ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाऽऽ सहस्रयोजनेऽव धन्वानि तन्मसि ।
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणया पदे पदे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि ।
(प्रदक्षिणा करे ।)
विशेषार्घ्य - ताम्रपात्रमें जल, चन्दन, अक्षत, फल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्रको हाथमें लेकर निम्नलिखित मन्त्र पढ़े -
रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभा ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्चितार्थद ॥
अनेन सफलार्घ्येण वरदोऽस्तु सदा मम ।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषार्घ्यं समर्पयामि ।
(विशेषार्घ्य दे ।)