शिवगीता - चतुर्थोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


सूत उवाच ।

एवमुक्त्वा मुनिश्रेष्ठे गते तस्मिन्न्जाश्रमम् ॥

अथ रामगिरौ रामस्तस्मिन्गोदावरीतटे ॥१॥

शिवलिङ्ग प्रतिष्ठाप्य कृत्वा दीक्षां यथाविधि ।

भूतिभूषितसर्वाङ्गो रुद्राक्षाभरणैर्युतः ॥२॥

अभिषिच्यः जलैः पुण्यैर्गोतमीसिन्धुसम्भवैः ॥

अर्चयित्वा वन्यपुष्पैस्तद्वद्वन्यफलैरपि ॥३॥

भस्मच्छन्नो भस्मशायी व्याघ्रचर्मासने स्थितः ॥

नाम्नां सहस्त्रं प्रजपन्नक्तं दिवमनन्यधीः ॥४॥

मासमेकं फलाहारो मासं पर्णाशनः स्थितः ॥

मासमेकं जलाहारो मासं च पवनाशनः ॥५॥

शान्तो दान्तः प्रसन्नात्मा ध्यायन्नेवं महेश्वरम् ॥

ह्रत्पङ्कजे समासीनमुमादेहार्धधारिणम् ॥६॥

चतुर्भुजं त्रिनयनं विद्युत्पिङ्गजटाधरम् ॥

कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥७॥

सर्वाभरणसंयुक्तं नागयज्ञोपवीतिनम् ॥

व्याघ्रचर्माम्बरधरं वरदाभयधारिणम् ॥८॥

व्याघ्रचर्मोत्तरीयं च सुरासुरनमस्कृतम् ॥

पञ्चवक्त्रं चन्द्रमौलिं त्रिशूलडमरूधरम् ॥९॥

नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥

एवं नित्यं प्रजपतो गतं मासचतुष्टयम् ॥१०॥

अथ जातो महान्नादः प्रलयाम्बुदभीषणः ॥

समुद्रमथनोद्भूतमन्दरावनिभृद्ध्वनिः ॥११॥

रुद्रबाणाग्निसंदीप्तभ्रश्यत्त्रिपुरविभ्रमः ॥

तमाकर्ण्याथ संभ्रान्तो यावत्पश्यति पुष्करम् ॥१२॥

तावदेव महातेजा रामस्यासीत्पुरो द्विजः ॥

तेजसा तेन संभ्रान्तो नापश्यत्स दिशो दश ॥१३॥

अन्धीकृतेक्षणस्तूर्णं मोहं यातो नृपात्मजः ॥

विचिन्त्य तर्कयामास दैत्यमायां द्विजेश्वर ॥१४॥

अथोत्थाय महावीरः सज्जं कृत्वा स्वकं धनुः ॥

अविध्यन्निशितैर्बाणैर्दिव्यास्त्रैरभिमन्त्रितैः ॥१५॥

आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ॥

विष्णुचक्रं महाचक्रं कालचक्रं च वैष्णवम् ॥१६॥

रौद्रं पाशुपतं बाह्यं कौबेरं कुलिशानिलम् ॥

भार्गवादिबहून्यस्त्राण्ययं प्रायुक्तं राघवः ॥१७॥

तस्मिस्तेजसि शस्त्राणि चास्त्राण्यस्य महीपतेः ॥

विलीनानि महाभ्रस्य करका इव नीरधौ ॥१८॥

ततः क्षणेन जज्वाल धनुस्तस्य कराच्च्युतम् ॥

तूणीरं चांगुलित्राणं गोधिकापि महीपतेः ॥१९॥

तद्दृष्ट्‍वा लक्ष्मणो भीतः पपात भुवि मूर्छितः ॥

अथाकिञ्चित्करो रामो जानुभ्यामवनिं गतः ॥२०॥

मीलिताक्षो भयाविष्टः शंकरं शरणं गतः ॥

स्वरेनाप्युच्चरन्नुच्चैः शंभोर्नामसहस्त्रकम् ॥२१॥

शिवं च दण्डवद्‌भूमौ प्रणनाम पुनः पुनः ॥

पुनश्च पूर्ववच्चासीच्छब्दोदिङ्‌मंडल्म ग्रसन् ॥२२॥

चचाल वसुधा घोरं पर्वताश्च चकम्पिरे ॥

ततः क्षणेन शीतांशुशीतलं तेज आपतत् ॥२३॥

उन्मीलिताक्षो रामस्तु यावदेतत्प्रपश्यति ॥

तावद्ददर्श वृषभं सर्वालंकारसंयुतम् ॥२४॥

पीयूषमथनोद्भूतनवनीतस्य पिण्डवत् ॥

प्रोतस्वर्णं मरकतच्छायश्रृङ्गद्वयान्वितम् ॥२५॥

नीलरत्नेक्षणं ह्रस्वकण्ठकम्बलभूषितम् ॥

रत्नपल्याणसंयुक्तं निबद्धं श्‍वेतचामरैः ॥२६॥

घण्टिकाघर्घरीशब्दैः पूरयन्तं दिशो दश ॥

तत्रासीनं महादेवं शुद्धस्फटिकविग्रहम् ॥२७॥

कोटिसूर्यप्रतीकाशं कोटिशीतांशुशीतलम् ॥

व्याघ्रचर्माम्बरधरं नागयज्ञोपवीतिनम् ॥२८॥

सर्वालंकारसंयुक्तं विद्युत्पिंगजटाधरम् ॥

नीलकण्ठं व्याघ्रचर्मोत्तरीयं चन्द्रशेखरम् ॥२९॥

नानाविधायुधोद्भासिदशबाहुं त्रिलोचनम् ॥

युवानं पुरुषश्रेष्ठं सच्चिदानन्दविग्रहम् ॥३०॥

तत्रैव च सुखासीनां पूर्णचन्द्रनिभाननाम् ॥

नीलन्दीवरदामाभामुद्यन्मरकतप्रभाम् ॥३१॥

मुक्ताभरणसंयुक्ता रात्रिं ताराञ्चितामिव ॥

विन्ध्यक्षितिधरोत्तुङ्गकुचभारभरालसाम् ॥३२॥

सदसत्संशयविष्टमध्यदेशान्तराम्बराम् ॥

दिव्याभरणसंयुक्तां दिव्यगन्धानुलेपनाम् ॥३३॥

दिव्यमाल्याम्बरधरां नीलन्दीवरलोचनाम् ॥

अलकोद्भासिवदनां ताम्बूलग्रासशोभिताम् ॥३४॥

शिवालिंगनसञ्जातपुलकोद्भासिविग्रहाम् ॥

सच्चिदानन्दरूपाढ्यां जगन्मातरमंबिकाम् ॥३५॥

सौन्दर्यसारसन्दोहां ददर्श रघुनन्दनः ॥

स्वस्ववाहनसंयुक्तान्नानायुधलसत्करान् ॥३६॥

बृहद्रथन्तरादीनि सामानि परिगायतः ॥

स्वस्वकान्तासमायुक्तान्दिक्पालान्परितः स्थितान् ॥३७॥

अग्रगं गरुडारूढं शंखचक्रगदाधरम् ॥

कालाम्बुदप्रतीकाशं विद्युत्कान्त्या श्रिया युतम् ॥३८॥

जपन्तमेकमनसा रुद्राध्यायं जनार्दनम् ॥

पश्‍चाच्चतुर्मुखं देव ब्रह्माणं हंसवाहनम् ॥३९॥

चतुर्वक्त्रैश्‍चतुर्वेदरुद्रसूक्तैर्महेश्वरम् ॥

स्तुवन्तं भारतीयुक्तं दीर्घकूर्चं जटाधरम् ॥४०॥

अथर्वशिरसा देवं स्तुवन्तं मुनिमण्डलम् ॥

गंगादितटिनीयुक्तमम्बुधिं नीलविग्रहम् ॥४१॥

श्‍वेताश्‍वतरमन्त्रेण स्तुवन्तं गिरिजापतिम् ॥

अनन्तादिमहानागान्कैलासगिरिसन्निभान् ॥४२॥

कैवल्योपनिषत्पाठान्मणिरत्नविभूषितान् ॥

सुवर्णवेत्रहस्ताढ्यं नन्दिनं पुरुतः स्थितम् ॥४३॥

दक्षिणे मूषकारूढं गणेशं पर्वतोपमम् ॥

मयूरवाहनारूढमुत्तरे षण्मुखं तथा ॥४४॥

महाकालं च चण्डेशं पार्श्वयोर्भीषणाकृतिम् ॥

कालाग्निरुद्र दूरस्थं ज्वलद्दावाग्निसन्निभम् ॥४५॥

त्रिपादं कुटिलाकारं नटत्भृंगिरिटिं पुनः ॥

नानाविकारवदनान्कोटिशः प्रमथाधिपान् ॥४६॥

नानावाहनसंयुक्तं परितो मातृमण्डलम् ॥

पञ्चाक्षरिजपासक्तान्सिद्धविद्याधरादिकान् ॥४७॥

दिव्यरुद्रकगीतानि गायत्किन्नरवृन्दकम् ॥

तत्र त्रैयम्बकं मन्त्रं जपद्‌द्विजकदम्बकम् ॥४८॥

गायन्तं वीणया गीतं नृत्यन्तं नारदं दिवि ॥

नृत्यंतो नाट्यनृत्येन रम्भादीनप्सरोगणान् ॥४९॥

गायच्चित्ररथादीनां गन्धर्वाणां कदम्बकम् ॥

कंबलाश्‍वतरौ शंभुकर्णभूषणतां गतौ ॥५०॥

गायन्तौ पन्नगौ गीतं कपालं कम्बलं तथा ॥

एवं देवसभां दृष्ट्‌वा कृतार्थो रघुनन्दनः ॥५१॥

हर्षगद्‌गदया वाचा स्तुवन्देवं महेश्वरम् ॥

दिव्यनामसहस्त्रेण प्रणनाम पुनः पुनः ॥५२॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिशत्सु चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP