रोदनं कुर्याद्बहिर्निर्गत्य कानने ॥५५॥
पाणिभ्यामुदरं स्वीयमाहत्याश्रूणि वर्तयन् ॥
तेष्वरण्यप्रदेशेषु उच्चैरेवं वदेन्नरः ॥५६॥
शृण्वंतु पितरः सर्वे मत्कुलीना वचो मम ॥
अहं दरिद्रः कृपणो निर्ल्लज्जः क्रूरकर्मकृत् ॥५७॥
प्राप्तो भाद्रपदो मासः पितृणां प्रीतिवर्द्धनः ॥
कर्त्तुं महालयश्राद्धं न च मे शक्तिरस्ति वै ॥५८॥
भ्रमित्वापि महीं कृत्स्नां न मे किंचन लभ्यते ॥
अतो महालयश्राद्धं न युष्माकं करोम्यहम् ॥५९॥
क्षमध्वं मम तद्यूयं भवंतो हि दयापराः ॥
दरिद्रो रोदनं कुर्यादेवं काननभूमिषु ॥१६०॥
तस्य रोदनमाकर्ण्य पितरस्तत्कुलोद्भवाः ॥
हृष्टास्तृप्तिं प्रयांत्येव सुधां पीत्वैव निर्जराः ॥६१॥
महालयार्थे विप्रौघे भुक्ते तृप्तिर्यथा भवेत् ॥
गोग्रासारण्यरुदितैः पितृ तृप्तिस्तथा भवेत् ॥६२॥
मासि भाद्रपदे विघ्नो यदि स्यात्सूतकादिना ॥
यातेषु सूतकाहःसु कुर्यादावृश्चिकावधि ॥६३॥
बुधो महालय स्यार्थे ब्राह्मणान्वृणुयान्नव ॥
पित्रर्थमेकं वृणुयात्पितामहकृते तथा ॥६४॥
प्रपितामहमुद्दिश्य तथैकं वृणुयाद्द्विजः ॥
तथा मातामहार्थं तु एकं वै वृणुयाद्द्विजम् ॥६५॥
मातुःपितामहार्थं च वृणुयाद्द्विजमेककम् ॥
वृणुयादेकमुद्दिश्य मातुश्च प्रपितामहम् ॥६६॥
तथैव विश्वेदेवार्थे वृणुयाद्द्वौद्वि जोत्तमौ ॥
विष्ण्वर्थं ब्राह्मणं त्वेकं वृणुयाद्वेदवित्तमम् ॥६७॥
एवं महालयश्राद्धे ब्राह्मणान्वृणुयान्नव ॥
अथवा पितृवर्गार्थं वरयेद्विप्रमेककम् ॥६८॥
मातामहादीन्वोद्दिश्य वरयेद्विप्रमेककम् ॥
विश्वेदेवार्थमेकं च विष्ण्वर्थं च तथापरम् ॥६९॥
एवं वै वरयेद्विप्राश्चतुरस्तु महालये ॥
ब्राह्मणान्वेदसंपन्नान्सुशीलान्वरयेत्सुधीः ॥१७०॥
दुःशीलान्वरयेद्यस्तु स वै श्राद्धस्य घातकः ॥
मासि भाद्रपदे प्राप्ते कृष्णपक्षे विशेषतः ॥७१॥
कुर्या न्महालयश्राद्धं यो नरः श्रद्धया सह ॥
स स्नातः सर्वतीर्थेषु दुराचार महामते ॥७२॥
अग्निष्टोमादयो यज्ञाः शतमप्यमुना कृताः ॥
तुलापुरुषमुख्यानि दानान्यपि कृतानि वै ॥७३॥
चांद्रायणादिकृच्छ्राणि कृतान्येव न संशयः ॥
चतुर्णां सांगवेदानां पारायणफलं लभेत् ॥७४॥
गायत्र्यादिमहामंत्रजपपुण्यं लभेत्तथा ॥
इतिहासपुराणानां पारायणफलं लभेत् ॥७५॥
महालयसमं पुण्यं वृत्तं नास्ति महीतले ॥
ब्रह्मविष्णुमहेशानलोकप्राप्तिर्महालयात् ॥७६॥
महालयादिकं श्राद्धं नित्यं काम्यमपीष्यते ॥
