१ मङ्गलाचरणम्, नैमिषारण्यनिवासिनां शौनकादिमहर्षीणां समाजे पौराणिकस्य सूतमहर्षेरागमनम्, शौनकादिभिर्मर्हषिभिः सूतं प्रतिसत्कारकरणानन्तरं क्षेत्रतीर्थ माहात्म्यजिज्ञासया प्रश्नकरणम्, सूतेन श्रीरामेश्वरक्षेत्रमाहात्म्यवर्णनोपक्रमकरणम्, तत्रादौ दक्षिणोदधिस्थश्रीरामनिर्मितसेतुबन्धयात्रासेतुबन्धदर्शनरामसेतुस्ना नरामेश्वरलिङ्गदर्शनमाहात्म्यकथनम् -- १ १
Esoteric aspect of Setu
२ अथ सेतुबन्धनवृत्तान्तप्रसङ्गेन श्रीरामचन्द्रस्य पितुराज्ञया दण्डकारन्यगमनसीता- हरणसुग्रीवसख्यसमुद्रतीरगमनविभीषणसमागमान्तरामायणवृत्तान्तवर्णनम्, अथ सर्वराक्षसराज्ये विभीषणाभिषेचनानन्तरं समुद्रतरणोपायचिन्तया चक्रतीर्थे सुग्रीवादिभिः सह दर्भशयने स्थित्वा मन्त्रकरणम्, ततस्त्रिरात्रपर्यन्तं समुद्र- तरणोपायं चिन्तयानेन रामेण समुद्रस्योपासनापूर्वकं प्रतीक्षणम्, अथ समुद्रस्य स्वं प्रत्यनागमनादिरूपमनादरं दृष्ट्वा श्रीरामेण समुद्रं शोषयितुं प्रतिज्ञाया कृतायां भयभीतेन समुद्रेण श्रीरामं प्रति शरणमागत्य श्रीरामस्य स्तुतिकरणम्, ततस्तत्स्तुतिप्रसन्नेन श्रीरामेण लङ्कागमनार्थं तरणार्थमुक्ते समुद्रेण स्वोपरि सेतु- बन्धनार्थं विज्ञप्तिकरणम्, ततः श्रीरामेण सर्ववानरसाहाय्येन विश्वकर्मसुतनल- वानरद्वारा समुद्रे सेतुबन्धनम् दर्भशयनस्य सेतुमूलत्ववर्णनम्, सेतौ स्थितानां चक्रतीर्थादिचतुर्विंशतितीर्थानां वर्णनम् ४ १
३ अथ सेतुमूलाख्यचक्रतीर्थप्रसिद्धिवृत्तान्तवर्णनम्, तत्र धर्मपुष्करिणीतीरे गालवाख्य-. महर्षितपस्तुष्टेन भगवता गालवाय वरप्रदानपूर्वकं धर्मस्याराधनसन्तोषितहर- प्रसादलब्धहरवाहनवृषभत्वप्राप्तिवृत्तान्तवर्णनम्, अथहरिभक्तिपरायणस्य गालव- महर्षेः केनचिद्राक्षसेन भक्षणार्थं गृहीतस्य स्तुत्या भगवता प्रेषितेन सुदर्शनचक्रेण राक्षसस्य हननम् सू ततो निहतं राक्षसं दृष्ट्वा गालवेन पुरःस्थितस्य देदीप्यमानस्य सुदर्शनचक्रस्य स्तुतिकरणम्, ततः सुदर्शनचक्रेण गालवमहर्षये वरप्रदानपूर्वकं धर्मपुष्करिण्यां सदा सन्निधानकरणम् , तत एव धर्मपुष्करिण्याश्चक्रतीर्थत्वेन प्रसिद्धिः, धर्मतीर्थापरपर्यायचक्रतीर्थस्य माहात्म्यवर्णनम् . ६ २
४ गालवमहर्षित्रासदायकराक्षसवृत्तान्तवर्णनम्, तत्र विश्वावसुगन्धर्वसुतस्य दुर्दमाख्य- स्य सलिलाशये विवस्त्रस्य विवस्त्राभिः स्त्रीभिः सह क्रीडया मदान्धतामवेक्ष्य माध्या- ह्निकविधानार्थे सलिलाशयं प्रत्यागतेन वसिष्ठमहर्षिणा शापप्रदानम्, वसिष्ठशा- पाद्दुर्दमस्य राक्षसत्वप्राप्तिः, तद्भार्याभिः प्रार्थितेन वसिष्ठेन दुर्दमस्य शापान्ताव- धिकरणम्, ततो दुर्दमस्य सुदर्शनचक्रकृतशिरश्छेदानन्तरं दिव्यदेहप्राप्तिः, दुर्दमेन सुदर्शनचक्रस्तुतिकरणम् , दर्भशयनमारभ्य देवीपत्तनपर्यन्तं चक्रतीर्थ- स्यायामविस्तारवत्त्वे सत्यपि मध्येमध्ये विच्छिन्नताकारणकथनानुसारेण शक्रकृत- पर्वतपक्षच्छेदनवृत्तान्तवर्णनम्. ८ २
५ अथ चक्रतीर्थमाहात्म्यप्रसंगेन विधूमाख्यवस्वलंबुसाप्सरोवृत्तान्तवर्णनम्, तत्र ब्रह्म- लोके निजसभायां सावित्रीसनकप्रभृतिसमस्तसुरमुनिसिद्धवसुगन्धर्वैः सह स्थितस्य ब्रह्मणः पुरस्तादखिलाप्सरसां पर्यायनृत्यसमारंभे क्रमेणालंबुसाख्याया अप्सरसो नृत्यमानाया लीलया वायुनाभ्यन्तरवस्त्रे समुत्क्षिप्ते सति स्पष्टोरुमूलजघनदर्शनेन कामबाणनिपीडितस्य विधूमनामकस्य वसोर्निर्लज्जतां निरीक्ष्य ब्रह्मणा तस्मै मनुष्यत्वप्राप्तिरूपशापप्रदानम्, अलंबुसायाश्च मानुषीत्वप्राप्तिरूपशापप्रदानम्, विधूमप्रार्थनया ब्रह्मणा तच्छापान्तावधिकरणम्, अथ भूतले शतानीकमही- पतेर्भार्यायां विधूमवसोः सहस्रानीकनाम्ना जन्म, तस्य त्रयाणामनुचराणां च तन्मन्त्रिसेनानीवयस्यानां गृहेषु जन्म, अलंबुषाख्यायाः स्वर्वेश्याया अयोध्या- धिपतेः कृतवर्मणः कन्यात्वम् ,अथ शतानीके नृपे दिवि दैत्येन सह युद्धे मृते सति सहस्रानीकस्य राज्याभिषेकः, अनन्तरं सनंदनमहोत्सवे शक्रनिमन्त्रणवशाच्छ-क्रभवनं गतेन सहस्रानीकेन शक्रवचनान्निजशापान्तवृत्तान्तमाज्ञाय भुवमागत्य मृगावतीपरिणयनम्, मृगावतीपरिणयोत्तरं कौशांबीं नगरीं प्रति प्रस्थितस्य सहस्रानीकस्य मध्येमार्ग शक्रवचनं ध्यात्वाऽनालोकितया तिलोत्तमाख्ययाऽप्स- रसा चतुर्दशसमापर्यंतं भार्यया सह ते वियोगो भविष्यतीति शापप्रदानम्, अथ कालेन गर्भिण्यां मृगावत्यां दौर्हृदपरिपूर्त्यै कौसुम्भकुसुमपूर्णवाप्यां निमज्जने क्रियमाणे सुपर्णकुलसंभवेन विकटपक्षिणा हरणपूर्वकमुदयाचलशिखरोपारे नय- नम्, तत्र जमदग्निना शोकाकुलाया मृगावत्याः सान्त्वनपूर्वकं स्वाश्रमे स्थापनम्, अथ तत्र प्रसूताया मृगावत्याः पुत्रस्य जमदग्निनोदयनेतिनामकरणम्, उदयनेन स्वमातृदत्तकंकणं प्रदाय शबरव्याधतो मोचितेन सद्यो मनुष्यरूपधृता किंनराख्य- नागेन सह पातालं प्रति गत्वा धृतराष्ट्रनागकन्यया किंनरनागभगिन्या ललिता- ख्यया सह विवाहकरणम्, ललितायां तस्मात्पुत्रोत्पत्तिः, अथ ललितायाः शापतो विमुक्तिः, उदयनस्य ललितासकाशात्पुत्रं तांबूलीस्रजं घोषवतीं वीणां च गृहीत्वा स्वमातरं प्रति जमदग्न्याश्रम आगमनम्, शबरव्याधसमीपे स्थितं निजमुद्रांकित- कंकणं दृष्ट्वा सहस्रानीकेन शबरात्कंकणप्राप्तिवृत्तांतं श्रुत्वा मन्त्रिभिः सह जम दग्न्याश्रमं प्रति गमनम्, जमदग्नितः स्वभार्या मृगावती स्वपुत्रमुदयनं स्वपौत्रं च प्राप्य स्वपुरीं प्रत्यागमनम् , तत उदयनाख्ये स्वपुत्रे राज्यभारं न्यस्य स्वशाप- निवृत्तये मृगावतीपत्न्या वसंतकरुमण्वद्यौगन्धरायणाख्यैर्निजमन्त्रिपुत्रादिभिश्च सह दक्षिणोदधितटस्थचक्रतीर्थं गत्वा तत्र स्नानमात्रेण तस्य शापनिवृत्तिपूर्वक रूपप्राप्तिवर्णनम्, ततस्तेषां चतुर्णामपि पूर्वस्वरूपावाप्तिवर्णनम्, चक्रतीर्थमाहात्म्य- वर्णनम् १० १
६ अथ नवपाषाणस्थानस्थदेवीपत्तनवृत्तान्तवर्णनम्, तत्र देवैर्हतपुत्रया दित्या निज- पुत्रीं प्रति तपश्चरणार्थमाज्ञाकरणम्, दित्याज्ञया तत्पुत्र्या महिषीरूपं धृत्वा तपो- वनं गत्वा पंचाग्निसाधनादिघोरतपःकरणम, तत्तपःक्षुब्धेन सुपार्श्वमुनिना तां प्रति देवविजयिमहिषमुखनररूपपुत्रप्राप्तिमाश्वास्य तां गृहीत्वा च स्वस्थानं प्रति गम-नम्, अथ तस्या दितिपुत्र्याः सकाशान्महिषासुरोत्पत्तिः, महिषासुरेण सर्वदैत्य-राज्याधिपत्यप्राप्त्यनंतरं देवैः सह युद्धं कृत्वा सर्वदेवानां पराजयकरणम् , अथ पराजितान्देवान्गृहीत्वा ब्रह्मणो नारायणशिवसमीपं प्रति गमनम्, ब्रह्मनिवेदितमहिषासुरोपद्रव वृत्तान्तमाश्रुत्य कुद्धयो रमेश्वरमहेश्वरयोर्मुखतः सुमहत्ते-जसो निष्क्रमणम्, तदनु सर्वदेवशरीरेभ्यस्तेजसो निष्क्रमणम , तेषां सर्वेषां तेजसामेकत्र समुदायेन परमभास्वरसर्वाङ्गसुन्दरदुर्गानामकनारीसमुत्पत्तिः, ततः सर्वदेवैस्तस्यै दुर्गादेव्यै निजायुधेभ्य उत्पादितानामायुधानां प्रदानम् , सर्वदेवैः स्तुतया देव्या सिंहमारुह्य महिषासुरवधार्थं सुभैरवाट्टहासकरणम्, अथ महिषा-सुरसैन्यैः सह देवानामतिभयंकरयुद्धम्, तत्र युद्धे देव्या महिषासुरसैन्यवधकरण-वर्णनम् . १३ २
७ अथ देव्या महिषासुरप्रहितचण्डकोपाख्यासुरहननानन्तरं युद्धार्थं स्वयमुपस्थितेन महिषासुरेण सह तुमुलयुद्धकरणम, ततो देव्या महिषासुरवधकरणम्, महिषासुर-वधेन संतुष्टैर्देवैर्देव्याः स्तुतिकरणम्, ततो देवेषु स्वस्वाधिकारस्थानेषु गतेषु सत्सु जगन्मात्रा देव्या दक्षिणोदधितीरे धर्मपुष्करिणीतीर्थदेवीपत्तनयोर्निर्माणपूर्वकं वरप्रदानम् , श्रीरामचन्द्रेण नवग्रहस्वरूपनवपाषाणस्थापनपूर्वकं नलद्वारा सेतु-निर्मापणम्, सेत्वारम्भसीमास्थानवर्णनम्, सेतुनाथहरिमाहात्म्यम् , चक्रतीर्थप्र-शंसा, दर्भशयनस्थानमारभ्य सेतुयात्रारम्भकथनम्. १५ १
८ अथ वेतालवरदतीर्थवृत्तान्तवर्णनम् , तत्र गालवमहर्षिकन्यायाः कान्तिमतीनाम्न्याः सुदर्शनाख्येन विद्याधरकुमारेण मदनविह्वलतया केशेषु ग्रहणम्, गालवेन सुद-र्शनाख्यविद्याधराय मनुष्यत्वप्राप्तिपूर्वकवेतालत्वप्राप्तिशापप्रदानम, तदनुमोदक-स्य तत्कनिष्ठबन्धोः सुकर्णकाख्यस्य च केवलमनुष्यत्वप्राप्तिरूपशापप्रदानम्, तत-स्तयोः सुदर्शनसुकर्णकयोर्यमुनातीरनिवासिगोविन्दस्वामिनो गृहे विजयदत्ताशो-कदत्तनामकतनयत्वप्राप्तिः, अथ स्वदेशे दुर्भिक्षवशाद्वाराणसीं प्रति गतेन गोविं- दस्वामिना कपालमालाभरणाख्ययतिमुखाद्विजयदत्तनामकपुत्रभविष्यद्वियोगश्र- वणम्, विजयदत्तस्याकस्मात्कपालस्फोटनामकवेतालत्वप्राप्तिवृत्तान्तवर्णनम् १६ २
९ अथ पुत्रशोकव्याकुलस्य गोविंदस्वामिनः स्वगृहं प्रत्यागत्य भार्यया सह विलापकर- णम्, अशोकदत्तनाम्ना गोविंदस्वामिद्वितीयपुत्रेण प्रतापमुकुटाख्यनरपतेरनुज्ञया दाक्षिणात्यमहामल्लस्य निपातनपूर्वकं हननम्, अथ प्रतापमुकुटनृपतेराश्रयेणा- शोकदत्तस्य स्थितिः, अथ कदाचिद्विजनेऽरण्ये नृपेण सह परिभ्रमता धैर्यवताऽशो- कदत्तेन स्मशानं गत्वा मायिकाया विद्युत्केशाख्याया राक्षस्याः पादतलं निगृह्यैकं रत्ननूपुरं गृहीत्वा राजसमीपमागत्य राज्ञे रत्ननूपुरसमर्पणम् , ततस्तद्धैर्यसन्तुष्टेन प्रतापमुकुटाख्येन राज्ञाऽशोकदत्ताय वैवाहिकेन विधिना मदनलेखाख्यनिजसुताप्रदानम्, ततो नृपेच्छां विज्ञाय द्वितीयनूपुरप्राप्तयेऽशोक दत्तस्य महामांसं गृहीत्वा स्मशाने गमनम्, तत्र मन्त्रैर्भूतानामामन्त्रणे क्रिय- माणे रक्षःकन्यासमावृताया वियुत्केशाख्यराक्षस्यास्तत्समीपं प्रति मांसभक्षण- लालसयाऽऽगमनम्, ततस्तद्धैर्यसन्तुष्टया विद्युत्केशाख्यया राक्षस्याऽशोकदत्ता- ख्याय द्विजसूनवे स्वपादस्थितद्वितीयरत्ननूपुरप्रदानपूर्वकं विद्युत्प्रभाख्यनिज- कन्याप्रदानम्, तस्मा एव च जामात्रे कन्याप्रदानप्राभृतत्वरूपेण सुवर्णकमल- प्रदानम्, तत्सर्वं गुहीत्वाऽशोकदत्तस्य प्रतापमुकुटाख्यनृपसमीप आगमनम्, प्रतापमुकुटेनाशोकदत्तस्य प्रशंसाकरणम्, अथ कदाचिदेकान्ते विद्युत्प्रभां प्रति तन्मातृदत्तसुवर्णपङ्कजोत्पत्तिस्थले पृष्टे तया कपालविस्फोटकनामकवेतालभूपति- दिव्यसरोवृत्तान्तवर्णनम् ,अथ तया विद्यत्प्रभयासहाशोकदत्तस्यकपालविस्फोटक- वेतालरक्षितकाञ्चनकमलसरः प्रति गमनम्, तत्र विघ्नकारिणो वेतालान्हत्वा कपालविस्फोटकाख्यं वेतालं हन्तुकामेनाशोकदत्तेन विमानारूढविज्ञप्तिकौतुकना- मकविद्याधरपतिदर्शनम्, तद्दर्शनमात्रेणाशोकदत्तस्य गालवमहर्षिदत्तमनुष्यत्वरूप-शापान्मुक्तिपूर्वकंसुकर्णाख्यस्वस्वरूपप्राप्तिः,अथो विज्ञप्तकौतुकविद्याधरपतिवचनेन वेतालत्वं प्राप्तस्य निजभ्रातुरुद्धारार्थं तेन सह दक्षिणोदधितीरस्थितचक्रतीर्थं गत्वा स्नानकरणम्, तत्तीर्थजलकणस्पर्शमात्रेण वेतालस्यवेतालत्वनिवृत्तिपूर्वकं पुनर्विज-यदत्ताख्यद्विजपुत्रत्वप्राप्तिः, तेन विजयदत्तेन पुनः संकल्पपूर्वकं स्नाने कृते सति ततस्तस्य मनुष्यत्वरूपशापनिवृत्तिपूर्वकं सुदर्शनाख्यविद्याधरत्वप्राप्तिवर्णनम्, वेतालत्वमोचकत्वेन तत्तीर्थस्य वेतालवरदनाम्ना प्रख्यातिवर्णनम्.. १८ १
१० अथ दक्षिणोदधिस्थगन्धमादनपर्वतमाहात्स्यवर्णनम्, गन्धमादनपर्वतस्थपापविना- । शनतीर्थमाहात्म्यम्, तत्र दृढमत्याख्यशूद्रवृत्तान्तवर्णनम्, तत्प्रसंगेन शूद्रधर्म-वर्णनम्, यागदीक्षानर्हस्य दृढमत्याख्यशूद्रस्य देवायतनादिधर्मकृत्यकरणपूर्वकं तपः कर्तुं मुनिवृत्त्या स्थितस्य सुमत्याख्यविप्रेण वैदिककर्मोपदेशकरणम्, तेनाया-ज्ययाजनदोषेण सुमत्याख्यविप्रस्य नरकादिप्राप्तिपूर्वकविविधगर्दभादियोनिप्राप्ति-रूपदुर्गतिवर्णनम्, अथ कतिपयजन्मानन्तरतस्य ब्राह्मणजन्मप्राप्तौ ब्रह्मराक्षसग्रह-गृहीततया वैदिककर्मपरिभ्रष्टत्वम् , अथ तत्पित्रा तं गृहीत्वागस्त्यं प्रति शरणगमनम्
ततोऽगस्त्योपदेशेन दक्षिणोदधितीरस्थपापविनाशाख्यतीर्थे तत्पित्रा नीतस्य तस्य संकल्पपूर्वकस्नानमात्रेण ब्रह्मराक्षसग्रहमुक्तिः, सकलभोगावाप्तिपूर्वकमोक्षावाप्तिश्च, तदुपदिष्टवैदिककर्माचरणतत्परस्य दृढमत्याख्यशूद्रस्य नरकप्राप्तिपूर्वकानेकतिर्य-ग्योनिजन्मप्राप्तिः, ततः क्रमेण गृध्रजन्मप्राप्तौ दक्षिणोदधिस्थगन्धमादनपर्वतवर्ति-पापविनाशनाख्यतीर्थजलप्राशनात्स्वर्गलोकावाप्तिः, पापविनाशनतीर्थप्रभाववर्णनम् २० १
११ अथ सीतासरस्तीर्थमाहात्म्यवर्णनम् ,तत्प्रसंगेन पुरंदरब्रह्महत्याविमुक्ति वृत्तान्त वर्णनम्, तत्र ससैन्यस्य कपालाभरणाख्यराक्षसस्य शक्रादिदेवैः सह युद्धम्, तस्मिन्युद्धे शक्रेण कपालाभरणराक्षसवधकरणम् , तद्वधजनितया ब्रह्महत्यया शक्रस्योपद्रव-णम् , कपालाभरणाख्यराक्षसस्यब्राह्मणत्वकारणवर्णनप्रसंगेन त्रिवक्रराक्षसभार्यायाः सुशीलानाम्न्याः पत्याज्ञया शुचिनामकब्राह्मणसकाशात्पुत्रोत्पादनात्कपालाभरणस्य ब्राह्मणवीर्योत्पन्नत्ववृत्तान्तः, अथ ब्रह्महत्ययोपद्रुतस्य शक्रस्य ब्रह्मोपदेशेन दक्षिणोदधिस्थगन्धमादनपर्वतवर्तिसीताकुण्डे स्नानेन यज्ञैः सदाशिवसंतोषणेन च ब्रह्महत्यातो विमुक्तिवर्णनम् , सीतासरोमाहात्म्यप्रशंसावर्णनम् २२ १
१२ अथ मङ्गलाख्यतीर्थमाहात्म्यवर्णनम् तत्प्रसंगेन मनोजवाख्यराजवृत्तान्तवर्णनम्, अहंकारवतो मनोजवनृपस्य ब्राह्मणेभ्यः करग्रहणजन्यपापेन गोलभाख्येन तच्छ-त्रुभूपेन राज्यहरणपूर्वकं राज्यान्निर्वासनम् , अथ पत्नीपुत्राभ्यां सह मनोजवस्य वने गमनम् , त्त्र पुत्रस्य क्षुत्परीततां विलोक्य मनोजवस्य दुःखेनातिपश्चात्तापक-रणपूर्वकं मूर्छया पतनम्, तत्पत्न्याः सुमित्राख्याया विलापकरणम्, पुत्रस्यापि रोदनम् , अथ तस्मिन्नवसरे तत्र तेषां समीपे पराशरमहर्षेरागमनम्, पराश-रेण राजोपरि मंत्रपूतजलसेचनेन तस्य मूर्छापनयनम् , ततो राज्ञा विज्ञापितेन पराशरमुनिना राजानं प्रति श्रीरामसेतुस्थमंगलाख्यतीर्थयात्रोपायकथनपूर्वकमेका- क्षरराममंत्रोपदेशकरणम्, मुन्याज्ञया भार्यापुत्राभ्यां सह मंगलतीर्थं गत्वा चत्वा-रिंशद्दिनपर्यंर्तं मंत्रोपासनानुष्ठानं कृतवतो मनोजवनृपस्य पुरतो मंगलाख्यती-र्थाद्धनुर्निषङ्गखङ्गचर्मगदामुसलशङ्खवाजियुक्तससारथिसपताकरथकांचनमयकव- चादिसर्वराजालंकारादिवस्तुप्रादुर्भावः, ततो मनोजवेन पराशरमुनये तेषां सर्व- वस्तूनां निवेदनम्, अथ पराशरेण मुनिना मनोजवभूपस्य मन्त्राभिषेककरणम्, ब्रह्मास्त्राद्यस्त्रविद्याप्रदानपूर्वकाशीःप्रदानं च, अथ मनोजवनृपेण स्वपुरं प्रत्याग- त्य ब्रह्मास्त्रेण गोलभनृपं विनाश्य निजराज्यं प्राप्य धर्मेण वर्तनम्, अंते मङ्ग- लतीर्थमासाद्य तनुत्यागानन्तरं मनोजवभूपस्य शिवलोकावाप्तिवर्णनम् २३ २
१३ अथैकान्तरामनाथाख्यक्षेत्रवर्णनम्, तत्रामृतवापिकातीर्थमाहात्म्यम्, तत्प्रसंगेनाग-स्त्यानुजवृत्तान्तवर्णनम्, हिमवत्पर्वतेऽगस्त्यानुजेन तपकरणम्, तत्तपस्तुष्टस्य शंकरस्य प्रादुर्भावेऽगस्त्यानुजेन शिवस्तुतिकरणम्, ततस्तुष्टस्य शिवस्य वचना-दगस्त्यानुजस्य दक्षिणोदधिस्थगन्धमादनपर्वतोपर्येकान्तरामनाथक्षेत्रवर्तिनि तीर्थे स्नानं कृत्वा समाधियोगेन मुक्तिप्राप्त्याऽमरत्वात्तस्य तीर्थस्यामृतवापीतिनामप्रथा वर्णनम्, अथैकान्तरामनाथक्षेत्रप्रथाकारणकथनप्रसङ्गेन श्रीरामचन्द्रस्य लक्ष्मणेन सहैकान्तस्थितिपूर्वकं समुद्रतरणोपायविचिन्तनवृत्तान्तवर्णनम्, एकान्तराघव-माहात्म्यम्.. २६ १
१४ अथ दक्षिणोदधिस्थगन्धमादनवर्तिब्रह्मकुण्डमाहात्म्यवर्णनम्, तत्प्रसंगेनब्रह्मकुण्डस्थ-भस्मना त्रिपुण्ड्रधारणस्य माहात्म्यम्, ब्रह्मकुण्डोत्पत्तिवृत्तान्तः, तत्र ब्रह्मविष्ण्वो-र्मध्ये श्रैष्ठयविषये परस्परं विवादे समुत्पन्ने तयोर्मध्ये भगवतोऽनाद्यन्तलिङ्ग- प्रादुर्भावः, तदूर्ध्वाधोऽन्तपर्यन्तशोधनार्थं ब्रह्मविष्ण्वोर्हंसवराहरूपधारणपूर्वकं गमनम्, लिङ्गस्याधःपर्यन्तमदृष्ट्वा स्वपूर्वस्थानं प्रत्यागतेन विष्णुना सत्यवाचा लिङ्गपर्यन्तादर्शनकथनम्, ब्रह्मणोर्ध्वपर्यन्तमदृष्ट्वा प्रत्यागतेनापि च्छद्मना मिथ्या लिङ्गपर्यन्तदर्शनकथनम्, अथ तन्मिथ्याभाषणप्रकुपितेन शंकरेण लिङ्गमध्या-त्प्रादुर्भूय ब्रह्मणेऽपूज्यत्वप्राप्तिरूपशापप्रदानम्, ततो ब्रह्मणा स्तुतेन शङ्करेण ब्रह्मणे मिथ्यादोषप्रशांत्यर्थ दक्षिणोदधिस्थगन्धमादनपर्वते यागार्थमाज्ञाकरणम्, शंकराज्ञया ब्रह्मणो गन्धमादनपर्वते शिवमुद्दिश्य यागकरणम्, तत्र प्रादुर्भूतेने-श्वरेण ब्रह्मणे श्रौतस्मार्तकर्मपूज्यत्वरूपवरप्रदानपूर्वक ब्रह्मकुण्डाभिधतीर्थाय वर-प्रदानम् , ब्रह्मकुण्डमाहात्म्यम्.. २७ १
१५ अथ हनुमत्कुंडमाहात्म्यवर्णनम्, तत्प्रसंगेन धर्मसखाख्यराजचरितवर्णनम्, धर्म-सखनृपतिपुत्रस्य सुचन्द्रस्य वृश्चिकदंशवृत्तांतः, अथ बहुपुत्रत्वमाकांक्षमाणेन धर्मसखाख्यमहीपतिना निजर्त्विग्वचनतो यज्ञसामग्रीं संपाद्य स्वपत्नीभिः सर्व-परिजनैर्ऋत्विग्भिश्च सह दक्षिणोदधितीरस्थ गन्धमादनपर्वतवर्ति हनुमत्कुण्डं प्रतिगमनम्, तत्र स्नात्वा पुत्रीयेष्टिं च कृत्वा हुतोच्छिष्टं प्राश्य ब्राह्मणेभ्यो ग्रामा-ग्रहारादिकं दत्त्वा भार्याशतेन सहावभृथस्नानं कृत्वा स्वपुरीं प्रति प्रत्या-गमनम्, तत्र हनुमत्कुण्डप्रभावात्तस्य धर्मसखस्य शतभार्यासु शतपुत्रप्राप्तिः, अथान्तकाले हनुमत्कुण्डमभ्येत्य धर्मसखेन राज्ञा तपःकरणम्, ततस्तस्य वैकुण्ठलोकावाप्तिः, तत्पुत्रेण सुचन्द्रेण पितुरौर्ध्वदैहिककर्मकरणम्, सुचन्द्रादीनां सर्वेषां पुत्राणां सौभ्रात्रपूर्वकं राज्यसुखभोगवर्णनम्, हनूमत्कुण्डमाहात्म्यम् २८ २
१६ अथागस्तितीर्थमाहात्म्यवर्णनम्, तन्माहात्म्यप्रसंगेन दीर्घतमोमुनिपुत्रस्य कक्षीवतश्च-रित्रवर्णनम् तत्रोदंकाख्यस्य गुरोर्गृहे कक्षीवता षष्टिवर्षपर्यन्तं विद्याभ्यासं कृत्वा गृहं प्रत्यागन्तुं गुरोः प्रार्थनाकरणम् , ततस्तद्गुरुणा तस्योद्वाहायोपायकथनम्, गुर्वाज्ञया कक्षीवताऽगस्त्यतीर्थे स्नात्वा तस्मात्तीर्थादुद्गतं चतुर्दन्तं शुभ्रं गजेन्द्र-मारुह्य मध्येमार्गमेव मिलितेन स्वनयाख्येन राज्ञा सह तस्य पुरं प्रति गमनम्, ततः स्वनयेन राज्ञा कक्षीवते स्वकन्यायाः प्रदानाय तद्वचनात्तत्पितुर्दीर्घतमसः सुदर्शनाख्यपुरोधोद्वाराऽऽमन्त्रणं कृत्वा सत्कारपूर्वकं स्वपुरं प्रत्यानयनम्, दीर्घ-तमसं पितरं प्रति कक्षीवताऽभिवादनम्, निजविद्याध्ययनवृत्तान्तनिवेदनं च. ३० १
१७ अथ तस्मिन्नगस्तितीर्थे स्वनयेन राज्ञा दीर्घतमामुनेः सत्कारकरणम् अत्रांतर एव तत्रागस्तितीर्थे स्नातुं सशिष्यसमूहस्योदङ्कमहर्षेरागमनम् , उदङ्कदीर्घतमसोः समा-गमः, अथेदङ्कदर्शनार्थं स्वनयेन राज्ञाऽऽगत्य निजोद्देशनिवेदनम्, अथोदङ्केन सह दीर्घतमसो स्वनयस्य राज्ञा कक्षीवते निजकन्याप्रदानस्यानुमोदनम्, ततः स्वनयेन राज्ञा मधुरापुरीतः स्वपरिचारकैः कन्यामानीय विवाहविधिना कक्षीवते कन्यादानकरणम्, ततः स्वर्णगोदासीग्रामादिविपुलवैवाहिकप्राभृतप्रदानम्, अथ दीर्घतमसो मुनेस्तत्सर्वमादाय पुत्रेण स्नुषया च सह वेदारण्यस्थित स्वाश्रमं प्रत्यागमनम्, स्वनयेन राज्ञाऽन्तःपुरैः सहागस्तितीर्थे स्नात्वा स्वपुरं प्रति गमनम्, अगस्तितीर्थमाहात्म्यम्.. ३२ १
१८ अथ रामकुण्डाख्यतीर्थमाहात्म्यवर्णनम्, तत्प्रसंगेनागस्त्यशिष्यसुतीक्ष्णमुनीतिहास-वर्णनम्, रामचन्द्रसरस्तीर्थे तपस्तपता सुतीक्ष्णेन श्रीरामचन्द्रस्तुतिकरणम्, एवं तपस्तपतः सुतीक्ष्णस्यालौकिकतपःसिद्धिवर्णनप्रसंगेन रामकुण्डमाहात्म्यवर्णनम्, रामकुण्डतीरे रामस्थापितश्रीशिवलिङ्गमाहात्म्यवर्णनम्, तत्प्रसंगेन धर्मपुत्रस्य युधिष्ठिरस्यासत्यभाषणदोषनिवृत्तिवृत्तान्तवर्णनम्, तत्र भारतयुद्धे द्रोणं जेतुं केशवेन भीमद्वारा 'अश्वत्थामा युद्धे हतः इति मृषा प्रवादप्रसरणम्, तं प्रवाद-माकर्ण्य द्रोणेन युधिष्ठिरादपि तथैवेति श्रुत्वा सत्यं मत्वा योगेन स्वतनुत्याग-करणम्, तस्मिन्काले सदैव सत्यभाषिणो युधिष्ठिरस्य मृषाप्रवादजनितपातक-प्राप्तिः, तस्य च युद्धसमाप्त्यनन्तरं राज्याभिषेकसमये नभोवाण्या च्छद्मनाऽ-सत्यभाषणजनितपातकेन राज्याभिषेकानर्हताकथनम्, युधिष्ठिरेण पश्चात्तापकर-णम्, तस्मिन्नवसरे समागतेन व्यासमहर्षिणा युधिष्ठिरं प्रति दक्षिणोदधितीरस्थ-रामतीर्थे स्नानार्थमुपदेशकरणम्, ततो युधिष्ठिरेण निजकनिष्ठबन्धुं सहदेवं राज्ये प्रतिष्ठाप्य धौम्येनोपाध्यायेन भीमादिभिर्निजानुजैश्च सह रामसेतुं समुद्दिश्य वाहनारोहणं विना यात्राविधिना रामतीर्थ समासाद्य पुरोहितोक्तमार्गेण स्नान- करणम्, तेन रामतीर्थस्नानदानश्राद्धमासोपवासादिप्रभावेण नभोवाण्या युधि-ष्ठिरस्यासत्यभाषणजनित पातकनिवृत्तिपूर्वक राज्यारोहणयोग्यतावर्णनम् रामकु-ण्डाख्यतीर्थमाहात्म्यम् . ३३ १
१९ अथ लक्ष्मणतीर्थमाहात्म्यवर्णनम्, तत्प्रसंगेन बलभद्र ब्रह्महत्या विमुक्तिवृत्तान्तवर्णनम्, तत्र कौरवपांडववधं द्रष्टुमनिच्छतो बलभद्रस्य तीर्थयात्राप्रसंगेन नैमिषा-रण्ये महर्षिसमाजे गमनम्, तत्र बलभद्रेण पुराणकथनायोच्चब्रह्मासने स्थितस्य सूतस्याविचार्य निजहस्तोत्सृष्टकुशाग्रेण हननाद्ब्रह्महत्याप्राप्तिः, अथ मुनीनां वच-नेन लोकसंग्रहाय प्रायश्चित्तचिकीर्षया मुनीन्प्रति प्रार्थनम्, मुनिभिर्बलभद्राय बल्वलाख्यराक्षसवधं कृत्वा वर्षपर्यन्तं तीर्थयात्राकरणरूपप्रायश्चित्तकथनम्, अथ बलभद्रेण बल्वलनामकराक्षसहननम्, ततो वर्षपर्यन्तं भूतलस्य सर्वतीर्थेषु स्नान-पूर्वकं यात्राकरणम, कृतायामपि तीर्थयात्रायां ब्रह्महत्याया निवृत्तिमदृष्ट्वा मुनि-वाक्येन दक्षिणोदधिस्थ गन्धमादनवर्ति लक्ष्मणतीर्थे गत्वा स्नानमात्रेण लक्ष्मणे-श्वरलिंगदर्शनेन च ब्रह्महत्यातो विमुक्तिवर्णनम् , लक्ष्मणतीर्थमाहात्म्यम. ३५ २
२० अथ जटातीर्थमाहात्म्यवर्णनम्, तत्प्रसङ्गेन शुकाचार्यचरित्रवर्णनम्, तत्र शुकेन व्यासं प्रति चित्तशुद्ध्यर्थमुपाये पृष्टे सति व्यासेन भृगुवरुणेतिहासकथनपूर्वकं रामसेतुस्थ जटातीर्थमाहात्म्यवर्णनम् ततः शुकस्य व्यासोपदेशं श्रुत्वा जटातीर्थं गत्वा स्नानमात्रेण मनःशुद्धिवर्णनम्, जटातीर्थमाहात्म्यम् .. ३७ १
Jata Teertha Temple
२१ अथ लक्ष्मीतीर्थमाहात्म्यवर्णनम्, तत्प्रसङ्गेन युधिष्ठिरवृत्तान्तवर्णनम्, तत्रेन्द्रप्रस्थे स्थितेन युधिष्ठिरेण श्रीकृष्णं प्रति महैश्वर्यप्रापकधर्मविषयकपृच्छायां कृतायां श्रीकृष्णेन युधिष्ठिरायानेकेतिहासपूर्वकं गन्धमादनस्थलक्ष्मीतीर्थमाहात्म्यकथनम्, ततो युधिष्ठिरेण लक्ष्मीतीर्थं गत्वा मासपर्यन्तं नियमपूर्वकं स्नानं विधाय स्वपुरं प्रत्यागत्य ततस्तत्प्रभावेण संप्राप्त निरतिशय संपदैश्वर्यवशान्महता समारम्भेण श्रीकृष्णसाहाय्येन राजसूययज्ञकरणम् लक्ष्मीतीर्थमाहात्म्यम् .. ३८ १
२२ अथाग्नितीर्थमाहात्म्यवर्णनम्, तत्प्रसंगेन सीताशुद्धिवृत्तान्तवर्णनम्, तत्र रामच-न्द्रेण लंकायां रावणं हत्वा शक्रादिभिः सह सेतुमार्गेण गन्धमादनं प्रत्यागत्य लक्ष्मीतीर्थतटे स्थित्वा जानकीशोधनायाग्नेराह्वानकरणम्, ततोऽग्निना तत्र समे-त्य रामस्याग्रे सीतायाः शुद्धताकथनम्, अग्निवचनाद्रामचन्द्रेण जानक्याः स्वीक-रणम्, अग्नेर्विनिर्गमस्थानस्याग्नितीर्थाभिधया प्रसिद्धिः, अग्नितीर्थमाहात्म्यप्रसंगे-न पशुमन्नामधेयस्य वणिग्वरस्य चरित्रवणर्नम्, तत्र तस्य पशुमतोऽष्टपुत्रेषु मध्येऽ-ष्टमपुत्रस्य दुष्पण्याख्यस्य नगरस्थबालकमारणरूपातिदुष्कर्मपरस्य राज्ञा तत्पितुः सच्छीलं निरीक्ष्य देशान्निर्वासनम् , ततो वनं प्रयातेनापि तेनोग्रश्रवोमुनिपुत्रे जले निमज्ज्य मारिते सत्युग्रश्रवसा मुनिना दुष्पण्याय जलनिमज्जनतस्ते मृत्युर्भ-विष्यतीति शापप्रदानम्, अथ वर्षाकालेऽतिवृष्टौ सत्यां दुष्पण्येन मृतपतित-गजशरीरमध्ये प्रवेशे कृते तस्य गजशरीरस्य महता पयपूरप्रवाहेण समुद्रं प्रति प्रवेशे सति तदन्तःस्थितस्य दुष्पण्यस्य मृत्युः, तदनंतरं तस्य पिशाचत्वप्राप्तिः, ततः पिशाचरूपिणा तेनागस्त्याश्रमसमीपं प्रत्यभ्येत्योच्चैः स्वमुक्तये महर्षीणां प्रार्थनाकरणम्, अथ तस्य विमुक्तयेऽगस्त्यमहर्षिणा सुतीक्ष्णाख्यं स्वशिष्यं प्रति तदुद्देशेनाग्नितीर्थे स्नानार्थमाज्ञाकरणम्, सुतीक्ष्णेन पिशाचस्य विमुक्त्युद्देशेना-ग्नितीर्थे स्नाने कृते सति दुष्पण्यस्य पिशाचत्वविमुक्तिपूर्वकं दिव्यं विमानमारुह्य महर्षींन्नमस्कृत्य दिव्यलोकं प्रति गमनम् , अग्नितीर्थमाहात्म्यम्.. ३९ २
२३ अथ चक्रतीर्थमाहात्म्यवर्णनम्, तत्प्रसंगेनाहिर्बुध्न्याख्यब्राह्मणकृत सुदर्शनोपासनाव-र्णनम् , सुदर्शनचक्रेण तस्य ब्राह्मणस्य तपोविघ्नकारिणां राक्षसानां नाशनम् , सुदर्शनचक्रसंनिधानात्तीर्थस्य चक्रतीर्थत्वेन प्रसिद्धिः, ब्रह्मदेवाज्ञया राक्षसत्रस्तै-स्सर्वदेवैश्चक्रतीर्थसंनिधौ माहेश्वरयज्ञकरणम्, तस्मिन्यज्ञे प्राशित्रपात्रस्पर्शमात्रा-च्छिन्नपाणेः सवितुर्देवस्याष्टावक्रमुनिवचनाच्चक्रतीर्थे स्नानमात्रेण हिरण्मयपाण्य-वाप्तिवृत्तान्तवर्णनम्, चक्रतीर्थमाहात्म्यम्. . ४२ १
२४ अथ शिवतीर्थमाहात्म्यवर्णनम्, तत्प्रसंगेन कालभैरववृत्तान्तवर्णनम्, तत्र ब्रह्म-विष्ण्वोः परस्परं श्रैष्ठयविषये विवादे समुत्पन्ने प्रणवेन शिवस्य श्रैष्ठ्ये वर्णितेऽपि दुराग्रहवशाद्ब्रह्मविष्णुभ्यां शिवश्रैष्ठ्येऽनादृते सति शिवेन तेजोमयस्वस्वरूप-प्रकटनम्, महेश्वरं दृष्ट्वा ब्रह्मणा तं प्रत्यप्यनादरपूर्वकं गर्वोक्तिसंभाषणम्, अथ महेश्वरेण ब्रह्माणं प्रति कालभैरवाख्यपुरुषप्रेषणम्, ब्रह्मणा सह कालभैरवस्य युद्धे कालभैरवेण ब्रह्मणः पञ्चमशिरश्छेदपूर्वकं वधकरणम् , ततो भगवता महेश्वरेण ब्रह्मणः संजीवनम्, ब्रह्मदेवेन भगवतः शङ्करस्य स्तुतिकरणम्, शंकरेण ब्रह्मणेऽभयप्रदानम्, अथ शिवाज्ञया कालभैरवस्य ब्रह्महत्यादोषविशुद्धये ब्रह्म-शिरः करे संधार्य वर्षपर्यतं समस्ततीर्थयात्राकरणपूर्वकं दक्षिणांभोधिस्थगन्ध-मादनवर्तिशिवतीर्थस्नानकरणाद्ब्रह्महत्यानिवृत्तिः, तत्रैव कालभैरवेण कपालस्था-पनात्तस्य शिवतीर्थस्य कपालतीर्थत्वेनाभिधानम्, शिवतीर्थमाहात्म्यम् ४३ १
२५ अथ शङ्खतीर्थमाहात्म्यवर्णनम्, शङ्खमुनिना तपः कृत्वा प्रकल्पितत्वेन तस्य तीर्थस्य शंङ्खतीर्थत्वेन प्रसिद्धिः, तत्तीर्थमाहात्म्यप्रसङ्गेन वत्सनाभाख्यविप्रवृत्तान्तः, तत्र तपः कर्तुं निश्चलतया स्थितवतो वत्सनाभाख्यद्विजस्योपरि सञ्जाते वल्मीके वासवेन तपोविघ्नार्थ वृष्टिनिपातेनोपद्रवे क्रियमाणे भगवता धर्मदेवेन महामहिष-रूपं धृत्वा वाल्मीकोपरि स्थित्वा स्वपृष्ठे वृष्टिधारा गृहीत्वा मुनेः संरक्षणकरणम्, अथ तपःसमाधितो निवृत्तेन वत्सनाभेन स्वसमीपस्थस्य महिषरूपेण स्वरक्षितु- र्धर्मदेवस्य पूजाऽकरणहेतोः पुनः समाधौ मनश्चाञ्चल्यं निश्चित्य स्वस्य कृतघ्नता-दोषनिवृत्तये प्राणत्यागार्थं मेरोर्भृगोः पतनार्थं प्रयत्नकरणम्, तदा धर्मदेवेन महिषरूपं परित्यज्य स्वरूपेण प्रादुर्भूय वत्सनाभद्विजस्य मरणप्रयत्नान्निवार-णपूर्वकं कृतघ्नतादोष निवृत्तिपुरःसरं चित्तशुद्धये दक्षिणोदधितीरस्थ शंखतीर्थे स्नानार्थमुपदेशकरणम्, धर्मोपदेशेन वत्सनाभद्विजस्य शंखतीर्थे स्नानमात्रेण कृतघ्नतादोषनिवृत्त्यनन्तरं चित्तशुद्धिपूर्वकब्रह्मभूयत्वप्राप्तिवर्णनम्, शंखतीर्थ-माहात्म्यम्. ४४ २
२६ अथ गङ्गायमुनागयाख्यतीर्थत्रितयमाहात्म्यवर्णनम्, तत्प्रसंगेन जानश्रुतिराजवृत्तान्त-वर्णनम्, तत्र जन्मतः पङ्गोः सयुग्वापरपर्यायस्य रैक्वमहर्षेर्दक्षिणोदधिस्थगन्ध-मादनपर्वते बहुकालं तपस्तपतः पामरोगोत्पत्तिः, तेन यमुनागङ्गागयाख्यतीर्थ- त्रयस्नानचिकीर्षया मन्त्रोच्चारणपूर्वकध्यानेन तीर्थत्रयस्याह्वाने कृतमात्रे यमुना-गङ्गागयाख्यतीर्थत्रयस्य तत्समीप उपस्थितिः, तत्र महर्षिवचनात्तस्य तीर्थत्रयस्य सदा संनिधानम्, तस्मिन्नवसरे कदाचित्सौधवातायनस्थस्य पौत्रायणस्य जान-श्रुतिमहीपतेः समीपेऽनुग्रहार्थं निशीथसमये हृंसरूपेण महर्षीणामागमनम्, तेष्वृषिषु मध्य एकेन हंसरूपिणा महर्षिणा जानश्रुतेर्ब्रह्मज्ञानप्राप्तये परोक्षेण रैक्वमहर्षिप्रशंसां कृत्वा सर्वैः सह ब्रह्मलोकं प्रति गमनम्, अथ गतेषु तेषु महर्षिषु जानश्रुतेर्ब्रह्मविद्योपलब्धये सयुग्वनं रैक्वमहर्षिं प्रति शरणगमनम् , ततः सयुग्वनो रैक्वमहर्षेराज्ञया यमुनागङ्गागयाख्यतीर्थत्रये स्नानं विधाय चित्तशुद्धेरनन्तरं जानश्रुते राज्ञो रैक्वकृतब्रह्मज्ञानोपदेशेन ब्रह्मभूयत्वप्राप्ति वर्णनम्-. ४६ १
२७ अथ कोटितीर्थमाहात्म्यवर्णनम्, तत्प्रसंगेन श्रीरामचन्द्रचरित्रवर्णनम्, तत्र श्रीराम-चंद्रेण रावणवधोद्भूतब्रह्महत्यापनोदाय दक्षिणोदधिस्थगन्धमादनपर्वते रामनाथा-ख्यशिवलिंगं संस्थाप्य तत्स्नापनार्थ जाह्नवीं स्मृत्वा निजधनुष्कोटया धरणीं विभिद्य रसातलाद्गंगाऽऽनयनवृत्तान्तवर्णनम्, ततस्तस्य तीर्थस्य कोटितीर्थत्वेन प्रसिद्धिः, कोटितीर्थमाहात्म्यप्रसंगेन श्रीकृष्णचरित्रवर्णनम्, तत्र वसुदेवस्य विवाहानंतरं रथेन वसुदेवस्य स्वपुरं प्रति प्रस्थितस्य मध्येमार्ग तद्रथसारथेः कंस- स्याकाशवाण्या भविष्यन्निजहन्तुर्मातुर्देवक्याः स्वस्वसुर्हननायोद्यतस्य वसुदेवेन सुतप्रदानप्रतिज्ञया सान्त्वनपूर्वकं हननान्निवर्तनम्, अथ वसुदेवपत्न्यां देवक्यां सप्तमगर्भस्यानन्तस्य रोहिण्यां योगमायया संक्रामणानंतरं भगवतः श्रीकृष्णस्य जन्म, वसुदेवेन भगवत्स्तुतिकरणम्, भगवदाज्ञया वसुदेवेन श्रीकृष्णस्य गोकुले नयनम्, यशोदाकन्यायाश्च मथुरायामानयनम्, अथ कंसेन निजमृत्युभीत्या कन्यायाः शिलायां पोथने क्रियमाण आदिमायायास्तस्यास्तद्धस्तान्निःसृत्या-काशे भव्यदिव्यरूपेण गमनम्, कंसं प्रति तया देव्या मृत्युस्ते यत्रकुत्रापि जात इत्युक्त्वा निर्भर्त्स्यानेकेषु स्थानेषु पूजाप्राप्तिः, गोकुलस्थयोः श्रीकृष्णराम-योर्बालक्रीडावर्णनम्, ततो मथुरां प्रति गत्वा कंसं हत्वोग्रसेनस्य राज्याभिषेकंकरणम्, अथ कदाचिदात्मानं द्रष्टुं समागतान्नारदादीन्प्रति श्रीकृष्णेन मातुलवधजनितदोषनिवृत्तये प्रायश्चित्तार्थं प्रश्नकरणम्, ततो नारदादिवचना- द्रामसेतावागत्य कोटितीर्थे स्नानमात्रेण श्रीकृष्णस्य मातुलवधजनितदोषनि-वृत्तिः, कोटितीर्थमाहात्म्यम् ४८ १
२८ अथ साध्यामृततीर्थमाहात्म्यवर्णनम्, तत्प्रसंगेन पुरूरवसो राज्ञो वृत्तान्तवर्णनम्, तत्र पुरूरवसो राज्ञ उर्वश्याऽप्सरसा सह समागमः, अथ कालान्तरे समय-प्रतिज्ञाभङ्गेन वियोगेऽतिशोकाकुलस्य तस्य कुरुक्षेत्रे मिलितयोर्वश्या समा- गमापुरःसरपुत्रप्राप्तिकथनपूर्वकमाश्वासनम् , अथैकवत्सरानन्तरं नृपस्य कुरुक्षे-त्रस्थपद्मतटाके पुनरुर्वश्या सह समागमः, उर्वश्या नृपाय स्वस्यां नृपवीर्यतः समुत्पन्नस्यायुर्नामकपुत्रस्य समर्पणम्, अथैकरात्रप्रसंगेन तस्यामुर्वश्यां पञ्चगर्भ-वीर्यस्थापनम्, ततस्तत्सूचनया निरन्तरमुर्वशीलोकप्राप्तये पुरूरवसा गन्धर्व प्रार्थनाकरणम् , तत्प्रार्थनया संतुष्टैर्गन्धर्वैस्तस्मै पुरूरवसेऽग्निस्थालीं प्रदाय यज्ञार्थमुपदेशकरणम्, उर्वश्यप्राप्तिवशादसंतुष्टेन नृपेण मध्येवनमेवाग्निस्थालीं प्रक्षिप्य स्वपुरं प्रति गमनम्, अग्निस्थालीनिक्षेपस्थाने शमीगर्भाश्वत्थोत्पत्तिः, ततस्तस्याश्वत्थस्य चतुर्विशत्यांगुलामरणिं कृत्वा तत्र निर्मन्थनादग्नित्रयं समुत्पाद्य बहून्यज्ञान्कृत्वा गन्धर्वलोकमासाद्योर्वश्या सह पुरूरवसो नृपस्य रमणम्, अथ कदाचिच्छक्रस्य पुरतो नृत्यत्समारंभे परस्परं वीक्ष्य हा-स्यतत्परयोरुर्वशीपुरूरवसोस्तुंबुरुणा देवनाट्याचार्येण वियोगो वां भविष्यतीति शापप्रदानम्, अथ पुरूरवसा शक्रं प्रार्थ्य तदुक्तोपायचिकीर्षया भूतलं समेत्य दक्षिणोदधिस्थगन्धमादनपर्वतवर्तिसाध्यामृताख्यतीर्थे स्नानमात्रेण शापान्मुक्त्वा पुनरुर्वशीलोकं प्रति गत्वोर्वश्या सह रमणवर्णनम्, साध्यामृततीर्थमाहात्म्यम् ५० २
२९ अथ सर्वतीर्थमाहात्म्यवर्णनम् तत्प्रसङ्गेन सुचरिताख्यविप्रचरित्रवर्णनम्, तत्र सुचरितविप्रेण जरातुरतयाऽशक्तेन सर्वतीर्थस्नानकामनया दक्षिणांभोधिस्थ गन्धमा-दनपर्वतमागत्य शिवदीक्षां गृहीत्वा तपःकरणम्, तत्तपसा शङ्करस्य प्रादुर्भावे सति सुचरिताख्यविप्रेण श्रीशिवस्तुतिकरणम्, श्रीशिवेन सुचरितेहितपूरणाय सुच-रितसमीपे सर्वाणि तीर्थान्यावाह्यैकत्र सर्वतीर्थसमवायकरणेन सर्वतीर्थाभिधै-कतीर्थ निर्माय सुचरिताय स्नानार्थमाज्ञाकरणम् , सुचरितमुनिना शिवाग्रे सर्व-तीर्थें स्नानकरणम्, सर्वतीर्थे स्नानकरणात्सुचरिताख्यविप्रस्य जरानिर्मुक्तिपू्र्वक-तारुण्यसौन्दर्यादिप्राप्तिः, सर्वतीर्थाख्यतीर्थमाहात्म्यम्. ५२ १
३० अथ धनुष्कोटितीर्थमाहात्म्यवर्णनम्, धनुष्कोटितीर्थस्यानेकविधपापविनाशनसाम-र्थ्यवर्णनम् , धनुष्कोटितीर्थमाहात्म्यप्रसंगेन श्रीरामचन्द्रेण विभीषणप्रार्थनया लंकायामन्यलोकानामगमनाय निजधनुष्कोट्या रेखाकरणेन स्वसेतुभेदकरणव-र्णनम् , धनुष्कोटितीर्थे सर्वदेवतासांनिध्यवर्णनम्, माघमासादिकालेषु धनु-ष्कोटितीर्थस्नानमाहात्म्यवर्णनम. ५३ २
३१ अथ धनुष्कोटितीर्थमाहात्म्यप्रसंगेनाश्वत्थाम्नश्चरित्रवर्णनम्, तत्राश्वत्थाम्ना पाण्डव-शिबिरस्थसर्वग्रुप्तशूरवीराणां हननार्थं प्रतिज्ञां कृत्वा रात्रिसमये कृतवर्मकृपाभ्यां सह शिबिरद्वारमासाद्य महादेवमाराध्य प्रसन्नात्तस्माद्विजयखड्गं लब्ध्वा स्वपि-
तृघातक धृष्टद्युम्नशिबिरं प्रथमतः प्रविश्य धृष्टद्युम्नं प्रथमतो हत्वा पश्चात्सर्वशिबिर-स्थद्रौपदीपुत्रादिसर्वसैन्यहननम्, शिबिरद्वारतो बहिर्निर्यातानां सैन्यानां कृत-वर्मकृपाचार्याभ्यां हननम्. ततोऽश्वत्थामादीनां शिबिरतो निर्गत्य पृथक्पृथ-ग्देशान्प्रति पलायनम्, अथ नर्मदातीरे महर्षिमध्ये प्रविष्टस्याश्वत्थाम्नो ब्राह्मणैः पातित्य उक्ते ततो लज्जया निर्गत्याश्वत्थाम्ना तीर्थयात्राकरणम्, अथ बदरिका-श्रमस्थितं व्यासं प्रति शरणगमनम्, ततो व्यासोपदेशेनाश्वत्थाम्ना सुप्तमारण-दोषशान्तये रामसेतुं समासाद्य धनुप्कोटितीर्थे स्नानकरणपूर्वकं रामनाथशिव-सेवाकरणम्, ततः प्रादुर्भूतस्य शिवस्य स्तुतिकरणम्, अथ प्रसन्नेन महादेवे-नाश्वत्थाम्ने वरप्रदानम्, धनुप्कोटितीर्थमाहात्म्यम् ५६ १
३२ अथ पुनर्धनुष्कोटितीर्थ माहात्म्यवर्णन प्रसंगेन सोमवंशसमुद्भव नन्दनामकनृपतिपुत्रस्य धर्मगुप्तस्य चरित्रवर्णनम्, तत्र नन्दनृपे तपस्यार्थं वनं प्रयाते सति राज्येऽभि-षिक्तस्य धर्मगुप्तस्य कदाचिन्मृगयार्थं वनं प्रविष्टस्य रात्रौ सिंहादिश्वापदभीत्या वृक्षाधिरोहणम्, तत्रैव केनचित्सिंहेनाभिद्रुतस्य कस्यचिदृक्षस्य निजप्राणपरिरिरक्षि-षया वृक्षस्थराजसमीपमागमनम् , ततो मिथः सम्भाषणपूर्वकं विश्वासं समुत्पाद्य रात्रौ यामद्वयविभागेन भूपत्यृक्षाभ्यां पर्यायेण निद्राजागृतिव्यवस्थाकरणम्, अथ प्रथमं राजनि सुप्ते सति सिंहेनर्क्षं प्रति राजानं नीचैर्निक्षिपेत्युक्तेऽपि तेनर्क्षेण विश्वासधर्मपरिपालनार्थं राजानमनिक्षिप्य सिंहं प्रति मित्रद्रोहपातकपरिणामक-थनम्, ततो नृपे प्रबुद्धे सति तस्मिन्नृक्षे सुप्ते सति सिंहेन भूपं प्रत्यृक्षं नीचैर्निक्षि-पेत्युक्ते राज्ञर्क्षस्य नीचैः पातनम् , तस्मिन्नवसरे स्वनखावलंबितपादपेन तेनर्क्षेण पुनः पादपमधिरुह्य स्वस्य ध्यानकाष्ठाभिधमुनित्वकथनपूर्वकं कामत ऋक्षरूपधा-रित्वमुक्त्वा भूपतये त्वमुन्मत्तो भवेति शापं प्रदाय सिहं प्रति गौतमदत्तशाप-वशात्सिंहत्वप्राप्तिरूपपूर्ववृत्तान्तकथनम् , ध्यानकाष्ठमुनिवचःश्रवणेन सिंहस्य तत्क्षणमेव यक्षरूपस्वरूपात्राप्तिपूर्वकं विमानमारुह्य यक्षलोकं प्रति गमनम्, ततो निजेच्छया ऋक्षरूपं धृतवतो ध्यानकाष्ठमुनेः स्वेच्छया वनांतरं प्रति गमनम्, ध्यानकाष्ठमुनिशापाद्धर्मगुप्तस्योन्मत्तताप्राप्त्यनन्तरं स्वपुरं प्रत्यागमनम्, ततस्तं धर्मगुप्तमुन्मत्तं दृष्ट्वा तस्य मन्त्रिभिर्नर्मदातीरनिवासिनस्तत्पितुर्नन्दभूपस्य समीपं प्रति तस्य धर्मगुप्तस्य नयनम्, अथ तत्पित्रा नन्देन स्वपुत्रस्योन्मत्ततादोषशान्तये जैमिनिमहर्षेः प्रार्थनाकरणम्, ततो जैमिनिमहर्षेराज्ञया नन्दमहीभृता धर्मगुप्तं पुत्रं गृहीत्वा रामसेतुस्थधनुष्कोटितीर्थमभ्येत्य स्नानकरणम्, धनुष्कोटितीर्थे स्नानमात्रेण धर्मगुप्तस्योन्मादशान्तिः, ततो नन्दस्य तपोऽर्थं पुनस्तपोवनं प्रति गमनम, धर्मगुप्तेन रामनाथस्य बहुवित्तदानपूर्वकं सपर्यां कृत्वा मन्त्रिभिः सह स्वपुरं प्रत्यागमनम् , धनुष्कोटितीर्थमाहात्म्यम् ५८ २
३३ अथपुनर्धनुष्कोटितीर्थमाहात्म्यप्रसंगेन परावसुनामकब्राह्मण ब्रह्महत्याविमुक्ति वृत्तान्त वर्णनम्, तत्र बृहद्द्युम्नचक्रवर्तिनः सत्रे रैभ्यमहर्षिपुत्रयोरर्वावसुपरावसुनाम्नोरध्वर कर्मार्थं गतयोर्मध्ये परावसोरध्वरकर्मणस्तृतीयसवनान्ते गृहकृत्यनिरीक्षणार्थं स्वाश्रमं प्रत्यागमनम , तदा मध्येमार्गं मृगाजिनं परिधाय रात्रौ चरतः स्वपितुहिंस्रमृगशंकया परावसुना हननम्, अथ परावसुना तदन्तिकमभ्येत्य स्वपितर- मेव तं स्वेन हतं निरीक्ष्य महांतं शोकं कृत्वा पितुः प्रेतकार्यं समाप्य नृपतेः सत्रे समेत्य स्वानुजायार्वावसवे पितृहननादिवृत्तनिवेदनम्, ततः पितृहत्यादोषनिवृत्तये प्रायश्चित्तकरणार्थं कनिष्ठं भ्रातरमाज्ञाप्य परावसुना स्वयं वृहद्द्युम्नस्य राज्ञः सत्रे यज्ञकर्मकरणम्, अथार्वावसौ द्वादशवर्षपर्यन्तं व्रह्महत्यानिवृत्तये प्रायश्चित्तपूर्वकं व्रतं कृत्वा सत्रे समागते सति तज्ज्येष्ठबन्धुना परावसुना तस्मिन्निजकनिष्ठबन्धावर्वावसावेव ब्रह्महत्यादोषमारोप्य बृहद्द्युम्नराजद्वाराऽ- र्वावसोः सत्रसदनाद्बहिर्निष्कासनम्, ततो वास्तविकतया निरपराधिनाऽर्वावसुना निरुपायवशात्सत्राद्विनिष्क्रम्य वनं गत्वा तपःकरणम्, तत्तपस्तुष्टेभ्य आदित्ये- न्द्रादिदेवेभ्योऽर्वावसुना निजपितृसंजीवनरूपवरयाचनं स्वभ्रातुश्च पितृब्रह्महत्या- दोषशान्तिरूपवरयाचनं च, ततो देवोक्तोपायमाश्रुत्यार्वावसुना कनिष्ठबन्धुना परावसोर्ज्येष्ठबन्धोर्ब्रह्महत्यादोषनिवृत्तये परावसुं गृहीत्वा दक्षिणोदधिस्थ- धनुष्कोटितीर्थे स्नानकरणम्, तेन स्नानप्रभावेण परावसोः पितृब्रह्महत्यादोष- निवृत्तिः, ततः स्वगृहं प्रत्यागतयोस्तयोरर्वावसुपरावस्वोः पितू रैभ्यमुनेः सञ्जीव्योत्थानम्, ब्रह्महत्यादिसमस्तदोषविनाशक धनुष्कोटितीर्थमाहात्म्यम् ५९ २
३४ अथ पुनर्धनुष्कोटिमाहात्म्यप्रसङ्गेन सृगालवानरसंवादवृत्तान्तवर्णनम्, तत्र पूर्व जातिस्मरयोः कयोश्चित्सृगालवानरयोः परस्परं संवादेऽन्योन्यं निजपूर्वजन्म- कर्मवृत्तान्तकथनम् , एवं परस्परं भाषमाणयोः सृगालवानरयोः समीपे सिन्धुद्वीपाख्यमुनेरागमनम् , अथ ताभ्यां सृगालवानराभ्यां निजमु- क्त्युपायं पृष्टेन सिन्धुद्वीपमहर्षिणा धनुष्कोटितीर्थस्नानोपदेशपूर्वकं किराती- संसर्गिसुरापायिसुमतिनामक ब्राह्मणसमुद्धारवृत्तान्तकथनम्, तत्र महाराष्ट्रस्थयज्ञ- देवद्विजपुत्रस्य सुमत्याख्यस्य किरातीसंगलोलुपतया धनं संपादयितुं चौर्याय प्रवृत्तस्य हस्तेन कस्यचिद्ब्राह्मणस्य हत्यया ब्रह्महत्याप्राप्तिः, अथ तया घोरया ब्रह्महत्ययोपद्रुतस्य सर्वां भूमिं भ्रान्त्वा स्वग्राममागत्य पितुः समीपे शरणा-गमनम्, ब्रह्महत्यया तत्पितुस्तस्य रक्षणे निषेधकरणम् , तत्पित्रादीनां पुरतश्च तया ब्रह्महत्यया सुमतेस्ताडने कृते तत्पित्रादीनां सर्वेषां दुःखेन रोदनम्, अथ तस्मिन्नेवावसरे तत्र समागतस्य दुर्वासोमहर्षेस्तत्पित्रा यज्ञदेवेन स्वपुत्रस्य दोष-निवृत्तये प्रार्थनाकरणम्, ततो दुर्वाससा तस्मै ब्रह्महत्यादोषनिवृत्तये श्रीराम-धनुष्कोटितीर्थे स्नानार्थमुपदेशकरणम्, धनुष्कोटितीर्थमाहात्म्यप्रसङ्गेन दुर्विनी- ताख्यविप्रस्य गुरुस्त्रीगमनपापनिवृत्तिवृत्तान्तवर्णनम्.. ६१ २
३५ अथ यज्ञदेवस्य दुर्वाससं प्रति दुर्विनीतविप्रचरित्रजिज्ञासया प्रश्ने सति दुर्वाससा यज्ञदेवाय दुर्विनीताख्यद्विजवृत्तान्तवर्णनम्, तत्र पाण्ड्यदेशस्थेध्मवाहाभिधब्राह्म-णपुत्रस्य दुर्विनीतस्य पितुर्मरणोत्तरं पितुरौर्ध्वदैहिकं कर्म कृत्वा विधवया निज- मात्रा सह स्वदेशे दुर्भिक्षवशाद्गोकर्णं समागत्य निवासकरणम् , तत्र बहुकालं निवसता तेन मूढबुद्धिना दुर्विनीतेन पूर्वदुष्कर्मपरिपाकादकस्मादनङ्गशरपीडिते-न मामेतिवादिनीं विधवां निजांबां बलादाकृष्य मैथुनकरणम् , अथ रेतःसेकादनन्तरं दुर्विनीतस्य भृशपश्चात्तापं कृत्वा निजदेहविशुद्धये प्रायश्चित्तार्थं मह-र्षोन्प्रति प्रार्थनम्, सर्वैर्महर्षिभिर्महापातकिनस्तस्य निर्भर्त्सनपूर्वकं निःसारणे कृते सत्यपि परमदयालुना व्यासमहर्षिणा तं प्रति गुर्वङ्गन्नागमनदोषनिवृत्तये धनुष्कोटिस्नानार्थमुपदेशकरणम् , व्यासादुपदेशं श्रुत्वा दुर्विनीतेन निजमात्रा सह धनुष्कोटितीर्थे संकल्पपूर्वकं स्नात्वा मासोपवासान्ते पारणां कृत्वा पुनर्व्यासां-तिकमागत्यानन्तरकर्तव्योपदेशार्थं प्रार्थनाकरणम्, ततो व्यासेन दुर्विनीताय सर्व- सज्जनकर्तव्यसदुपदेशकरणम्, ततो दुर्विनीतस्य व्यासोक्तनियमाचरणपूवर्कं दार-संग्रहं कृत्वा गार्हस्थ्यधर्माचरणपूवर्कं धर्माचरणेनान्ते मुक्तिवर्णनम्, इत्थं दुर्वाससा प्रोक्तं धनुष्कोटितीर्थमाहात्म्यं श्रुत्वा यज्ञदेवेन ब्राह्मणेन ब्रह्महत्योपद्रुतं निजपुत्रं ग्रहीत्वा धनुष्कोटितीर्थं गत्वा स्नानकरणम्, तत्प्रभावेण तत्राकाश-वाण्या यज्ञदेवद्विजपुत्रस्य सुमत्याख्यस्य ब्रह्महत्यादिसकलपातकनिवृत्तिः, इत्थं सिन्धुद्वीपोक्तं धनुष्कोटितीर्थमाहात्म्यं श्रुत्वा सृगालवानराभ्यां धनुष्कोटितीर्थं गत्वा स्नानकरणम्, तत्प्रभावेण सृगालवानरयोर्मोक्षावाप्तिवर्णनम्, धनुष्कोटि- माहात्म्यम् ६३ १
३६ अथ पुनर्धनुष्कोटितीर्थमाहात्म्यप्रसंगेन दुराचाराभिधविप्रवृत्तांतवर्णनम् , तत्र गौत-मीतीरस्थस्य दुराचाराख्यस्य द्विजस्य महापातकिभिर्जनैः सह संसर्गेण निःशेष-ब्राह्मण्यविनाशे वेतालेन गृहीत्वा गौतमीप्रदेशाद्धनुष्कोटितीर्थे नीत्वा धनुष्कोटि- तीर्थजले निमज्जनम्, तत्तीर्थस्नानमात्राद्वेतालग्रहान्मुक्तस्य दुराचारम्य श्रीदत्ता-त्रेयं प्रति गत्वा निजवृत्तान्तजिज्ञासया प्रार्थनायां कृतायां दत्तात्रेयेण तस्मै वेतालग्रहग्रहणादिवेतालमुक्तिपर्यन्तवृत्तकथनपूर्वकं धनुष्कोटितीर्थमाहात्म्यकथ- नम, तत्प्रसंगेन वेतालस्य पूर्वजन्मनि ब्राह्मणस्य भाद्रपदकृष्णपक्षे पितृश्राद्धा-करणाद्वेतालत्वप्राप्तिवर्णनम्, तत्प्रसंगेन महालयपक्षस्थप्रतितिथिश्राद्धफलवर्णनम्, महालयश्राद्धकरणप्रभावाद्धरिश्चन्द्रादीनां राजर्षीणामत्र्यादिब्रह्मर्षीणां च सर्व- दुःखनिस्तारपूर्वकसर्वाणिमादिसिद्धिफलावाप्तिवर्णनम् , श्रीदत्तात्रेयाद्धनुष्कोटि-तीर्थमाहात्म्यं महालयपक्षीयादिश्राद्धमाहात्म्यफलानि च श्रुत्वा त्यक्तदुराचारस्य दुराचाराख्यविप्रस्य दत्तात्रेयोक्तमार्गेण स्वगृहं प्रत्यागत्य स्वधर्माचरणेन देहांते मोक्षवर्णनम् , सर्वपापनिवृत्तिकरधनुष्कोटितीर्थप्रशंसा. ६४ २
३७ अथ फुल्लग्रामस्थक्षीरकुण्डमाहात्म्यवर्णनम्, तत्प्रसंगेन मुद्गलब्राह्मणचरित्रवर्णनम् , तत्र मुद्गलेन यज्ञे क्रियमाणे तत्र यज्ञे प्रादुर्भूतस्य महाविष्णोर्मुद्गलेन स्तुत्या प्रसादनम्, अथ मुद्गलमुनिमनोषितपूरणाय भगवता विष्णुना विश्वकर्मद्वारा मुद्गलाश्रमे विस्तीर्णं कुण्डं खानयित्वा सुरभीं प्रति पयःपूरणायाज्ञाप्य सुरभ्या ऽखण्डपयसा पूरिते तस्मिन्कुण्डे भगवता मुद्गलाय सायंप्रातर्होमार्थं तत्कुण्डं दत्त्वा तस्य क्षीरसर इति नाम कृत्वा मुद्गलाय वरं प्रदायान्तर्धानकरणम्, मुद्गलस्य महर्षेर्भगवत्प्रीतये होमादिस्वधर्माचरणपूर्वकं देहान्ते मोक्षप्राप्तिः, क्षीर-कुण्डमाहात्म्यप्रसंगेन स्वसपत्न्याश्छलकारिण्याः कद्र्वाख्यायाः कश्यपपत्न्या-श्छलजन्यपातकनिवृत्तिवृत्तान्तवर्णनम्, क्षीरकुण्डमाहात्म्यवर्णनम्. ६८ २
३८ विनताकद्र्वोर्भगिन्योरपि सपत्न्योः कदाचित्सूर्याश्वपुच्छवर्णकथनपणेन दासीभावे निश्चिते विनतया सूर्याश्वपुच्छे यथार्थतया श्वेतवर्णे प्रोक्ते सत्यपि कद्र्वा छलेन निज-पुत्राणां नागानां सूर्याश्वपुच्छस्य निजगात्रवेष्टनेनाच्छाद्य नीलत्वविधानायाज्ञा- करणम्, नागैस्तद्वचस्यनंगीकृते कद्र्वा नागेभ्यः शापप्रदानम्, अथ कर्कोटका-ख्यनागेन मात्रर्थे सूर्याश्वपुच्छस्य स्वभोगेनाच्छाद्य नीलीकरणम्, अथ कद्रूवि-नताभ्यां सह मिलित्वा कृष्णपुच्छसूर्यहयदर्शनम् , कृप्णपुच्छं तं सूर्यहयं दृष्ट्वा छलेन निर्जितयाऽत एव दुःखितया विनतया कद्र्वाश्चेटीत्वं स्वीकृत्य स्वसुतेन गरुडेन सह कद्र्वास्तत्पुत्राणां नागानां च वहनम्, अथ गरुडेन मातृतश्चेटीत्वका-रणं विज्ञाय तस्याः कद्र्वाः सकाशात्स्वमातुर्दास्यविमुक्तये सुधाहरणार्थ गमना-य मातुः समीपे भक्ष्यप्रार्थनम्, मात्रा गरुडाय समुद्रमध्यस्थितशबरभक्षणा-र्थमाज्ञाकरणम्, गरुडेन शबरान्भक्षयित्वा तन्मध्य आगतस्य विप्रस्य तद्भार्य-या किरात्या सह मुखान्निरुद्गिरणम्, अथ शबरान्भक्षयित्वाप्यतृप्तेन गरुडेन निजपितुः कश्यपस्य समीपमेत्य तं प्रति क्षुद्बाधानिवृत्तये भक्ष्यप्रार्थनम्, कश्य-पेन विभावसुसुप्रतीकयोर्भ्रात्रोः परस्परं शापतो गजकच्छपत्वं प्राप्तयोर्भक्षणार्थं गरुडं प्रत्याज्ञाकरणम् , ततो गरुडेन निजनखाभ्यां तौ गजकच्छपौ गृहीत्वा तद्भक्षणार्थमवस्थितये विलंबाख्यतीर्थतीरस्थरोहिणाख्यतरुशाखाधिरोहणम्, त- स्मिन्नारूढमात्रे तच्छाखाभङ्गे तच्छाखायामवलंबमानानां वालखिल्यमहर्षीणां पतनभीत्या गरुडेन तच्छाखाया उच्चैरुत्तोल्य मध्ये सान्तराले कस्मिंश्चिन्निर्जन-प्रदेशे निधानपूर्वकं गजकच्छपभक्षणम्, अथ गरुडे सुधामाहर्तुं स्वर्गलोकं प्रति प्रस्थातुकामे सति स्वर्गलोकेऽनिष्टोत्पातान्दृष्ट्वा बृहस्पतिं प्रतीन्द्रेणोत्पात-कारणप्रश्नकरणम् , बृहस्पतिनेन्द्राय वालखिल्यदत्तशापोदयकालकथनम् , ततो गरुडेन स्वर्गं प्रत्यागमनम् , गरुडस्य देवैः सह युद्धवर्णनम्, तस्मिन्युद्धे वरदान-च्छलेन विष्णुना गरुडस्य निजवाहनत्वेन प्रार्थनम्, अथतस्मै शक्रेण वरप्रदानम्, गरुडेन सुधामानीय नागानां संनिधौ कुशेषु स्थापयित्वा स्वस्य मातुर्दास्यान्मोक्ष-णम् , अथ स्नानं कृत्वा समागच्छत्सु नागेषु शक्रेण सुधाकलशस्य हरणम्, स्नात्वा समागतैर्नागैः सुधाशंकया कुशेषु लिह्यमानेषु नागानां जिह्वापाटनेन द्विजिह्व त्वप्राप्तिः, अथ निजमातरमुद्दिश्य च्छलकारिण्यै कद्र्वै गरुडेन भर्तृपरिचर्यानर्ह-तारूपशापप्रदानम् , अथ तद्भर्त्रा कश्यपेन कद्र्वा निर्भर्त्सनम् , अथ साध्व्याः सच्छी-लाया विनतायाः प्रार्थनया कश्यपेन कद्र्वै च्छलदोषशान्तये दक्षिणोदधितीरस्थ-फुल्लग्रामवर्तिक्षीरसरसि स्नानार्थमाज्ञाकरणम्, क्षीरकुंडे स्नानेन कद्र्वाश्छलजन्य-दोषशान्तिः, क्षीरसरोमाहात्म्यम् ७० १
३९ अथ कपितीर्थमाहात्म्यवर्णनम् , तत्र रावणादिराक्षसहननानंतरं सर्वकपिभि-स्तीर्थं निर्माय स्नानकरणम्, कपितीर्थस्य श्रीरामचन्द्रेण वरप्रदानम्, कपितीर्थ-माहात्म्यप्रसंगेन विश्वामित्रचरित्रवर्णनम् , तत्र ब्राह्मण्यप्राप्तये तपः कुर्वतो विश्वा-मित्रस्य तपोविघ्नार्थ समागताया रंभाया विश्वामित्रशापाच्छिलात्वप्राप्तिः, श्वेतमुनिना निजोपद्रवार्थमागताया राक्षस्या उपरि तद्विद्रावणाय शिलायाः प्रक्षेपणम्, तस्याः शिलायास्तां राक्षसीं प्रहृत्य हत्वा कपितीर्थे पतितायास्तत्तीर्थ-प्रभावेण पुना रम्भात्वप्राप्तिः, तस्या राक्षस्या अपि शापमुक्तिपूर्वकं घृताच्यप्सर-स्त्वप्राप्तिः, कीपतीर्थंमाहात्म्यम् ७३ १
४० अथ गायत्रीसरस्वतीतीर्धद्वयमाहात्म्यवर्णनम् , तत्प्रसंगेन निजदुहितरं प्रति कामु-कस्य ब्रह्मणः शिवेन हननम्, गायत्रीसरस्वतीप्रार्थनया शिवेन ब्रह्मणः संजीव-नम , ब्रह्मणा शिवस्तुतिकरणम्, शिवाज्ञया गायत्रीसरस्वत्योर्गन्धमादने कुण्ड-द्वयनिर्माणपूर्वकं संनिधानम्, गायत्रीसरस्वतीकुण्डद्वयमाहात्म्यम् . . ७४ २
४१ अथ गायत्रीसरस्वतीकुण्डमाहात्म्यप्रसंगेन काश्यपाख्यविप्रवृत्तान्तवर्णनम्, तत्र शमीकमुनिपुत्रशप्तस्य परीक्षिद्भूपस्य भविष्यत्सर्पदंशजन्यमृत्युनिवारणार्थं गच्छतो विषापहरविद्यानिपुणस्य काश्यपब्राह्मणस्य मध्येमार्गमेव तक्षकाद्धनमादाय परावृत्तौ राजजीवितस्यारक्षणात्सकलजननिन्द्यताप्राप्तिः, ततः शाकल्यमुनेर्निज-लोकनिन्द्यताकारणं ज्ञात्वा तद्दोषपरिहारार्थं शाकल्योपदेशेन दक्षिणोदधितीरस्थ-गायत्रीसरस्वतीकुण्डद्वयं गत्वा स्नानकरणम्, तदानीं प्रादुर्भूतयोर्गायत्रीसर-स्वत्योः काश्यपेन स्तुतिकरणाम् , तस्मै ताभ्यां वरप्रदानम् , तत्प्रसादेन काश्यप-ब्राह्मणस्य मुक्तकिल्बिषत्ववर्णनम्, गायत्रीसरस्वतीकुण्डद्वयमाहात्म्यम् .. ७५ २
४२ अथर्णमोचनतीर्थ पंचपाण्डवतीर्थ देवतीर्थ सुग्रीवतीर्थ नलतीर्थ गवाक्षतीर्थाङ्गदतीर्थ गजगव-यशरभकुमुदहरपनसनिर्मिततीर्थ विभीषणतीर्थ विभीषणसचिवविनिर्मित तीर्थचतुष्टय-माहात्म्यवर्णनपूर्वकं गन्धमादनस्थ सरयूनदी रामनाथ महादेवादि माहात्म्यवर्णनम्. ७८ १
४३ अथ श्रीरामचन्द्रस्थापितरामनाथलिङ्गमाहात्म्यवर्णनम्, तत्र श्रीरामेश्वरमहालिंग-दर्शनादिभक्तिपूर्वकपूजनादिसविस्तरप्रशंसामाहात्म्यवर्णनम्-. ७९ १
४४ श्रीरामेश्वरलिङ्गमाहात्म्यप्रसंगेन श्रीरामचन्द्रचरित्रवर्णनम्, तत्र श्रीरामचन्द्रेण सागरे सेतुं बद्ध्वा लंकायां युद्धे रावणं हत्वा सीतां संशोध्य दक्षिणोदधितीरे गन्धमादन-पर्वतेऽवस्थानम्, अथागस्त्यादिमुनिभिरागत्य श्रीरामस्य स्तुतिकरणम्, अथ श्रीरामेण रावणहननजन्यब्रह्महत्यादोषापनुत्तये मुनीनामुपदेशेन श्रीमहेश्वरस्य लिङ्गं स्थापयितुं मुनिभिः सुमुहूर्तं निश्चित्य कैलासाच्छिवलिङ्गमानेतुं हनुमन्तं प्रत्याज्ञाकरणम्, कैलासं प्रति शिवलिङ्गमानेतुं गतस्य हनुमतो लिङ्गमादाया-गमने विलंबं दृष्ट्वा मुनीनां संमत्या सुमुहूर्तातिक्रमभीत्या श्रीरामेण जानकी-कृतबालुकामयशिवलिङ्गस्य स्थापनपूर्वकं पूजाकरणम् , ततो लिङ्गस्थितेन श्रीसां-बसदाशिवेन लिङ्गमध्यात्प्रादुर्भूय श्रीरामचन्द्राय वरप्रदानम्, रामचन्द्रेण श्रीरामेश्वराग्रतो नदिकेश्वरं संस्थाप्येश्वरस्याभिषेकार्थं निजधनुष्कोट्या कोटि- तीर्थाख्यकूपनिर्माणम्, लिङ्गप्रतिष्ठाकरणम्. ८२ १
४५ श्रीरामेण सुमुहूर्ते सैकतश्रीशिवलिङ्गप्रतिष्ठाकरणानन्तरं हनुमता कैलासपर्वताच्छि-वलिङ्गानयनम् , रामेण स्वागमनात्पूर्वमेव स्थापितं शिवलिङ्गं दृष्ट्वा मारुतेः क्रोधपूर्वकशोकाकुलत्वदशावर्णनम्, श्रीरघुनाथेन मारुतिसान्त्वनम्, ततो रामा-ज्ञया हनुमता हनुमदीश्वरस्थापनम् , एवं तत्र रामेश्वराद्येकादशशिवलिङ्गवर्ण-
नम्, अथ हनुमता रामस्थापितसीताविनिर्मितसैकतलिङ्गोत्पाटनाय साहसेन प्रयत्ने कृतेऽपि प्रयत्ननैष्फल्यतो मारुतेर्मूर्छाप्राप्तिपूर्वकं पतनम्, अथ श्रीसीताराम-चन्द्राभ्यां मारुतेः स्वास्थ्याय प्रयत्नकरणम्. ८४ २
४६ श्रीरामचन्द्रेण मूर्छापन्नस्य मारुतेः कृते शोककरणम् , अथ मारुतेर्मूर्छानिवृत्त्यनन्तरं मारुतिना श्रीरामजानक्योः स्तुतिकरणम्, श्रीरामचन्द्रेण मारुतये शिवभक्त्यु-पदेशं कृत्वा मारुतिपतनस्थानसमुत्पन्न गङ्गायमुनासरस्वतीनदीत्रयरूप हनुमत्कुण्ड-रूपतीर्थस्नानायाज्ञाकरणम्, रामनाथसमीपे हनुमता स्वानीतलिङ्गस्थापनम् ८६ १
४७ अथ श्ररिामचन्द्रस्य ब्रह्महत्योत्पत्तिहेतुवर्णनप्रसंगेन रावणादीनां कैकस्यां सुमालि-राक्षसकन्यायां विश्रवसो मुनेः सकाशादुत्पत्तिवृत्तान्तवर्णनम् , एवं रावणकुम्भ-कर्णयोर्ब्राह्मणत्वेन रामचन्द्रस्य तद्धननाद्ब्रह्महत्याप्राप्तौ तन्निवृत्तये रामचन्द्रेण सेतुबन्धे रामेश्वरलिङ्गस्थापनम्, ब्रह्महत्याविमोचनाख्यतीर्थं निर्माय तत्समीपव-र्तिनि बिले ब्रह्महत्यां प्रापय्य तद्बिलस्योपरि भैरवस्थापनम्, रामनाथमहालिंगस्य दक्षिणभागे गिरिजायाः स्थितिः, आसमंतात्परिवारदिग्देवतानां च स्थापनम्, रामेश्वरलिङ्गपूजासेवार्थ रामचंद्रेण ब्राह्मणानामग्रहारादिवृत्तिप्रदानम्. ८८ १
४८ अथ रामनाथमाहात्म्यप्रसङ्गेन पाण्ड्यदेशाधिपशंकरराजवृत्तान्तवर्णनम् कदाचि- न्मृगयार्थं वने विचरता शंकरभूपेन व्याघ्रचर्मावृतस्य कस्यचिच्छाकल्यमुनेस्तथा-विधाया एव व्याघ्रचर्मावृतायास्तत्पत्न्याश्च व्याघ्रशंकया हननम् स्वपितरौ हतौ दृष्ट्वा तयोर्बालकस्य रोदनम्, तद्रोदनं श्रुत्वा शंकरनृपस्य तत्समीपं प्रत्यागमनम्, तत्रत्यैर्मुनिभिर्बालकसमीपं प्रत्येत्य धनुर्धरं राजानं मृतौ पितरौ रुदन्तं बालकं च निरीक्ष्य बालकस्य तत्त्वज्ञानोपदेशेन सान्त्वनकरणपूर्वकं मातापित्रोरौर्ध्वदै-हिकार्थमाज्ञाकरणम्, मुनीनामाज्ञया तेन मुनिपुत्रेण पित्रोरौर्ध्वदैहिकं कृत्वा हालास्यतीर्थे रामेश्वरस्थले पित्रोरस्थिनिधानपूर्वकं श्राद्धादिविधिकरणम्, तत्प्रभा-वेन तत्पित्रोर्मुक्तिवर्णनम्, अथ ब्राह्मणैः शंकरभूपस्य धिक्कारपूर्वकं ब्रह्महत्यापनो-दाय वह्निप्रवेशार्थमाज्ञाकरणम्, ततो ब्राह्मणाज्ञया शंकरभूपेन स्वमंत्रिणो निजराज्ये स्वपुत्रस्याभिषेकार्थमाज्ञाप्याग्निं प्रज्वाल्य तस्मिन्पतितुं प्रयत्ने कृते सत्याकाश-वाण्या शंकरभूपस्य वह्निपतनतो निवारणपूर्वकं स्त्रीहत्याब्रह्महत्यादोषनिवृत्तये रामनाथदर्शनार्थमाज्ञाकरणम्, ततो ब्राह्मणानामपि तथैवानुमोदने सति शंकर-भूपेनैकवर्षपर्यन्तं श्रीरामेश्वरलिङ्गसेवनम् , तत्स्तुतिप्रभावेण शङ्करभूपस्य मुखतो विनिर्गतायाः स्त्रीहत्यासमन्वितब्रह्महत्याया भैरवेण शिवाज्ञया हननम्, अथ पवित्रस्य शंकरस्य श्रीरामनाथेन भगवताऽऽविर्भूय वरप्रदानम्, श्रीरामनाथप्रसा-दाच्छंकरभूपस्य शिवसायुज्यप्राप्तिवर्णनम् ८९ १
४९ अथ श्रीरामचन्द्रलक्ष्मणसीताहनुमदादिसमस्तवानरसमस्तमुनिसमस्तदेवादिभिः श्रीरामेश्वरभगवतः स्तुतिकरणम्, ततः प्रसन्नेन श्रीरामेश्वरेण श्रीरामचन्द्रादिभ्यो वरप्रदानवर्णनम. . ९२ १
५० अथ सेतुमाधववैभववर्णनम्, तत्प्रसङ्गेन पुण्यनिधिनामकराजवृत्तान्तवर्णनम्, तत्र कदाचिन्मधुरापुरीनरेशस्य पुण्यनिधे रामधनुष्कोटौ स्नात्वा तुलापुरुषादि-दानानि दत्त्वा स्वपुरीं प्रति प्रस्थातुकामस्य कन्यारूपधारिण्या लक्ष्म्या दर्शनम्, तया कन्यया पुण्यनिधिभूपतिं प्रत्यहं ते कन्या भूत्वा तव गृहे निवत्स्यामीति स्वाभिप्रायकथनम्, ततः पुण्यनिधिना तस्याः कन्यारूपधारिण्या लक्ष्म्याः स्वगृहं प्रत्यानीय विन्ध्यावल्याख्यायाः स्वभार्यायाः समीपे प्रदानं पुत्रवत्पो-षणपूर्वकं वर्धनं च, अथ तस्या लक्ष्म्या अन्वेषणार्थं विप्रवेषधारिणा विष्णुना तत्रागमनं तत्रोद्याने पुष्पाणि विचिन्वन्त्याः कन्यारूपधारिण्या लक्ष्म्या हठा-त्करग्रहणं च, ततः कन्यारोदनं श्रुत्वा पुण्यनिधिना निजदूतद्वारा तस्य विप्ररूप-धारिणो विष्णोः श्रीरामनाथमन्दिरं नीत्वा निगडैर्बन्धनम्, अथ रात्रौ स्वप्ने पुण्य-निधिना तस्य विप्रस्य भगवद्विष्णुरूपेण निजकन्यायाश्च लक्ष्मीरूपेण दर्शनम्, ततः प्रभाते स्वकन्यां गृहीत्वा रामनाथालयं गत्वा तं विप्रं स्वप्नदृष्टभगवद्रूप-वन्तं दृष्ट्वा तं विष्णुं विज्ञाय स्तुतिकरणपूर्वकं स्वापराधक्षमापणम्, निजकन्या-रूपायाश्च तस्या लक्ष्म्याः स्तुतिकरणम्, तत्प्रार्थनया प्रसन्नेन सलक्ष्मीकेण भग-वता पुण्यनिधये वरप्रदानम्, तस्य भक्तस्य पुण्यनिधेर्भूपस्य निरन्तरकीर्तये भगवता सेतुमाधवसंज्ञया निगडबद्धमूर्तिधारणपूर्वकमेव तत्रावस्थितिकरणम् , ततः पुण्यनिधिभूपेन सेतुमाधवभगवत्सेवाकरणम् , पुण्यनिधेर्देहान्ते मुक्तिप्राप्तिः, सेतुमाधवमाहात्म्यवर्णनम् . ९४
५१ अथ सेतुयात्राविधिक्रमवर्णनम्, स्वगृहे स्नानपूर्वकं संकल्पं विधाय यात्रोद्देशेन यात्रिकनित्यनियमधारणपूर्वकं सविस्तरयात्राविधानवर्णनम् ९६ २
५२ अथ विशेषतः सेतुवैभववर्णनपुरःसरं धनुष्कोटितीर्थस्नानदानादिमाहात्म्यवर्णनम् , श्रीरामचन्द्रेण धनुष्कोटितीर्थस्य वरप्रदानवृत्तान्तवर्णनम्, दानप्रसंगेन पात्र-विचारे प्रस्तूयमाने वसिष्ठदिलीपसंवादे सत्पात्रप्रशंसा, रामसेतौ धनुष्कोटि-तीर्थे स्नानादिकर्मस्वर्धोदयादिकालप्रशंसापूर्वकं पूजार्घ्यव्रतादिसत्कर्मप्रशंसनम् , सेतुमाहात्म्यपठनश्रवणदानमाहात्म्यवर्णनम , सेतुमाहात्म्यस्योपसंहारपूर्वकसमा-प्तिवर्णनम्.. ९८ २
इति ब्राह्मखण्डे प्रथमं सेतुमाहात्म्यम् ॥( ३-१) ॥