श्रीराम उवाच ।
भावन्कुत्र जीवेऽसौ जन्तोर्देहेऽवतिष्ठते ॥
जायते वा कुतो जीवः स्वरूपं चास्य किं वद ॥१॥
देहान्ते कुत्र वा याति गत्वा वा कुत्र तिष्ठति ॥
कथमायाति वा देहं पुनर्न यदि वा वद ॥२॥
श्रीभगवानु उवाच ।
साधु पृष्टं महाभागं गुह्याद्गुह्यतरं हि यत् ॥
देवैरपि सुदुर्ज्ञेयमिन्द्राद्यैर्वा महर्षिभिः ॥३॥
अन्यस्मै नैव वक्तव्यं मयापि रघुनन्दन ॥
त्वद्भक्त्याहं परं प्रीतो वक्ष्याम्यवहितः श्रृणु ॥४॥
सत्यज्ञानात्मकोऽनन्तः परमानन्दविग्रहः ॥
परमात्मा परंज्योतिरव्यक्तोव्यक्तकारणम् ॥५॥
नित्यो विशुद्धः सर्वात्मा निर्लेपोऽहं निरञ्जनः ॥
सर्वधर्मविहीनश्च ग्राह्यो मनसापि च ॥६॥
नाहं सर्वेन्द्रियग्राह्यः सर्वेषां ग्राहको ह्यहम् ॥
ज्ञाताहं सर्वलोकस्य मम ज्ञाता न विद्यते ॥७॥
दूरः सर्वविकाराणां परिनामादिकस्य च ॥
यतो वाचो न्वर्तन्ते अप्राप्य मनसा सह ॥८॥
आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥९॥
यस्तु सर्वाणि भूतानि मय्येवेति प्रपश्यति ॥
मां च सर्वेषु भूतेषु ततो न विजुगुप्सते ॥१०॥
यत्र सर्वाणि भूतानि आत्मैवाभुद्विजानतः ॥
को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥११॥
एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥
दृश्यते त्वग्रयया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥१२॥
अनाद्यविद्यया युक्तस्तथाप्येकोऽहमव्ययः ॥
अव्याकृतब्रह्मरूपो जगत्कर्ताहमीश्वरः ॥१३॥
ज्ञानमात्रं यथा दृश्यमिदं स्वप्नं जगत्त्रयम् ॥
तद्वन्मयि जगत्सर्वं दृश्यतेऽस्ति विलीयते ॥१४॥
नानाविद्यासमायुक्तो जीवत्वेन वसाम्यहम् ॥
पञ्चकर्मेन्द्रियाण्येव पञ्च ज्ञानेन्द्रियाणि च ॥
मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ॥१५॥
वायवः पञ्च मिलिता यांति लिङ्गशरीरताम् ॥
तत्राविद्यासमायुक्तं चैतन्यं प्रतिबिम्बितम् ॥१६॥
व्यावहारिकजीवस्तु क्षेत्रज्ञः पुरुषोऽपिच ॥१७॥
स एव जगतां भोक्ता नाद्ययोः पुण्यपापयोः ॥
इहामुत्र गतिस्तस्य जाग्रत्स्वप्नादिभोक्तृत्ता ॥१८॥
यथा दर्पणकालिम्ना मलिनं दृश्यते मुखम् ॥
तद्वदन्तः करणगैर्दोषैरात्मापि दृश्यते ॥१९॥
परस्पराध्यासवशात्स्यादन्तःकरणात्मनोः ॥
एकीभावाभिमानेन परात्मा दुःखभागिव ॥२०॥
मरुभूमौ जलत्वेन मध्याह्नार्कमरीचिकाः ॥
दृश्यते मूढचित्तस्य न ह्यार्द्रास्तापकारकाः ॥२१॥
तद्वदात्मापि निर्लेपो दृश्यते मूढचेतसाम् ॥
स्वाविद्याख्यात्मदोषेण कर्तृत्वादिकधर्मवान् ॥२२॥
तत्र चान्नमये पिण्डे ह्रदि जीवोऽवतिष्ठते ॥
आनखाग्रं व्याप्य देहं तद्ब्रुवेऽवहितः श्रृणु ॥
पुरितदभिधानेन मांसपिण्डो विराजते ॥२३॥
नाभेरूर्ध्वमधः कण्ठाद्व्याप्य तिष्ठति यःसदा ॥
तस्य मध्येऽस्ति ह्रदयं सनालं पद्मकोशवत् ॥२४॥
अधोमुखं च तत्रास्ति सूक्ष्मं सुषिरमुत्तमम् ॥
दहराकाशमित्युक्तं तत्र जीवोऽवतिष्ठति ॥२५॥
बालाग्रशतभागस्य शतधा कल्पितस्य च ॥
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥२६॥
कदम्बकुसुमोद्बद्धकेसरा इव सर्वतः ॥
प्रसृता ह्रदयान्नाड्यो याभिर्व्याप्तं शरीरकम् ॥२७॥
हितं बलं प्रयच्छन्ति तस्मात्तेन हिताः स्मृताः ॥
द्वासप्ततिसहस्त्रैस्ताः संख्याता योगवित्तमैः ॥२८॥
ह्रदयात्तास्तु निष्क्रान्ता यथार्करश्मयस्तथा ॥
एकोत्तरशतं तासु मुख्या विष्वग्विनिर्गताः ॥२९॥
प्रतीन्द्रियं दश दश निर्गता विषयोन्मुखाः ॥
नाड्यः कर्मादिहेतूत्थाः स्वप्नादिभलभुक्तये ॥३०॥
वहन्त्यम्भो यथा नद्यो नाड्यः कर्मफलं तथा ॥
अनन्तैकोर्ध्वगा नाडी मूर्धपर्यन्तमञ्जसा ॥३१॥
सुषुम्नेति समादिष्टा तया गच्छन्विमुच्यते ॥
तत्रावस्थितचैतन्यं जीवात्मानं विदुर्बुधाः ॥३२॥
यथा राहुरदृश्योऽपि दृश्यते चंद्रमंडले ॥
तद्वत्सर्वगतोऽप्यात्मा लिङ्गदेहे हि दृश्यते ॥३३॥
यथा घटे नीयमाने घटाकाशोऽपि नीयते ॥
तद्वत्सर्वगतोऽप्यात्मा लिंगदेहे विनिर्गते ॥३४॥
निश्चलः परिपुर्णोपि गच्छतीत्युपचर्यते ॥
जाग्रत्काले तथाज्ञोऽयमभिव्यक्तविशेषधीः ॥३५॥
व्याप्नोतिनिष्क्रियः सर्वान्भानुर्दश दिशो यथा ॥
नाडीभिर्वृत्तियो यांति लिङ्गदेहसमुद्भवाः ॥३६॥
तत्तत्कर्मानुसारेण जाग्रद्भ गोपलब्धये ॥
इदं लिङ्गशरीराख्यमामोक्षान्न निवर्तते ॥३७॥
आत्मज्ञानेन नष्टेऽस्मिन्साविद्ये सशरीरके ॥
आत्मस्वरूपावस्थानं मुक्तिरित्याभिधीयते ॥३८॥
उत्पादिते घटे यद्वटाकाशत्वमृच्छति ॥
घटे नष्टे यथाकाशः स्वरूपेणावतिष्ठते॥३९॥
जाग्रत्कर्मक्षयवशात्स्वप्नभोग उपस्थिते ॥
बोधावस्थां तिरोधाय देहाद्याश्रयलक्षणाम् ॥४०॥
कर्मोद्मावितसंस्कारस्तत्र स्वप्नरिरंसया ॥
अवस्थां च प्रयात्यन्यां मायावीवात्ममायया ॥४१॥
घटादिविषयान्सर्वान्बुद्ध्यादिकरणानि च ॥
भूतानि कर्मवशतो वासनामात्रसंस्थितान् ॥४२॥
एतांपश्यन्वयंज्योतिः साक्ष्यात्माप्यवतिष्ठिते ॥४३॥
अत्रान्तः करणादीनां वासनाद्वासनात्मता ॥
वासनामात्रसाक्षित्वं तेन तत्र परात्मनः ॥४४॥
वासनाभिः प्रपंचोऽत्र दृश्यते कर्मचोदितः ॥
जाग्रद्भूमौ यथा तद्वत्कर्तृकर्मक्रियात्मक्रः ॥४५॥
निःशेषबुद्धिसाक्ष्यात्मा स्वयमेव प्रकाशते ॥
वासनामात्रसाक्षित्वं साक्षिणः स्वाप उच्यते ॥४६॥
भूतजन्मनि यद्भूतं कर्म तद्वासनावशात् ॥
नेदीयस्त्वाद्वयस्याद्ये स्वप्नं प्रायः प्रपश्यति ॥४७॥
मध्ये वयसि कार्कश्यात्करणानामिहार्जितः ॥
वीक्षते प्रायशः स्वप्नं वासनाकर्मणोर्वशात् ॥४८॥
यियासुः परलोकं तु कर्म विद्यादिसंभृतम् ॥
भाविनो जन्मनो रूप स्वप्न आत्मा प्रपश्यति ॥४९॥
यद्वत्प्रपतनाच्छ्येनः श्रान्तो गगनमण्डले ॥
आकुञ्चय पक्षौ यतते नीडे निः शयनायने ॥५०॥
एवं जाग्रत्स्वप्नभूमौ श्रान्त आत्माभिसञ्चरन् ॥
आपीतकरणग्रामः कारणेनैति चैकताम् ॥५१॥
नाडीमार्गेरिन्द्रियाणामाकृष्यादाय वासनाम् ॥
सर्व ग्रसित्वा कार्यं च विज्ञानात्मा प्रलीयते ॥५२॥
ईश्वराख्येऽव्याकृतेऽर्थे यथा सुखमयो भवेत ॥
कृत्स्न्नपञ्चविलयस्तथा भवति चात्मनः ॥५३॥
योषितः काम्यमानायाः सभोगान्ते यथा सुखम ॥
स आनंदमयो बाह्यो नान्तरः केवलं यथा ॥५४॥
प्राज्ञात्मतां समासाद्य विज्ञानात्मा तथैव सः ॥
विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः ॥५५॥
अविद्यासूक्ष्मवृत्त्यनुभव्रत्येव सुखं यथा ॥
अज्ञानमपि साक्ष्यादिवृत्तिभिश्चानुभूतये ॥
तथाहं सुखमस्वाप्सं नवि किंचिदवेदिषम् ॥५६॥
इत्येवं प्रत्यभिज्ञापि पश्चात्तस्योपपद्यते ॥५७॥
जाग्रत्स्वप्नसुषुप्त्याख्यमेवेहामुत्र लोकयोः ॥
पश्चातकर्मवशादेव विस्फुलिंगा यथानलात् ॥५८॥
जायन्ते कारणादेव मनोबुद्ध्यादिकानि तु ॥
पयः पूर्णो घटो यद्वन्निमग्नः सलिलाशये ॥
तैरेवोद्धृत आयाति विज्ञानात्मा तथैत्यजात् ॥५९॥
विज्ञानकारणात्मानस्तथा तिष्ठंतस्तथापि सः ॥
दृश्यते सत्सु तेष्वेव नष्टेष्वायात्यदृश्यताम् ॥६०॥
एकाकारोऽर्यमा तत्तत्कार्येष्विव परः पुमान् ॥
कूटस्थो दृश्यते तद्वद्गच्छत्यागच्छतीवसः ॥६१॥
मोहमात्रान्तरायत्वात्सर्वं तस्योपपद्यते ॥
देहाद्यतीत आत्मापि स्वयंज्योतिः स्वभावतः ॥६२॥
एवं जीवस्वरूपं ते प्रोक्तं दशरथात्मज ॥६३॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे जीवस्वरूपकथनं नाम दशमोऽध्यायः ॥१०॥