तस्मादकरणे तस्य प्रत्यवायो महान्भवेत् ॥७७॥
करणादिष्टसिद्धिश्च भविष्यति न संशयः ॥
महालयस्य करणाद्भूतवेतालकादयः ॥७८॥
अपस्मारग्रहाश्चापि शाकिनीडाकिनीगणाः ॥
यातुधानाः पिशाचाश्च वेतालाश्च भयानकाः ॥७९॥
नश्यंति तत्क्षणादेव भूतान्यन्यानि वै तथा ॥
महालयस्यकरणाद्विपुलां श्रियमश्नुते ॥१८०॥
पुरा दशरथो राजा वसिष्ठस्योपदेशतः ॥
मासि भाद्रपदे प्राप्ते कृत्वा श्राद्धं महालयम् ॥८१॥
रामादींश्च तुरः पुत्रान्प्राप्तवांल्लोकसंमतान् ॥
विश्वातिशायिनीं लक्ष्मीं प्रपेदे कीर्तिमुत्तमाम् ॥८२॥
महालयस्य करणाद्ययाती राजसत्तमः ॥
यदुमुख्यान्महापुत्रान्प्रपेदे वंशवर्द्धनान् ॥८३॥
अनन्यदुर्लभं स्वर्गं प्रपेदे श्राद्धपुण्यतः ॥
दुष्यंतो भरतं लेभे महालयविधानतः ॥८४॥
महालय विधानेन दमयंतीपतिर्नलः ॥
कृच्छ्रं महत्तरं तीर्त्वा पुनर्लेभे महीमिमाम् ॥८५॥
निजग्राह कलिं घोरं पुष्करं चाप्यरातिनम् ॥
इन्द्रसेनाभिधानं च पुत्रं लेभेऽतिधार्मिकम् ॥८६॥
हरिश्चंद्रो महाराजो महालयविधानतः ॥
विश्वामित्रकृताद्दुःखान्मुक्तः सत्यवतां वरः ॥८७॥
लेभे चंद्रवतीं भार्यां लोहिताश्वं सुतं पुनः ॥
महालयविधानेन कृतवीर्यसुतो बली ॥८८॥
अष्टादशानां द्वीपानामाधिपत्यमवाप्तवान् ॥
रामोऽपि दण्डकारण्ये महालयविधानतः ॥८९॥
हत्वा तु रावणं संख्ये सीतां पुनरवाप्तवान् ॥
महालयस्य करणाद्धर्मपुत्रो युधिष्ठिरः ॥१९०॥
दुःखसागरमुत्तीर्य धार्तराष्ट्राञ्जघान च ॥
महालयस्यकरणाद्वसिष्ठो मुनिसत्तमः ॥९१॥
अत्रिर्भृगुश्च कुत्सश्च गौतमश्चांगिरास्तथा ॥
कश्यपश्च भरद्वाजो विश्वा मित्रश्च कुम्भजः ॥९२॥
पराशरो मृकण्डश्च ये चान्ये मुनिसत्तमाः ॥
विधाय विधिवच्छ्राद्धं महालयमनुत्तमम् ॥९३॥
अणिमाद्यष्टसिद्धीनां व्रतानां तपसां तथा ॥
निवासभूता संजातास्तथा विश्वातिशायिनः ॥९४॥
जीवन्मुक्ताश्च ते सर्वे ह्यभवन्मुनिसत्तमाः ॥
अतो महालयश्राद्धं कर्तव्यं भूतिमिच्छता ॥९५॥
अतोऽद्यापि दुराचार न कुर्याद्यो महालयम् ॥
भूतवेतालकादिभ्यो भूयात्तस्य महद्भयम् ॥९६॥
महालयस्या करणाद्वेतालत्वमवाप्नुयात् ॥
त्वयाविष्टमिदं भूतं विप्रः सन्पूर्वजन्मनि ॥९७॥
नाम्ना वेदनिधिः पुण्यो भरद्वाजस्य चात्मनः ॥
कुशस्थल्यभिधाने च वसन्ग्रामे महामनाः ॥९८॥
न चकार विधानेन श्राद्धमेतन्महालयम् ॥
ततोयं पितृणां शापाद्वेतालत्वमवाप्तवान् ॥९९॥
तस्माद्भाद्र पदे मासे दुराचार पितॄन्प्रति ॥
ब्राह्मणान्भोजयान्नेन षड्रसेन सभक्तिकम् ॥२००॥
दारिद्र्यं तेन ते न स्यात्सुखीचैव भवान्भवेत् ॥
महापातकि संसर्गं मा कुरु त्वमितः परम् ॥१॥
त्वयानुभूतं यद्दुःखं वेतालग्रहणोद्भवम् ॥
गच्छ त्वमनुजानामि स्वदेशं प्रति मा चिरम् ॥२॥
इतीरितः स मुनिना दत्तात्रेयेण योगिना ॥
तं प्रणम्य ययौ देशं कृतार्थेनांतरात्मना ॥३॥
गत्वा च स्वगृहं विप्रो दुराचारो द्विजोत्तमाः ॥
विमुक्तवेताल भयो गतपातककंचुकः ॥४॥
दत्तात्रेयेरितेनासौ मार्गेण प्रीतमानसः ॥
त्यक्तपातकिसंसर्गः स्वाश्रमाचारतत्परः ॥५॥
रामचंद्रधनुष्कोटितीर्थ मज्जनगौरवात् ॥
देहांते परमां मुक्तिं दुराचारो ययौ तदा ॥६॥
॥ श्रीसूत उवाच ॥
एवं वः कथितं पुण्यं दुराचरविमोक्षणम् ॥
सेयं पुण्या धनुष्कोटिर्महापातकनाशिनी ॥७॥
यत्र हि स्नानमात्रेण दुराचारो विमोचितः ॥
अथवा धनुषः कोटेरियत्ता किं हि वै भवेत् ॥८॥
या निष्कृतिविहीनानि पापान्यपि विनाशयेत् ॥
प्रायश्चित्तविहीनानि यानि पापानि संति वै ॥९॥
तान्यप्यत्र विनश्यंति धनुष्कोटौ निमज्जनात् ॥
शूद्रेण पूजितं लिंगं विष्णुं वा यो नमेद्द्विजः ॥२१०॥
प्रायश्चित्तं न तस्योक्तं स्मृतिभिः परमर्षिभिः ॥
नश्येत्तस्यापि तत्पापं धनुष्कोटिनिमज्ज नात् ॥११॥
विप्रनिंदाकृतां नृणां प्रायश्चित्तं न विद्यते ॥
विश्वासघातकानां च कृतघ्नानां न निष्कृतिः ॥१२॥
भ्रातृभार्यारतानां च प्रायश्चित्तं न विद्यते ॥
शूद्रान्ने नियतानां च श्रुतिनिंदारतात्मनाम् ॥१३॥
कन्याविक्रयिणां विप्रा हयविक्रयिणां तथा ॥
देवविक्रयिणां वेदविक्रये निर तात्मनाम् ॥१४॥
धर्मविकयिणां पुंसां व्रतविक्रयिणां तथा ॥
तीर्थविक्रयिणां पुंसां प्रायश्चित्तं न विद्यते ॥१५॥
तेषां पापानि नश्यंति धनुष्कोटौ निम ज्जनात् ॥
मातृद्रोहपितृद्रोहयतिद्रोहरतात्मनाम् ॥१६॥
गुरुनिंदापराणां च शिवनिंदारतात्मनाम् ॥
विष्णुनिंदापराणां च यतिनिंदारतात्मनाम् ॥१७॥
सत्कथादूषकाणां च प्रायश्चित्तं न विद्यते ॥
तेषां चात्र धनुष्कोटौ स्नानाच्छुद्धिर्भविष्यति ॥१८॥
एवं वः कथितं विप्रा धनुष्कोटेस्तु वैभवम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥२१९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये धनुष्कोटिप्रशंसायां दुराचारसंसर्गदोषशांतिवर्णनंनाम षट्त्रिंशोऽध्यायः ॥३६॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP