शिवगीता - एकादशोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीभगवानुवाच ।

देहान्तरगतिं स्वस्य परलोकगति तथा ॥

वक्ष्यामि नृपशार्दूल मत्तः श्रृणु समाहितः ॥१॥

भुक्तं पीत यदस्त्यत्र तद्रसादामबन्धनम् ॥

स्थूलदेहस्य लिङ्गस्य तेन जीवनधारणम् ॥२॥

व्याधिना जरया वापि पीड्यते जाठरोऽनलः ॥

श्रलेष्मणा तेन भुक्तान्नं पीतं वा न पचत्यलम् ॥३॥

भुक्तपीतरसाभावादाशु शुष्यन्ति धातवः ॥

भुक्तपीतरसेनैव देहं लिम्पंति नित्यशः ॥४॥

समीकरोति यस्मात्तत्समानो वायुरुच्यते ॥

इदानीं तद्रसाभावादामबन्धनहानितः ॥५॥

परिपक्वरसत्वेन यथाम्रं वृन्ततः फलम् ॥

स्वयमेव पतत्याशु तथा लिंगं तनोर्व्रजेत् ॥६॥

ततः स्थानादपाकृष्य ह्रषीकाणां च वासनाः ॥

आध्यात्मिकाभूतानिह्रत्पद्मे चैकता गताः ॥७॥

तदोर्ध्वगः प्राणवायुः संयुक्तो नववायुभिः ॥

ऊर्ध्वोच्छावासी भवत्येष तथा तेनैकता गतः ॥८॥

चक्षुषो वाथ मूर्ध्नो वा नाडी मार्ग समाश्रितः ॥

विद्याकर्मसमायुक्तो वासनाभिश्च संयुक्तः ॥९॥

प्रज्ञात्मानं समाश्रित्य विज्ञानात्मोपसर्पति ॥

यथा कुम्भो नीयमानो देशाद्देशान्तरं प्रतिः ॥१०॥

स्वपूर्ण एव सर्वत्र स आकाशोऽपि तत्र तु ॥

घटाकाशाख्यतां याति तद्वल्लिंग परात्मनः ॥११॥

पुनर्देहान्तरं याति यथाकर्मानुसारतः ॥

आमोक्षात्संचरत्येंव मत्यस्यः कूलद्वयं यथा ॥१२॥

पापभोगाय चेद्‌गच्छेद्यमदूतैरधिष्ठितः ॥

यातनादेहमाश्रित्य नरकानेव केवलम् ॥१३॥

इष्टापूर्तादिकर्माणि योऽनुतिष्ठिति सर्वदा ॥

पितृलोकं व्रजत्येष धूममाश्रित्य बर्हिषः ॥१४॥

धूमाद्रात्रिस्ततः कृष्णपक्षस्तस्माच्च दक्षिणम् ॥

अयनं च ततो लोकं पितृणां च ततः परम् ॥

चन्द्रलोके दिव्यदेहं प्राप्यं भुंक्ते परांश्रियम् ॥१५॥

तत्र चन्द्रमसा सोऽसौ यावत्कर्मफलं वसेत् ॥

तथैव कर्मशेषेण यथैतत्पुनराव्रजेत् ॥१६॥

वपुर्विहाय जीवत्वमासाद्याकाशमेति सः ॥

आकाशाद्वायुमागत्य वायोरंभो व्रजत्यथ ॥१७॥

अद्‌भ्यो मेघं समासाद्य ततो वृष्टिर्भवेदसौ ॥

ततो धान्यानि भक्ष्याणि जायते कर्मचोदितः ॥१८॥

योनिमन्ये प्रपद्यन्ते शरीरत्वायदेहिनः ॥

स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥१९॥

ततोन्नत्वं समासाद्य पितृभ्यां भुज्यते परम् ॥

ततः शुक्रं रजश्चैव भूत्वा गर्भोऽभिधार्यते ॥२०॥

ततः कर्मानुसारेण भवेत्स्त्रीपुन्नपुंसकम् ॥

एवं जीवगतिः प्रोक्ता मुक्तिं तस्य वदामि ते ॥२१॥

यस्तु शान्त्यादियुक्त सन्सदा विद्यारतो भवेत् ॥

स याति देवयानेन ब्रह्मलोकावधिं नरः ॥२२॥

अर्चिर्भूत्वा दिनं प्राप्य शुक्लपक्षमतो व्रजेत् ॥

उत्तरायणमासाद्य संवत्सरमथो व्रजेत् ॥२३॥

आदित्यचन्द्रलोकौ तु विद्युल्लोकमतः परम् ॥

अथ दिव्यः पुमान्कश्चिद्‌ब्रह्महालोकादिहैति ॥२४॥

दिव्ये वपुषि संधाय जीवमेवं नयत्यसौ ॥

ब्रह्मलोके दिव्यदेहे भुक्त्वा भोगान्यथेप्सितान् ॥२५॥

तत्रोषित्वा चिरं कालं ब्रह्मणा सह मुच्यते ॥

शुद्धब्रह्मरतो यस्तु न स यात्येव कुत्रचित् ॥२६॥

तस्य प्राण विलीयन्ते जले सैन्धवखिल्यवत् ॥

स्वप्नदृष्टा यथा सृष्टिः प्रबुद्धस्य विलीयते ॥२७॥

ब्रह्मज्ञानवतस्तद्वद्विलीयन्ते तदैव ते ॥

विद्याकर्मविहीनो यस्तृतीयं स्थानमेति सः ॥२८॥

भुक्त्वाऽस्त्र नरकान्घोरान्महारौरवरौरवान् ॥

पश्‍चात्प्राक्तनशेषेण क्षुद्रजन्तुर्भवेदसौ ॥२९॥

यूकामशकदंशादिजन्मासौ लभते भुवि ॥

एवं जीवगतिः प्रोक्ता किमन्यच्छ्रोतुमिच्छसि ॥३०॥

श्रीराम उवाच ।

भगवन्यत्त्वया प्रोक्तं फलं तज्ज्ञानकर्मणोः ॥

ब्रह्मलोके चन्द्रलोके भुंक्ते भोगानिति प्रभो ॥३१॥

गन्धर्वादिषु लोकेषु कथं भोगः समीरितः ॥

देवत्वं प्राप्नुयात्कश्चित्कश्चिदिन्द्रत्वमेति च ॥३२॥

एतत्कर्मफलं वास्तु विद्याफलमथापि वा ॥

तद्‌ब्रूहि गिरिजाकान्त तत्र मे संशयो महान् ॥३३॥

श्रीभगवानुवाच ।

तद्विद्याकमर्णोरेवानुसारेन फलं भवेत् ॥

युवा च सुन्दरः शूरो नीरोगी बलवान्भवेत् ॥३४॥

सप्तद्वीपां वसुमती भुंक्ते निष्कण्टकं यदि ॥

स प्रोक्तो मानुषानन्दस्तस्माच्छतगुणो मतः ॥३५॥

मनुष्यस्तपसा युक्तो गन्धर्वो जायतेऽस्य तु ॥

तस्माच्छतगुणो देवगन्धर्वस्य न संशयः ॥३६॥

एवं शतगुणानन्द उत्तरोत्तरतो भवेत् ॥

पितृणां चिरलोकानामज्ञातसुरसंपदाम् ॥३७॥

देवतानामथेन्द्रस्य गुरोस्तद्वत्प्रजापतेः ॥

एवं ब्रह्मण आनन्दः पुरः स्यादुत्तरोत्तरः ॥३८॥

ज्ञानाधिक्यात्सुखाधिक्यं नान्यदस्ति सुरालये ॥

श्रोत्रियोऽवृजिनो*कामहतो यश्च द्विजो भवेत् ॥३९॥

तस्याप्येवं समाख्याता आनन्दाश्चोत्तरोत्तरम् ॥

आत्मज्ञानात्परं नास्ति तस्माद्दशरतात्मज ॥४०॥

ब्राह्मणः कर्मभिर्नैव वर्धते नैव हीयते ॥

न लिप्यते पापकेन कर्मणा ज्ञानवान्यदि ॥४१॥

तस्मात्सर्वाधिको विप्रो ज्ञानवानेव जायते ॥

ज्ञात्वा यः कुरुते कर्म तस्याक्षय्यफलं भवेत् ॥४२॥

यत्फलं लभते मर्त्यः कोटिब्राह्मणभोजनैः ॥

तत्फलं समवाप्नोति ज्ञानिनं यस्तु भोजयेत् ॥४३॥

ज्ञानिभ्यो दीयते यच्च तत्कोटिगुणितं भवेत् ॥

ज्ञानवन्तं द्विजं यस्तु द्विषते च नराधमः ॥

स शुष्यमाणो म्रियते यस्मादीश्वर एव सः ॥४४॥

उपासको न यात्येव यस्मात्पुनरधोगतिम् ॥

उपासनरतो भूत्त्वा तस्मादास्व सुखी नृप ॥४५॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे जीवगत्यादिनिरूपणं नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP