सेतुखण्डः - अध्याय ४५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
एवं प्रतिष्ठिते लिंगे रामेणाक्लिष्टकारिणा ॥
लिंगं वरं समादाय मारुतिः सहसाऽऽययौ ॥१॥
रामं दाशरथिं वीरमभिवाद्य स मारुतिः ॥
वैदेहीलक्ष्मणौ पश्चात्सुग्रीवं प्रणनाम च ॥२॥
सीता सैकतलिंगं तत्पूजयंतं रघूद्वहम् ॥
दृष्ट्वाथ मुनिभिः सार्द्धं चुकोप पवनात्मजः ॥३॥
अत्यंतं खेदखिन्नः सन्वृथाकृतपरिश्रमः ॥
उवाच रामं धर्मज्ञं हनूमानंजनात्मजः ॥४॥
॥ हनूमानुवाच ॥
दुर्जातोऽहं वृथा राम लोके क्लेशाय केवलम् ॥
खिन्नोऽस्मि बहुशो देव राक्षसैः क्रूरकर्मभिः ॥५॥
मा स्म सीमंतिनी काचिज्जनयेन्मादृशं सुतम् ॥
यतोऽनुभूयते दुःखमनंतं भवसागरे ॥६॥
खिन्नोऽस्मि सेवया पूर्वं युद्धेनापि ततोधिकम्॥
अनन्तं दुःखमधुना यतो मामवमन्यसे ॥७॥
सुग्रीवेण च भार्यार्थं राज्यार्थं राक्षसेन च ॥
रावणावरजेन त्वं सेवितो ऽसि रघूद्वह ॥८॥
मया निर्हेतुकं राम सेवितोऽसि महामते ॥
वानराणामनेकेषु त्वयाज्ञप्तोऽहमद्य वै ॥९॥
शिवलिंगं समानेतुं कैलासात्पर्वतो त्तमात् ॥
कैलासं त्वरितो गत्वा न चापश्यं पिनाकिनम् ॥१०॥
तपसा प्रीणयित्वा तं सांबं वृषभवाहनम् ॥
प्राप्तलिंगो रघुपते त्वरितः समु पागतः ॥११॥
अन्यलिंगं त्वमधुना प्रतिष्ठाप्य तु सैकतम् ॥
मुनिभिर्देवगन्धर्वैः साकं पूजयसे विभो ॥१२॥
मयानीतमिदं लिंगं कैलासा त्पर्वताद्वृथा ॥
अहो भाराय मे देहो मन्दभाग्यस्यजायते ॥१३॥
भूतलस्य महाराज जानकीरमण प्रभो ॥
इदं दुःखमहं सोढुं न शक्नोमि रघूद्वह ॥१४
किं करिष्यामि कुत्राहं गमिष्यामि न मे गतिः ॥
अतः शरीरं त्यक्ष्यामि त्वयाहमवमानितः ॥१५॥
॥ श्रीसूत उवाच ॥
एवं स बहुशो विप्राः क्रुशित्वा पवनात्मजः ॥
दण्डवत्प्रणतो भूमौ क्रोधशोकाकुलोऽभवत् ॥१६॥
तं दृष्ट्वा रघुनाथोऽपि प्रहसन्निदमब्रवीत् ॥
पश्यतां सवदेवानां मुनीनां कपिरक्षसाम् ॥
सांत्वयन्मारुतिं तत्र दुःखं चास्य प्रमार्जयन् ॥१७॥
॥ श्रीराम उवाच ॥
सर्वं जानाम्यहं कार्यमात्मनोऽपि परस्य च ॥१८॥
जातस्य जायमानस्य मृतस्यापि सदा कपे ॥
जायते म्रियते जन्तुरेक एव स्वकर्मणा १९॥
प्रयाति नरकं चापि परमात्मा तु निर्गुणः ॥
एवं तत्त्वं विनिश्चित्य शोकं मा कुरु वानर ॥२०॥
लिंगत्रयविनिर्मुक्तं ज्योतिरेकं निरंजनम् ॥
निराश्रयं निर्विकारमात्मानं पश्य नित्यशः ॥२१॥
किमर्थं कुरुषे शोकं तत्त्वज्ञानस्य बाधकम् ॥
तत्त्वज्ञाने सदा निष्ठां कुरु वानरसत्तम ॥२२॥
स्वयंप्रकाशमात्मानं ध्यायस्व सततं कपे ॥
देहादौ ममतां मुंच तत्त्वज्ञानविरोधिनीम् ॥२३॥
धर्मं भजस्व सततं प्राणिहिंसां परित्यज ॥
सेवस्व साधुपुरुषाञ्जहि सर्वेंद्रियाणि च ॥२४॥
परित्यजस्व सततमन्येषां दोषकीर्तनम् ॥
शिवविष्ण्वादिदेवानामर्चां कुरु सदा कपे ॥२५॥
सत्यं वदस्व सततं परित्यज शुचं कपे ॥
प्रत्यग्ब्रह्मैकताज्ञानं मोहवस्तुसमुद्गतम् ॥२६॥
शोभनाशोभना भ्रांतिः कल्पि तास्मिन्यथार्थवत् ॥
अध्यास्ते शोभनत्वेन पदार्थे मोहवैभवात् ॥२७॥
रोगो विजायते नृणां भ्रांतानां कपिसत्तम ॥
रागद्वेषबलाद्बद्धा धर्मा धर्मवशंगताः ॥२८॥
देवतिर्यङ्मनुष्याद्या निरयं यांति मानवाः ॥
चंदनागरुकर्पूरप्रमुखा अतिशोभनाः ॥२९॥
मलं भवंति यत्स्पर्शात्तच्छरीरं कथं सुखम्॥
भक्ष्यभोज्यादयः सर्वे पदार्था अतिशोभनाः ॥३०॥
विष्ठा भवंति यत्संगात्तच्छरीरं कथं सुखम्॥
सुगंधि शीतलं तोयं मूत्रं यत्संगमाद्भवेत् ॥३१॥
तत्कथं शोभनं पिंडं भवेद्ब्रूहि कपेऽधुना ॥
अतीव धवलाः शुद्धाः पटा यत्संगमेनहि ॥३२॥
भवंति मलिनाः स्वेदात्तत्कथं शोभनं भवेत ॥
श्रूयतां परमार्थो मे हनूमन्वायुनंदन ॥३३॥
अस्मिन्संसारगर्ते तु किंचित्सौख्यं न विद्यते ॥
प्रथमं जंतुराप्नोति जन्म बाल्यं ततः परम् ॥३४॥
पश्चाद्यौवनमाप्नोति ततो वार्धक्यमश्नुते ॥
पश्चान्मृत्युमवाप्नोति पुनर्जन्म तदश्नुते ॥३५॥
अज्ञानवैभवादेव दुःखमाप्नोति मानवः ॥
तदज्ञान निवृत्तौ तु प्राप्नोति सुखमुत्तमम् ॥३६॥
अज्ञानस्य निवृत्तिस्तु ज्ञानादेव न कर्मणा ॥
ज्ञानं नाम परं ब्रह्म ज्ञानं वेदांतवाक्यजम् ॥३७॥
तज्ज्ञानं च विरक्तस्य जायते नेतरस्य हि ॥
मुख्याधिकारिणः सत्यमाचार्यस्य प्रसादतः ॥३९॥
यदा सर्वे प्रमुच्यंते कामा येऽस्य हृदि स्थिताः ॥
तदा मर्त्योऽमृतोऽत्रैव परं ब्रह्म समश्नुते ॥३९॥
जाग्रतं च स्वपंतं च भुंजंतं च स्थितं तथा ॥
इमं जनं सदा क्रूरः कृतांतः परिकर्षति ॥४०॥
सर्वे क्षयांता निचयाः पतनांताः समुच्छ्रयाः ॥
संयोगा विप्रयोगांता मरणांतं च जीवितम् ॥४१॥
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ॥
यथा नराणां जातानां नान्यत्र पतनाद्भयम् ॥४२॥
यथा गृहं दृढस्तंभं जीर्णं काले विनश्यति ॥
एवं विनश्यंति नरा जरामृत्युवशंगताः ॥४३॥
अहोरात्रस्य गमनान्नृणामायुर्विनश्यति ॥
आत्मानमनुशोच त्वं किमन्यमनुशोचसि ॥४४॥
नश्यत्यायुः स्थितस्यापि धावतोऽपि कपीश्वर ॥
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ॥४५॥
चरित्वा दूरदेशं च सह मृत्युर्निवर्तते ॥
शरीरे वलयः प्राप्ताः श्वेता जाताः शिरोरुहाः ॥४६॥
जीर्यते जरया देहः श्वासकासादिना तथा ॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥४७॥
समेत्य च व्यपेयातां कालयोगेन वानर ॥
एवं भार्या च पुत्रश्च वधुक्षेत्रधनानि च ॥४८॥
क्वचित्संभूय गच्छंति पुनरन्यत्र वानर ॥
यथा हि पांथं गच्छंतं पथि कश्चित्पथि स्थितः ॥४९॥
अहमप्या गमिष्यामि भवद्भिः साकमित्यथ ॥
कंचित्कालं समेतौ तौ पुनरन्यत्र गच्छतः ॥५०॥
एवं भार्यासुतादीनां संगमो नश्वरः कपे ॥
शरीरजन्मना साकं मृत्युः संजायते ध्रुवम् ॥५१॥
अवश्यंभाविमरणे न हि जातु प्रतिक्रिया ॥
एतच्छरीरपाते तु देही कर्मगतिं गतः ॥५२॥
प्राप्य पिंडांतरं वत्स पूर्वपिंडं त्यजत्यसौ ॥
प्राणिनां न सदैकत्र वासो भवति वानर ॥५३॥
स्वस्वकर्मवशात्सर्वे वियुज्यंते पृथक्पृथक् ॥
यथा प्राणिशरीराणि नश्यंति च भवंति च ॥५४॥
आत्मनो जन्ममरणे नैव स्तः कपिसत्तम ॥
अतस्त्वमंजनासूनो विशोकं ज्ञानमद्वयं ॥ ॥५५॥
सद्रूपममलं ब्रह्म चिंतयस्व दिवानिशम् ॥
त्वत्कृतं मत्कृतं कर्म मत्कृतं त्वाकृतं तथा ॥५६॥
मल्लिंगस्थापनं तस्मात्त्वल्लिंग स्थापनं कपे ॥
मुहूर्तातिक्रमाल्लिंगं सैकतं सीतया कृतम् ॥५७॥
मयात्र स्थापितं तस्मात्कोपं दुःखं च मा कुरु ॥
कैलासादागतं लिंगं स्थापयास्मिच्छुभे दिने ॥५८॥
तव नाम्ना त्विदं लिंगं यातु लोकत्रये प्रथाम् ॥
हनूमदीश्वरं दृष्ट्वा द्रष्टव्यो राघवेश्वरः ॥५९॥
ब्रह्मराक्षसयूथानि हतानि भवता कपे ॥
अतः स्वनाम्ना लिंगस्य स्थापनात्त्वं प्रमोक्ष्यसे ॥६०॥
स्वयं हरेण दत्तं तु हनूमन्नामकं शिवम् ॥
संपश्यन्रामनाथं च कृतकृत्यो भवेन्नरः ॥६१॥
योजनानां सहस्रेऽपि स्मृत्वा लिंगं हनूमतः ॥
रामनाथेश्वरं चापि स्मृत्वा सायुज्यमाप्नुयात् ॥६२॥
तेनेष्टं सर्वयज्ञैश्च तपश्चाकारि कृत्स्नशः ॥
येन दृष्टौ महादेवौ हनूमद्राघवेश्वरौ ॥६३॥
हनूमता कृतं लिंगं यच्च लिंगं मया कृतम् ॥
जानकीयं च यल्लिंगं यल्लिंगं लक्ष्मणेश्वरम् ॥६४॥
सुग्रीवेण कृतं यच्च सेतुकर्त्रा नलेन च ॥
अंगदेन च नीलेन तथा जांबवता कृतम् ॥६५॥
विभीषणेन यच्चापि रत्नलिंगं प्रतिष्ठितम् ॥
इन्द्राद्यैश्च कृतं लिंगं यच्छेषाद्यैः प्रतिष्ठितम् ॥६६॥
इत्येकादशरूपोऽयं शिवः साक्षाद्विभासते ॥
सदा ह्येतेषु लिंगेषु संनिधत्ते महेश्वरः ॥६७॥
तत्स्वपापौघशुद्ध्यर्थं स्थापयस्व महेश्वरम् ॥
अथ चेत्त्वं महाभाग लिंगमुत्सादयिष्यसि ॥६८॥
मयात्र स्थापितं वत्स सीतया सैकतं कृतम् ॥
स्थापयिष्यामि च ततो लिंगमेतत्त्वया कृतम् ॥६९॥
पातालं सुतलं प्राप्य वितलं च रसातलम् ॥
तलातलं च तदिदं भेदयित्वा तु तिष्ठति ॥७०॥
प्रतिष्ठितं मया लिंगं भेत्तुं कस्य बलं भवेत् ॥
उत्तिष्ठ लिंगमुद्वास्य मयैतत्स्थापितं कपे ॥७१॥
त्वया समाहृतं लिंगं स्थापयस्वाशु मा शुचः ॥
इत्युक्तस्तं प्रणम्याथाज्ञातसत्त्वोऽथ वानरः ॥७२॥
उद्वासयामि वेगेन सैकतं लिंगमुत्त मम्॥
संस्थापयामि कैलासादानीतं लिंगमादरात् ॥७३॥
उद्वासने सैकतस्य कियान्भारो भवेन्मम ॥
चेतसैवं विचार्यायं हनूमान्मारुता त्मजः ॥७४॥
पश्यतां सर्वदेवानां मुनीनां कपिरक्षसाम् ॥
पश्यतो रामचन्द्रस्य लक्ष्मणस्यापि पश्यतः ॥७५॥
पश्यंत्या अपि वैदेह्या लिंगं तत्सैकतं बलात् ॥
पाणिना सर्वयत्नेन जग्राह तरसा बली ॥७६॥
यत्नेन महता चायं चालयन्नपि मारुतिः ॥
नालं चालयितुं ह्यासीत्सैकतं लिंगमोजसा ॥७७॥
ततः किलकिलाशब्दं कुर्वन्वानरपुंगवः ॥
पुच्छमुद्यम्य पाणिभ्यां निरास्थत्तन्निजौजसा ॥७८॥
इत्यनेकप्रकारेण चाल यन्नपि वानरः ॥
नैव चालयितुं शक्तो बभूव पवनात्मजः ॥७९॥
तद्वेष्टयित्वा पुच्छेन पाणिभ्यां धरणीं स्पृशन् ॥
उत्पपाताथ तरसा व्योम्नि वायुसुतः कपिः ॥८०॥
कंपयन्स धरां सर्वां सप्तद्वीपां सपर्वतम् ॥
लिंगस्य क्रोशमात्रे तु मूर्च्छितो रुधिरं वमन् ॥८१॥
पपात हनुमान्विप्राः कंपितांगो धरातले ॥
पततो वायुपुत्रस्य वक्त्राच्च नयनद्वयात् ॥८२॥
नासापुटाच्छ्रोत्ररंध्रादपानाच्च द्विजोत्तमाः ॥
रुधिरौघः प्रसुस्राव रक्तकुण्ड मभूच्च तत्॥ ८३॥
ततो हाहाकृतं सर्वं सदेवासुरमानुषम् ॥
धावंतौ कपिभिः सार्द्धमुभौ तौ रामलक्ष्मणौ ॥८४॥
जानकीसहितौ विप्रा ह्यास्तां शोकाकुलौ तदा ॥
सीतया सहितौ वीरौ वानरैश्च महाबलौ ॥८५॥
रुरुचाते तदा विप्रा गन्धमादनपर्वते ॥
यथा तारागणयुतौ रजन्यां शशि भास्करौ ॥८६॥
ददर्शतुर्हनूमंतं चूर्णीकृतकलेवरम्॥
मूर्च्छितं पतितं भूमौ वमन्तं रुधिरं मुखात्॥ ८७॥
विलोक्य कपयः सर्वे हाहाकृत्वाऽपतन्भुवि ॥
कराभ्यां सदयं सीता हनूमंतं मरुत्सुतम्॥ ८८॥
ताततातेति पस्पर्श पतितं धरणीतले ॥
रामोऽपि दृष्ट्वा पतितं हनूमंतं कपीश्वरम् ॥ ८९॥
आरोप्यांकं स्वपाणिभ्यामाममर्श कलेवरम् ॥
विमुंचन्नेत्रजं वारि वायुजं चाव्रवीद्द्विजाः ॥९०॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामचन्द्रतत्त्वज्ञानोपदेशवर्णनंनाम पंचचत्वारिंशोऽध्यायः ॥४५॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP