शिवगीता - अष्टमोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीराम उवाच ।

पाञ्चभौतिकदेहस्य चोत्पत्तिर्विलयस्थितिः ॥

स्वरूपं च कथं देव भगवन्वक्तुमर्हसि ॥१॥

श्रीभगवानुवाच ।

पञ्चभूतैः समारब्धो देहोऽयं पाञ्चभौतिकः ॥

तत्र प्रधानं पृथिवी शेषाणां सहकारिता ॥२॥

जरायुजोऽण्डजश्चैव स्वेदजश्चोद्भिज्जस्तथा ॥

एवं चतुर्विधः प्रोक्तो देहोऽयं पाञ्चभौतिकः ॥३॥

मानसस्तु परः प्रोक्तो देवानामेव स स्मृतः ॥

तत्र वक्ष्ये प्रथमतः प्रधानत्वाज्जरायुजम् ॥४॥

शुक्रशोणितसंभूता वृत्तिरेव जरायुजः ॥

स्त्रीणां गर्भाशये शुक्रमृतुकाले विशेद्यदा ॥५॥

योषितो रजसा युक्तं तदेव स्याज्जरायुजम् ॥

बाहुल्याद्रजसा स्त्री स्याच्छुक्राधिक्ये पुमान्भवेत् ॥६॥

शुक्रशोणितयोः साम्ये जायते च नपुंसकः ॥

ऋतुस्नाता भवेन्नारी चतुर्थ दिवसे ततः ॥

ऋतुकालस्तु निर्दिष्ट आषोंडशदिनावधि ॥७॥

तत्रायुग्मदिने स्त्री स्यात्पुमान्युग्मदिने भवेत् ॥८॥

षोडशे दिवसे गर्भी जायते यदि सुभ्रुवः ॥

चक्रवर्ती भवेद्राजा जायते नात्र संशयः ॥९॥

ऋतुस्नाता यस्य पुंसः साकांक्ष मुखमीक्षते ॥

तदाकृतिर्भवेद्‌गर्भस्तत्पश्येत्स्वामिनी मुखम् ॥१०॥

याऽस्ति चर्मावृतिः सूक्ष्मा जरायुः सा निगद्यते ॥

शुक्रशोणितयोर्योगस्तस्मिन्नेव भवेद्यतः ॥

तत्र गर्भी भवेद्यस्मात्तेन प्रोक्तो जरायुजः ॥११॥

अण्डजाः पक्षिसर्पाद्याः स्वेदजा मशकादयः ॥

उद्भिज्जास्तृणगुल्माद्या मानसाश्च सुरर्षयः ॥१२॥

जन्मकर्मवशादेव निषिक्तं स्मरमन्दिरे ॥

शुक्रं रजःसमायुक्तं प्रथमे मासि तद्‌द्रवम् ॥१३॥

कललं बुद्‌बुदं तस्मात्ततः पेशी भवेदिदम् ॥

पेशी घनं द्वितीये तु मासि पिण्डः प्रजायते ॥१४॥

करांघ्रिशीर्षकादीनि तृतीये संभवन्ति हि ॥

अविभक्तिश्च जीवस्य चतुर्थे मासि जायते ॥१५॥

ततश्चलति गर्भोऽप जनन्या जठरे स्वतः ॥

पुत्रश्चेद्दक्षिणे पार्श्वे कन्या वामे च तिष्ठति ॥१६॥

नपुंसकतस्तूदरस्य भागे तिष्ठति मध्यतः ॥

अतो दक्षिणपार्श्वे तु शेते माता पुमान्यदि ॥१७॥

अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा ॥

विहाय श्मश्रुदन्तादीञ्जन्मानन्तरसंभवान् ॥१८॥

चतुर्थे व्यक्ता तेषां भावानामपि जायते ॥

पुंसां स्थैर्यादयो भावाभीरुत्वाद्यास्तुयोषिताम् ॥१९॥

नपुंसकेच ते मिश्रा भवंति रघुनन्दन ॥

मातृजं चास्य ह्रदयं विषयानभिकाङ्‌क्षति ॥२०॥

ततोमातुर्मनोऽभीष्टं कुर्याद्‌गर्भविवृद्ध्ये ॥

तां च द्विह्रदयां नारीमाहुर्दौह्रदिनी ततः ॥२१॥

अदानाद्दोह्रदानां स्युर्गर्भस्य व्यङ्गतादयः ॥

मातुर्यद्विषये लोभस्तदार्तो जायते सुतः ॥२२॥

प्रबुद्धं पञ्चमें चित्तं मासशोणितपुष्टता ॥

षष्ठेऽस्थिस्नायुनखकेशलोमविविक्तता ॥२३॥

बलवर्णी चोपचितौ सप्तमे त्वङ्गपूर्णता ॥

पादान्तरितहस्ताभ्यां श्रोत्ररन्ध्रे पिधाय सः ॥२४॥

उद्विग्नो गर्भसंवासादस्ति गर्भलयान्वितः ॥२५॥

आविर्भूतप्रबोधोऽसौ गर्भदुःखादिसंयुतः ॥

हा कष्टमिति निर्विण्णः स्वात्मानं सोशुचत्यथ ॥२६॥

अनुभूता महासह्याः पुरा मर्मच्छिदोऽसकृत् ॥

करंभवालुकास्तप्ता दह्यन्ते च सुखाशयाः ॥२७॥

जठरानलसंतप्ताः पितख्यरसविप्रुषः ॥

गर्भाशये निमग्नं तु दहन्त्यतिभृशं तु माम् ॥२८॥

औदर्यक्रिमिवक्राणी कूटशाल्मलिकण्टक्रैः ॥

तुल्यानि च तुदन्त्यार्तं पार्श्वास्थिक्रकचार्दितम् ॥२९॥

गर्भे दुर्गन्धभूयिष्ठे जठराग्निप्रदीपिते ॥

दुःखं मयाप्तं यत्तस्मात्कनीयः कुम्भपाकजम् ॥३०॥

पूयासृक्छ्रलेष्मपायित्वं वान्ताशित्वं च यद्भवेत् ॥

अशुचौ कृमिभावश्च तत्प्रप्तं गर्भशायिना ॥३१॥

गर्भशय्या समारुह्य दुःखं यादृक् मयापि तत् ॥

नातिशेते महादुःखं निःशेषं नरकेषु तत् ॥३२॥

एवं स्मरन्पुरा प्राप्ता नानाजातीश्च यातनाः ॥

मोक्षोपायमपि ध्यायन्वर्ततेऽभ्यासतत्परः ॥३३॥

अष्टमे त्वक्छुती स्यातामोजस्तेजश्च ह्रद्भवम् ॥

शुद्धमापीतरक्तं च निमित्तं जीवितं मतम् ॥३४॥

मातरं च पुनर्गर्भं चञ्चलं तत्प्रधावति ॥

ततो जातोऽष्टमे गर्भो न जीवत्योजसोज्झितः ॥३५॥

किंचित्कालमवस्थानं संस्कारात्पीडितांगवत् ॥

समयः प्रसवस्य स्यान्मासेषु नवमादिषु ॥३६॥

मातुरस्त्रवहां नाडीमाश्रित्यान्ववतारिता ॥

नाभिस्थनाडी गर्भस्य मात्राहाररसावहा ॥

तेन जीवति गर्भोऽपि मात्राहारेण पोषितः ॥३७॥

अस्थियन्त्रविनिष्पिटः पतितः कुक्षिवर्त्मना ॥

मेदोऽसृग्दिग्धसर्वांङ्गो जरायुपुटसंवृतः ॥३८॥

निष्क्रमन्भृशदुःखार्तो रुदन्नुच्चरधोमुखः ॥

यन्त्रादेव विनिर्मुक्तः पतत्युत्तानशाय्यधः ॥३९॥

अकिञ्चित्कृत्तथा बालो मांसपेशीसमास्थितः ॥

श्वामार्जारादिदंष्ट्रिभ्यो रक्ष्यते दण्डपाणिभिः ॥४०॥

पितृवद्राक्षसं वेत्ति मातृवड्डाकिनीमपि ॥

यूयं वयं वो वदति दीर्घकष्टं तु शैशवम् ॥४१॥

श्र्लेष्मणा पिहिता नाडी सुषुम्ना यावदेव हि ॥

व्यक्तवर्ण च वदनं तावद्वक्तुं न शक्यते ॥४२॥

अतएव च गर्भेऽपिरोदितुं नैव शक्यते ॥४३॥

दृप्तोऽथ यौवनं प्राप्य मन्मथज्वरविह्वलः ॥

गायत्यकस्मादुच्चैस्तु तथाकस्माच्च वल्गति ॥४४॥

आरोहति तरून्वेगाच्छान्तानुद्वेजयत्यपि ॥

कामक्रोधमदान्धः सन्न कांश्चिदपि वीक्षते ॥४५॥

अस्थिमांसशिरालाया वामाया मन्मथालये ॥

उत्तानभूतमंडूकपाटितोदरसन्निभे ॥

आसक्तः स्मरबाणार्त आत्मना दह्यते भृशम् ॥४६॥

अस्थिमांसशिरात्वग्भ्यः किमन्यद्वर्तते वपुः ॥

वामानां मायया मूढो न किंचिद्वीक्षते जगत् ॥४७॥

निर्गते प्राणपवने देहो हंत मृगीदृशः ॥

वृथा हि जायते नैव वीक्ष्यते पञ्चषैर्दिनैः ॥४८॥

महापरिभवस्थानं जरां प्राप्यातिदुःखितः ॥

श्र्लेष्मणापिहितोरस्को जग्धमन्नं न जीर्यते ॥४९॥

सन्नदन्तो मन्ददृष्टिः कटुतिक्तकषायभुक् ॥

वातभग्नकटिग्रीवः करोरुचरणोल्बणः ॥५०॥

गदायुतसमाविष्टः परित्यक्तः स्वबन्धुभिः ॥

निःशौचो मलदिग्धांग आलिङ्गितवरोषितः ॥५१॥

ध्यायन्नसुलभान्भोगान्केवलं वर्ततेऽचलः ॥

सर्वेन्द्रियक्रियालोपाद्धस्यते बालकैरपि ॥५२॥

ततो मृतिजदुःखस्य दृष्टान्तो नोपलभ्यते ॥

यस्माद्विभ्यन्तिभूतानिप्राप्तान्यपिपरांरुजम् ॥५३॥

नीयते मृत्युना जंतुः परिष्वक्तोऽपि बंधुभिः ॥

सागरान्तर्जलगतो गरुडेनैव पन्नगः ॥५४॥

हा कान्ते हा धनं पुत्राः क्रन्दमानः सुदारुणम् ॥

मण्डूक इव सर्पेण मृत्युना नीयते नरः ॥५५॥

मर्मसूत्कृष्यमाणेशु मुच्यमानेषु संधिषु ॥

यद्दुःखं म्रियमाणस्य स्मर्यतां तन्न्मुमुक्षुभिः ॥५६॥

दृष्टावाक्षिप्यमाणायां संज्ञया ह्रिलमाणया ॥

मृत्युपाशेन बद्धस्य त्राता नैवेपलभ्यते ॥५७॥

संरुध्यमानस्तमसा महच्चित्तमिवाविशन्‍ ॥

उपाहूतस्तदाज्ञातीनीक्षते दीनचक्षुषा ॥५८॥

अयस्पाशेन कालेन स्नेहपाशेन बन्धुभिः ॥

आत्मानं कृष्यमाणं तं वीक्षते परितस्तथा ॥५९॥

हिक्कया बाध्यमानस्य श्वासेन परिशुंष्यतः ॥

मृत्युना कृष्यमाणस्य न खल्वस्ति परायणम् ॥६०॥

संसारयन्त्रमारूढो यमदूतैरधिष्ठितः ॥

क्व यास्यामीतिदुःखार्तःकालपाशेन योजितः ॥६१॥

किंकरोमि क्व गच्छामि किं गृहणामि त्यजामि किम् ॥

इति कर्तव्यतामूढः कृच्छाद्देहात्त्यजत्यसून ॥६२॥

यातनादेहसंबद्धो यमदूतैरधिष्ठितः ॥

इतो गत्वानुभवति या यास्ता यमयातनाः ॥

तासु यल्लभते दुःखं तद्वक्तुं क्षमते कुतः ॥६३॥

कर्पूरचन्दनाद्यैस्तु लिप्यते सततं हियत् ॥

भूषणैर्भूष्यते चित्रैःसुवस्त्रैः परिध्यार्य्यते ॥६४॥

अस्पृश्य जायतेऽप्रेक्ष्यं जीवत्यक्तं सदा वपुः ॥

निष्कासयन्ति निलयात्क्षणंनस्थापयन्त्यपि ॥६५॥

दह्यते च ततः काष्ठैस्तद्भस्मं क्रियते क्षणात् ॥

भक्ष्यते वा श्रृगालैश्च गृ ध्रकुक्कुटवायसैः ॥

पुनर्न दृश्यते सोऽपि जन्मकोटिशतैरपि ॥६६॥

माता पिता गुरुजनः स्वजनो ममेति मायोपमे

जगति कस्य भवेत्प्रतिज्ञा ॥ एको यतो व्रजत

कर्मपुरः सरोऽयं विश्रामवृक्षसदृशः खलु जीव लोकः ॥६७॥

सायंसायं वासवृक्षं समेताः प्रातः प्रातस्तेनतेन प्रयान्ति ॥

त्यक्त्वान्योऽन्यं तं वृक्षं विहंगा यद्वत्तद्वज्ज्ञातयोऽज्ञतायश्च ॥६८॥

मृतबीजं भवेज्जन्म जन्मबीजं भवेन्मृतिः ॥

घटयन्त्रवदश्रान्तो बंभ्रमीत्यनिशं नरः ॥६९॥

गर्भे पुंसः शुक्रपाताद्यदुक्तं मरणावधि ॥

तदेतस्य महाव्याधेर्मत्तो नान्योऽस्ति भेषजम् ॥७०॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु० शिवराघवसंवादे पिण्डोत्पत्तिकथनं नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP