श्रीराम उवाच ।
भक्तिस्ते कीदृशी देव जायते वा कथंचन ॥
यया निर्वाणरूपत्वं लभते मोक्षमुत्तमम् ॥
तद्ब्रूहि गिरिजाकान्त मयि तेऽनुग्रहो यदि ॥१॥
श्रीभगवानुवाच ।
यो वेदाध्ययनं यज्ञं दानानि विविधानि च ॥
मदर्पणधिया कुर्यात्स मे भक्तः स मे प्रियः ॥२॥
नर्यभस्म समादाय विशुद्धं श्रोत्रियालयात् ॥
अग्निरित्यादिभिर्मन्त्रैरभिमंत्र्य यथाविधि ॥३॥
उद्धूलयति गात्राणि तेन चार्चति मामपि ॥
तस्मात्परतरा भक्तिर्मम राम न विद्यते ॥४॥
सर्वदा शिरसा कण्ठे रुद्राक्षान्धारयेत्तु यः ॥
पञ्चाक्षरीजपरतः स मे भक्तः स मे प्रियः ॥५॥
भस्मच्छन्नो भस्मशायी सर्वदा विजितेन्दियः ॥
यस्तु रुद्रं जपेन्नित्यं चिन्तयेन्मामनन्यधीः ॥६॥
स तेनैव च देहेन शिवः संजायते स्वयम् ॥
जपेद्यो रुद्रसूक्तानि तथाथर्वशिरः परम् ॥७॥
कैवल्योपनिषत्सूक्तं श्वेताश्वतरमेव च ॥
ततः परतरो भक्तो मम लोके न विद्यते ॥८॥
अन्यत्र धर्मादन्यस्मादन्यत्रास्मात्कृताकृतात् ॥
अन्यत्र भूताद्भव्याच्च यत्प्रवक्ष्यामि तच्छृणु ॥९॥
वदंति यत्पदं वेदाः शास्त्राणि विविधानि च ॥
सर्वोपनिषदां सारं दध्नो घृतमिवोद्धृतम् ॥१०॥
यदिच्छन्तो ब्रह्मचर्य चरन्ति मुनयः सदा ॥
तत्ते पदं संग्रहेण ब्रवीम्योमिति यत्पदम् ॥११॥
एतदेवाक्षरं ब्रह्म चैतदेवाक्षरं परम् ॥
एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥१२॥
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ॥
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥१३॥
छन्दसां यस्तु धेनूनामृषभत्वेन चोदितः ॥
इदमेवावधिः सेतुरमृतस्य च धारणात् ॥१४
मेदसा पिहितं कोशं ब्रह्मणो यत्परं मतम् ॥
चतस्त्रस्तस्य मात्राः स्युरकारोकारकौ तथा ॥१५॥
मकारश्चावसानेऽर्धमात्रेति परिकीर्तिता ॥
पूर्वत्र भूश्च ऋग्वेदो ब्रह्माष्टवसवस्तथा ॥
गार्हपत्यश्च गायत्री गङ्गा प्रातः सवस्तथा ॥१६॥
द्वितीया च भुवो विष्णु रुद्रोऽनुष्युव्यजुस्तथा ॥
यमुना दक्षिनाग्निश्च माध्यन्दिनस्वस्तथा ॥१७॥
तृतीया च सवः सामान्यादित्यश्च महेश्वरः ॥
अग्निराहवनीयश्च जगती च सरस्वती ॥१८॥
तृतीयं सवनं प्रोक्तमथर्वत्वेन यन्मतम् ॥
चतुर्थी यावसानेऽर्धमात्रा सा सोमलोकगा १९॥
अथर्वाङ्गिरसः संवर्तकोऽग्निर्मरुतस्तथा ॥
विराट् सभ्यावसथ्यै च शत्तुद्रिर्यज्ञपुच्छकम् ॥२०॥
प्रथमा रक्तवर्णा स्याद्वितीया भास्वरा मता ॥
तृतीया विद्युदाभा स्याच्चतुर्थी शुक्लवर्णिनी ॥२१॥
सर्वं जातं जायमानं तदोङ्कारे प्रतिष्टितम् ॥
विश्वं भूतं च भुवनं विचित्रं बहुधा तथा ॥२२॥
जातं च जायमानं च तत्सर्वं रुद्र उच्यते ॥
तस्मिन्नेव पुनः प्राणाः सर्वमोङ्कार उच्यते ॥२३॥
प्रविलीनं तदोङ्कारे परं सनातनम् ॥
तस्मादोङ्कारजापी यः स मुक्तो नात्र संशयः ॥२४॥
श्रोताग्नेः स्मार्तवह्नेर्वा शैवाग्नेर्वा समाह्रतम् ॥
भस्माभिमन्त्र्य यो मां तु प्रणवेन प्रपूजयेत ॥
तस्मात्परतरो भक्त इह लोके न विद्यते ॥२५॥
शालाग्नेर्दाववह्नेर्वा भस्मादायाभिमन्त्रितम् ॥
यो विलिम्पति गात्राणि स शूद्रोऽपि विमुच्यते ॥२६॥
कुशपुष्पैर्बिल्वदलैः पुष्पैर्वा गिरिसंभवैः ॥
यो मामर्चयते नित्यं प्रणवेन प्रियो हि सः ॥२७॥
पुष्पं फलं समूलं वा पत्र सलिलमेव वा ॥
यो दद्यात्प्रणवे मह्यं तत्कोटिगुणितं भवेत् ॥२८॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ॥
यस्यास्त्ययनं नित्यं स मे भक्तः स मे प्रियः ॥२९॥
प्रदोषे यो मम स्थानं गत्वा पूजयते तु माम् ॥
स परां श्रियमाप्नोति पश्चान्मयि विलीयते ॥३०॥
अष्टम्यां च चतुर्दश्या पर्वणोरुभयोरपि ॥
भूतिभूषितसर्वांगो यः पूजयति मां निशि ॥
कृष्णपक्षे विशेषेण स मे भक्तः स मे प्रियः ॥३१॥
एकादश्यामुपोष्यैव यः पूजयति मां निशि ॥
सोमवारे विशेषेण स मे भक्तो न नश्यति ॥३२॥
पञ्चामृतै स्नापयेद्यः पञ्चगव्येन वा पुनः ॥
पुष्पोदकैः कुशजलैस्तस्मान्नान्यः प्रियो मम ॥३३॥
पयसा सर्पिषा वापि मधुनेक्षुरसेन वा ॥
पक्वाम्रफलजेनापि नारिकेलजलेन वा ॥३४॥
गन्धोदकेन वा मां यो रुद्रमन्त्रमनुस्मरन् ॥
अभिषिञ्चेत्ततो नान्यः कश्चित्प्रियतरो मम ॥३५॥
आदित्याभिमुखो भूत्वा ऊर्ध्वबाहुर्जले स्थितः ॥
मां ध्यायन्रविबिम्बस्थमथर्वांगिरस जपेत् ॥३६॥
प्रविशेन्मे शरीरेऽसौ गृहं गृहपतिर्यथा ॥
बृहद्रथन्तरं वामदेव्यं देवव्रतानि च ॥३७॥
तद्योगानाज्यदोहांश्च यो गायति ममाग्रतः ॥
इहं श्रियं परां भुक्त्वा मम सायुज्यमाप्नुयात् ॥३८॥
ईशावास्यादिमन्त्रान्यो जपेन्नित्यं ममाग्रतः ॥
मत्सायुज्यमवाप्नोति मम लोके महीयते ॥३९॥
भक्तियोगो मया प्रोक्त एवं रघुकुलोद्भव ॥
सर्वकामप्रदा मत्तः किमन्यच्छ्रोतुमिच्छसि ॥४०॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीता सू० शिवराघवसंवादे भक्तियोगो नाम पंचदशोध्यायः ॥१५॥