गणपति और गौरीकी पूजा
(पूजामें जो वस्तु विद्यमान न हो उसके लिये 'मनसा परिकल्प्य समर्पयामि' कहे । जैसे, आभूषणोके लिये 'आभूषणं मनसा परिकल्प्य समर्पयामि।)
हाथमें अक्षत लेकर ध्यान करे-
भगवान गणेशका ध्यान-
गजाननं भूतगणादिसेवितं कपित्थजम्भूफलचारुभक्षणम् ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥
भगवती गौरीका ध्यान -
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
श्रीगणेशाम्बिकाभ्यां नमः, ध्यानं समर्पयामि ।
भगवान गणेशका आवाहन-
ॐ गणानां त्वा गणपतिहवामहे प्रियाणां त्वा प्रियपतिहवामहे निधीनां त्वा निधिपतिहवामहे वसो मम ।
आहमजानि गर्भधमात्वमजासि गर्भधम् ॥
एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष ।
माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते ॥
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च ।
हाथके अक्षत गणेशजीपर चढ़ा दे । फिर अक्षत लेकर गणेशजीकी दाहिनी ओर गौरीजीका आवाहन करे ।
भगवती गौरी का आवाहन-
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
हिमाद्रितनयां देवीं वरदां शङ्करप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः गौर्यै नमः, गौरिमावाहयामि, स्थापयामि, पूजयामि च ।
प्रतिष्ठा -
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञसमिमं दधातु ।
विश्वे देवास इह आदयन्ताम् ॐ प्रतिष्ठ ॥
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥
गणेशाम्बिके! सुप्रतिष्ठिते वरदे भवेताम् ॥
प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः ।
(आसनके लिये अक्षत समर्पित करे) ।
पाद्य, अर्घ्य, आचमनीय, स्नानीय, पुनराचमनीय
ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां स्नानीय, पूष्णो हस्ताभ्याम् ॥
एतानि पाद्यार्घ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि । गणेशाम्बिकाभ्यां नमः ।
(इतना कहकर जल चढ़ा दे) ।
दुग्धस्नान -
ॐ पयः पृथ्वियां पय औषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
कामधेनुसमुद्भूतं सर्वेषां जीवनं परमं ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । पयः स्नानं समर्पयामि ।
(दूधसे स्नान कराये) ।
दधिस्नान -
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभि नो मुखाकरत्प्राण आयूषि तारिषत् ॥
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ।
दधिस्नानं समर्पयामि ।
(दधिसे स्नान कराये) ।
घृतस्नान -
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रियो घृतम्वस्य धाम ।
अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यांनमः । घृत स्नानं समर्पयामि ।
(घृतसे स्नान करये) ।
मधु स्नान
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो
मधुमत्पार्थिवरजः । मधु द्यौरस्तु नः पिता ।
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि ।
(मधुसे स्नान कराये )।
शर्करा स्नान
ॐ अपारसमुद्वयससूर्यै सन्तसमाहितम् ।
अपारसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् ।
मलापहारिकां द्विव्यां स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । शर्करास्नानं समर्पयामि ।
(शर्करासे स्नान कराये ) ।
पंचामृत स्नान
ॐ पञ्चनद्यः सरस्वतीमपि यन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशेभवत्सरित् ॥
पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करया समायुक्तं स्नानर्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ।
पञ्चामृतस्नानं समर्पयामि ।
(पंचामृतसे स्नान कराये) ।
गन्धोदक स्नान
ॐ अऽऽशुना ते अऽऽशुः पृच्यतां परुषा परुः ।
गन्धस्ते सोमामवतु मदाय रसो अच्युतः ॥
मलयाचलसम्भूतचन्दनेन विनिःसृतम् ।
इदं गन्धोदकस्नानं कुङ्कुम्युक्तं च गृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
गन्धोदकस्नानं समर्पयामि ।
(गन्धोदकसे स्नान कराये ।)
शुद्धोदक स्नान -
ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः ।
श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥
गङ्गा च यमुना चैव गोदावरी सरस्वती ।
नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ।
शुद्धोदकस्नानं समर्पयामि ।
(शुद्ध जलसे स्नान कराये ।)
आचमन - शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल दे।)
वस्त्र -
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः ।
तं धीराः स कवय उन्नयन्ति स्वाध्यो३मनसा देवयन्तः ।
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । वस्त्रं समर्पयामि ।
आचमन - वस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल दे ।)
उपवस्त्र -
ॐ सुजातो ज्योतिषा सहशर्म वरूथमाऽसदत्स्वः ।
वासो अग्ने विश्वरूपथसं व्ययस्व विभावसो ॥
यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रम् समर्पयामि ।)
(उपवस्त्र समर्पित करे ।)
आचमन - उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल दे ।)
यज्ञोपवीत
ॐ यज्ञोपवीतम् परमं पवित्रं प्रजापतेर्येत्सहजं पुरस्तात् ।
आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
यज्ञोपवीतं मया दत्तं गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । यज्ञोपवीतं समर्पयामि ।
(यज्ञोपवीत समर्पित करें ।)
आचमन - यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल दे ।)
चंदन
ॐ त्वां गन्धर्वा अखनॅंस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत् ॥
श्रीखण्डं चंदनं दिव्यं गन्धढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठं! चन्दनं प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ।
चन्दनानुलेपनं समर्पयामि ।
(चंदन अर्पित करे ।)
अक्षत
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठाअ मती योजान्विन्द्र ते हरी ॥
अक्षताश्च सुरश्रेष्ठ कुङ्कुम्युक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि ।
(अक्षत चढ़ाये ।)
पुष्पमाला
ॐ औषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाह्रतानि पुष्पाणि पूजार्थ प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पमालां समर्पयामि ।
(पुष्पमाला समर्पित करे ।)
दूर्वा
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।
आनीतांस्तव पूजार्थं गृहाण गणनायक ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान् समर्पयामि ।
(दूर्वाङ्कुर चढाये ।)
सिन्दूर
ॐ सिन्धोरिव प्राध्वेन शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वामान् ॥
सिन्दूर शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।
सुभदं कामदं चैव सिन्दूर प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । सिन्दूर समर्पयामि ।
(सिन्दुर अर्पित करे ।)
अबीर गुलाल आदि नाना परिमल द्रव्य -
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमासं परिपातु विश्वतः ॥
अबीरं गुलालं च हरिद्रादिसमन्वितम् ।
नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि ।
(अबीर आदि चढ़ाये ।)
सुगन्धिद्रव्य
सुगन्धित द्रव्य अर्पित करते समय निम्न मंत्र का उच्चारण करें ।
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि ।
(सुगन्धित द्रव्य अर्पण करे ।)
धूप -
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति
तं धूर्व यं वयं धूर्वामिः ।
देवानामसि वह्नितमसस्नितमं पप्रितं जुष्टतमं देवहूतमम् ॥
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि ।
(धूप दिखाये ।)
दीप -
ॐ अग्निर्न्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्य स्वाहा ।
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा ॥
सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा ॥
ज्योति सूर्यः सूर्यो ज्योतिः स्वाहा ॥
साज्यं चं वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तुते ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि ।
(दीप दिखाये ।)
हस्तप्रक्षालन - ॐ ह्रषिकेशाय नमः' कहकर हाथ धो ले ।
नैवेद्य -
नैवेद्यको प्रोक्षित कर गन्ध-पुष्पसे आच्छादित करे । तदनन्तर जलसे चतुष्कोण घेरा लगाकर भगवानके आगे रखे ।
ॐ अमृतोपस्तरणमसि स्वाहा ।
ॐ प्राणाय स्वाहा ।
ॐ अपानाय स्वाहा ।
ॐ समानाय स्वाहा ।
ॐ उदानाय स्वाहा ।
ॐ व्यानाय स्वाहा ।
ॐ अमृतापिधानमसि स्वाहा ।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्य निवेदयामि ।
(नैवेद्य निवेदित करे ।)
'नैवेद्यान्ते आचमनीयं जलं समर्पयामि'
(जल समर्पित करे ।)
ऋतुफल
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वहसः ॥
इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि ।
(ऋतुफल अर्पित करे ।)
'फलान्ते आचमनीयं जलं समर्पयामि ।
(आचमनीय जल अर्पित करे।)
उत्तरापोऽशन- 'उत्तरापोऽशनार्थे जलं समर्पयामि । गणेशाम्बिकाभ्यां नमः' ।
(जल दे।)
करोद्वर्तनः
ॐ अऽऽशुना ते अऽऽशुः पृच्यतां परुषा परुः ।
गन्धस्ते सोममवतु मदार रसो अच्युतः ॥
चन्दनं मलयोद्भूतम् कस्तूर्यादिसमन्वितम् ।
करोद्वर्तनकं देव गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तन चन्दनं समर्पयामि ।
(मलयचन्दन समर्पित करे ।)
ताम्बूल
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
पुंगीफल महद्दिव्यं नागवल्लीदलैर्युतम ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम् एलालवंगपुंगीफलसहितं ताम्बूलं समर्पयामि ।
( इलायची, लौंग-सुपारी के साथ ताम्बूल (पान) अर्पित करे ।)
दक्षिणा
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि ।
(द्रव्य दक्षिणा समर्पित करे।)
आरती
ॐ इदंऽऽहविः प्रजननं मे अस्तु मसह्वीरऽऽसर्वगणऽऽस्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो असमासु धत्त् ।
ॐ आ रात्रि पार्थिवऽऽ रजः पितुरप्रायि धामबिः ।
दिवः सदाऽऽसिबृहती वितिष्ठस आ त्वेषं वर्तते तमः ।
कदलीगर्मसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, आरार्तिकं समर्पयामि ।
(कर्पूरकी आरती करे, आरतीके बाद जल गिरा दे ।)
पुष्पांजलि
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
ॐ गणानां त्वा ............. ॥
ॐ अम्बे अम्बिके ........... ॥
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्ता गृहाण परमेश्वर ॥
ॐ भुर्भुव स्वः गणेशाम्बिकाभ्या नमः, पुष्पाञ्जलि समर्पयामि ।
(पुष्पाञ्जलि अर्पित करे।)