प्रत्यधि देवताओंका स्थापन
बायें हाथमें अक्षत लेकर दाहिने हाथसे नवग्रहोंके बायें भागमें मन्त्रको उच्चारण करते हुए नियत स्थानोंपर अक्षत छोड़ते हुए
एक-एक प्रत्यधिदेवताका आवाहन-स्थापन करे-
१-
अग्नि (सूर्यके बायें भागमें) आवाहन-स्थापन
ॐ अग्निं दूतं पुरोदधे हव्यवाहमुप ब्रुवे । देवॉं २ आ सादयादिह ॥
रक्तमाल्याम्बरधरं रक्तपद्मासनस्थितम् ।
वरदाभयदं देवमग्निमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः अग्नये नमः, अग्निमावाहयामि, स्थापयामि ।
२-
अप् (जल) चन्द्रमाके बायें भागमें) आवाहन - स्थापन-
ॐ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
आदिदेवसमुद्भूतजगच्छुद्धिकराः शुभाः ।
ओषध्याप्यायनकरा अप आवाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः अद्भ्यो नमः, अप आवाहयामि, स्थापयामि ।
३-
पृथ्वी (मंगलके बायें भागमें) आवाहन - स्थापन -
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥
शुक्लवर्णां विशालाक्षीं कूर्मपृष्ठोपरिस्थिताम् ।
सर्वशस्याश्रयां देवीं धरामावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः पृथिव्यै नमः, पृथिवीमावाहयामि, स्थापयामि ।
४-
विष्णु (बुधके बाये भागमें) आवाहन - स्थापन-
ॐ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पा सुरे स्वाहा ॥
शङ्खचक्रगदापद्महस्तं गरुडवाहनम् ।
किरीटकुण्डलधरं विष्णुमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः विष्णवे नमः, विष्णुमावाहयामि, स्थापयामि ।
५-
इन्द्र (बृहस्पतिके बायें भागमें) आवाहन स्थापन-
ॐ इन्द्र आसां नेता बृहस्पतिर्दक्षिना यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥
ऐरावतगजारूढं सहस्त्राक्षं शचीपतिम् ।
वज्रहस्तं सुराधीशमिन्द्रमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः इन्द्राय नमः, इन्द्रमावाहयामि, स्थापयामि ।
६-
इन्द्राणी (शुक्रके बायें भागमें) आवाहन स्थापन-
ॐ अदित्यै रास्नाऽसीन्द्राण्या उष्णीषः । पूषाऽसि घर्माय दीष्व ॥
प्रसन्नवदनां देवीं देवराजस्य वल्लभाम् ।
नानालङ्कारसंयुक्तां शचीमावाहयाम्यहम् ।
ॐ भूर्भुवः स्वः इन्द्राण्यै नमः, इन्द्राणीमावाहयामि, स्थापयामि ।
७-
प्रजापति (शनिके बायें भागमें) आवाहन - स्थापन-
ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परि ता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वय स्याम पतयो रयीणाम् ॥
आवाहयाम्यहं देवदेवेशं च प्रजापतिम् ।
अनेकव्रतकर्तारं सर्वेषां च पितामहम् ॥
ॐ भूर्भुवः स्वः प्रजापतये नमः, प्रजापतिमावाहयामि, स्थापयामि ।
८-
सर्प (राहुके बायें भागमें) आवाहन- स्थापन-
ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ।
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥
अनन्ताद्यान् महाकायान् नानामणिविराजितान् ।
आवाहयाम्यहं सर्पान् फणासप्तकमण्डितान् ॥
ॐ भूर्भुवः स्वः सर्पेभ्यो नमः, सर्पानामावाहयामि, स्थापयामि ।
९-
ब्रह्मा (केतुके बायें भागमें) आवाहन- स्थापन-
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश्चः योनिमसतश्च विवः ॥
हंसपृष्ठसमारूढं देवं ब्रह्माणं कमलासनम् ॥
ॐ भूर्भुवः स्वः ब्रह्मणे नमः, ब्रह्माणमावाहयामि, स्थापयामि ।
नवग्रहोंके समान ही अधिदेवता तथा प्रत्यधिदेवताओंका भी प्रतिष्ठापूर्वक पाद्यादि उपचारोंसे पूजन करना चाहिये ।
क्षेत्रपालका आवाहन-स्थापन
ॐ नहि स्पशमविदन्नन्यमस्माद्वैश्वानरात्पुर एतारमग्नेः ।
एमेनमवृधन्नमृता अमर्त्यं वैश्वानरं क्षैत्रजित्याय देवाः ॥
भूतप्रेतपिशाचाद्यैरावृतं शूलपाणिनम् ।
आवाहये क्षेत्रपालं कर्मण्यस्मिन् सुखाय नः ॥
ॐ भूर्भुवः स्वः क्षेत्राधिपते । इहागच्छ, इह तिष्ठ क्षेत्राधिपतये नमः, क्षेत्राधिपतिमावाहयामि, स्थापयामि ।
तदनन्तर 'ॐ मनो जूति०' इस मन्त्रसे प्रतिष्ठाकर 'ॐ क्षेत्रपालाय नमः' इस नाम-मन्त्रद्वारा गन्धादि उपचारोंसे पूजा करे ।