शिवगीता - षष्ठोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीराम उवाच ।

भगवन्मोक्षमार्गो यस्त्वया सम्यगुदाह्रतः न्

तत्राधिकारिणं ब्रूहि तत्र मे संशयो महान् ॥१॥

श्रीभगवानुवाच ।

ब्रह्मक्षत्रविशः शूद्राः स्त्रियश्चात्राधिकारिणः ॥

ब्रह्मचारी गृहस्त्यो वाऽनुपनीतोथवा द्विज ॥२॥

वनस्थो वाऽवनस्थो वा यतिः पाशुपतव्रती ॥

बहुनात्र किमुक्तेन यस्य भक्तिः शिवार्चने ॥३॥

स एवात्राधिकारी स्यान्नान्यचित्तः कथञ्चन॥

जडोऽन्धो बधिरो मूको निःशौचः कर्मवर्जितः ॥४॥

अज्ञोपहासका भक्ता भूतिरुद्राक्षधारिणः ॥

लिंगिनो यश्च वा द्वेष्टी ते नैवात्राधिकारिणः ॥५॥

यो मां गुरुं पाशुपतव्रतं द्वेष्टि धराधिप ॥

विष्णुं वा न स मुच्येत जन्मकोटिशतैरपि ॥६॥

अनेककर्मसक्तोऽपि शिवज्ञानविवर्जितः ॥

शिवभक्तिविहीनश्च संसारी नैव मुच्यते ॥७॥

आसक्ताः फलरागेन ये त्ववैदिककर्मणि ॥

दृष्टमात्रफलास्ते तु न भक्ता विधिकारिणः ॥८॥

अविमुक्ते द्वारकायां श्रीशैले पुण्डरीकके ॥

देहान्ते तारकं ब्रह्म लभते मदनुग्रहात् ॥९॥

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥

विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥१०॥

विप्रस्यानुपनीतस्य विधिरेवमुदादृते ॥

नाभिव्याहारयेवह्म स्वधानिनयनादृतेः ॥११॥

स शूद्रेण समस्तावद्यावद्वेदान्न जायते ॥

नामसंकीर्तने ध्यान सर्व एवाधिकारिणः ॥१२॥

संसारान्मुच्यते जन्तुः शिवतादात्म्यभावनात् ॥

तथा दानं तपो वेदाध्यायनं चान्यकर्म वा ॥

सहस्त्रांशं तु नार्हन्ति सर्वदा ध्यानकर्मणः ॥१३॥

जातिमाश्रममङ्गानि देशं कालमथापि वा ॥

आसनादीनि कर्माणि ध्यानं नापेक्षते क्वचित् ॥१४॥

गच्छंस्तिष्ठञ्जपन्वापि शयानो वान्यकर्मणि ॥

पातकेनापि वा युक्तो ध्यानादेव विमुच्यते ॥१५॥

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ॥

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥१६॥

आश्चर्ये वा भये शोके क्षुते वा मम नामयः ॥

व्याजेन वा स्मरेद्यस्तु स याति परमां गतिम् ॥१७॥

महापापैरपि स्पृष्टो देहान्ते यस्तु मां स्मरेत् ॥

पञ्चाक्षरी वोच्चरति स मुक्तो नात्र संशयः ॥१८॥

विश्वं शिवमयं यस्तु पश्यत्यात्मानमात्मना ॥

तस्य क्षेत्रेषु तीर्थेषु किं कार्यं वान्यकर्मसु ॥१९॥

सर्वेण सर्वदा कार्य भूतिरुद्राक्षधारणम् ॥

नित्यं शिवं शिवोक्तेन शिवभक्तिमभीप्सता ॥२०॥

नर्यभस्मसमायुक्तो रुद्राक्षान्यस्तु धारयेत् ॥

महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥२१॥

अन्यानि शैवकर्माणि करोतु न करोतु वा ॥

शिवनाम जपेद्यस्तु सर्वदा मुच्यते तु सः २२॥

अन्तकाले तु रुद्राक्षान्विभूतिं धारयेत्तु यः ॥

महापापोपपापौघैरपि स्पृष्टो नराधमः ॥२३॥

सर्वथा नोपसर्पन्ति तं जनं यमकिंकराः ॥२४॥

बिल्वमूलमृदा यस्तु शरीरमुपलिम्पति ॥

अन्तकालेऽन्तकजनैः स दूरीक्रियते नरः ॥२५॥

श्रीराम उवाच ।

भगवन्पूजितः कुत्र कुत्र वा त्वं प्रसीदसि ॥

तद्‌ब्रूहि मम जिज्ञासा वर्तते महती विभो ॥२६॥

ईश्वर उवाच ।

मृदा वा गोमयेनापि भस्मना चन्दनेन वा ॥

सिकताभिर्दारुणा वा पाषाणेनापि निर्मिता ॥

लोहेन वाथ रङ्गेण कांस्यखर्परपित्तलैः ॥२७॥

ताम्ररौप्यसुवर्णेर्वा रत्नैर्नानाविधिरपि ॥

अथवा पारदेनैव कर्पूरेणाथवा कृता ॥३८॥

प्रतिमा शिवलिंग वा द्रव्यैरेतैः कृतं तु यत् ॥

तत्र मां पूजयेत्तेशु फलं कोटिगुणोत्तरम् ॥२९॥

मृद्दारुकांस्यलोहैश्च पाषाणेनापि निर्मिता ॥

गृहिणां प्रतिमा कार्या शिवं शश्वदभीप्सता ॥३०॥

आयुः श्रियं कुल धर्मं पुत्रानाप्नोति तैः क्रमात् ॥

बिल्ववृक्षे तत्फले वा यो मां पूजयते नरः ॥३१॥

परां श्रियमिह प्राप्य मम लोके महीयते ॥

बिल्ववृक्षं समाश्रित यो मन्त्रान्विधिनाजपेत् ॥३२॥

एकेन दिवसेनैव तत्पुरश्चरणं भवेत् ॥

यस्तु बिल्ववने नित्यं कुटिं कृत्वा वसेन्नरः ॥३३॥

सर्वे मन्त्राः प्रसिद्ध्यन्ति जपमात्रेण केवलम् ॥

पर्वताग्रे नदीतीरे बिल्वमूले शिवालये ॥३४॥

अग्निहोत्रे केशवस्य संनिधौ वा जपेत्तु यः ॥

नैवास्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः ॥३५॥

त न स्पृशंति पापानि शिवसायुज्यमृच्छति ॥

स्थंडिले वा जले वह्नौ वायावाकाश एव वा ॥३६॥

गुरौ स्वात्मानि वा यो मां पूजयेत्प्रयतो नरः ॥

स कृत्स्नं फलमाप्नोति लवमात्रेण राघव ॥३६॥

आत्मपूजासमा नास्ति पूजा रघुकुलोद्भव ॥

मत्सायुज्यमवाप्नोति चण्डालोऽप्यात्मपूजया ॥३८॥

सर्वान्कामानवाप्नोति मनुष्यः कम्बलासने ॥

कृष्णाजिने भवेन्मुक्तिर्मोक्षश्रीर्व्याघ्रचर्मणि ॥३९॥

कुशासने भवेज्ज्ञानमारोग्यं पत्रनिर्मिते ॥

पाषाणे दुःखमाप्नोति काष्ठे नानाविधान्गदान् ॥४०॥

वस्त्रेण श्रियमाप्नोति भूमौ मन्त्रो न सिद्ध्यति ॥

प्राङ्‌मुखोदङ्‌मुखो वापि जपं पूजां समारभेत् ॥४१॥

अथ मालाविधिं वक्ष्ये श्रृणुष्वावहितो नृप ॥

साम्राज्यं स्फटिके स्यात्तु पुत्रजीवे परां श्रियम् ॥४२॥

आत्मज्ञानं कुशग्रन्थौ रुद्राक्षाः सर्वकामदाः ॥

प्रवालैश्च कृता माला सर्वलोकवशप्रदा ॥४३॥

मोक्षप्रदा च माला स्यादामलक्याः फलैः कृता ॥

मुक्ताफलैः कृता माला सर्वविद्याप्रदायिनी ॥४४॥

माणिक्यरचिता माला त्रैलोक्यस्त्रीवशंकरी ॥

नीलैर्मरकतैर्वापि कृता शत्रुभयप्रदा ॥४५॥

सुवर्णरचिता माला दद्याद्वै महती श्रियम् ॥

तथा रौप्यमयी माला कन्यां यच्छति कामिताम् ॥४६॥

उक्तानां सर्वकामानां दायिनी पारदैः कृता ॥

अष्टोत्तरशता माला तत्र स्यादुत्तमोत्तमा ॥४७॥

शतसंख्योत्तमा माला पञ्चाशन्मध्यमा मता ॥

चतुः पञ्चाशती यद्वा अधमा सप्तविंशतिः ॥४८॥

अधमा पञ्चविंशत्या यदि स्याच्छतनिर्मिता ॥

पञ्चाशदक्षराण्यत्रानुलोमप्रतिलोमतः ॥४९॥

इत्येवं स्थापयेत्स्पष्टं न कस्मैचित्प्रदर्शयेत् ॥५०॥

वर्णेर्विन्यस्तया यस्तु क्रियते मालया जपः ॥

एकवारेण तस्यैव पुरश्चर्या कृत्ता भवेत् ॥५१॥

सव्यपार्ष्णिं गुदे स्थाप्य दक्षिणं च ध्वजोपरि ॥

योनिमुद्राबन्ध एष भवेदासनमुत्तमम् ॥५२॥

योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः ॥

यं कंचिदपि वा मन्त्रं तस्य स्युः सर्वसिद्ध्यः ॥५३॥

छिन्ना रुद्धाः स्तम्भिताश्च मिलिता मूर्च्छितास्तथा ॥

सुप्ता मत्ता हीनवीर्या दग्धाः प्रत्यर्थिपक्षगाः ॥५४॥

बाला यौवनमन्त्राश्च वृद्धा मत्ताश्च ये मत्ताः ॥

योनिमुद्रासने स्थित्वा मन्त्रानेवं विधाञ्जपेत् ॥५५॥

तस्य सिद्ध्यन्ति ते मन्त्रा नान्यस्य तु कथंचन ॥

ब्राह्मं मुहूर्तमारभ्यामध्याह्नं प्रजपेन्मनुम् ॥५६॥

अत ऊर्ध्वं कृते जाप्ये विनाशाय भवेद्धुवम् ॥

पुरश्चर्याविधावेवं सर्वकाम्यफलेष्वपि ॥५७॥

नित्ये नैमित्तिके वापि तपश्चर्यासु वा पुनः ॥

सर्वदैव जपः कार्यो न दोषस्तत्र कश्चन ॥५८॥

यस्तु रुद्रं जपेन्नित्यं ध्यायमानो ममाकृत्म् ॥

षडक्षरं वा प्रणवं निष्कामो विजितेन्द्रियः ॥५९॥

तथाथर्वशिरोमन्त्रं कैवल्यं वा रघुत्तम ॥

स तेनैव च देहेन शिवः संजायते स्वयम् ॥६०॥

अधीते शिवगीतां यो नित्यमेतां जितेन्द्रियः ॥

श्रृणुयाद्वा स मुक्तः स्यात्संसारान्नात्र संशयः ॥६१॥

सूत उवाच ।

एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ॥

रामः कृतार्थमात्मानममन्यता तथैव सः ॥६२॥

एवं मया समासेन शिवगीता समीरिता ॥

एतां यः प्रजपेन्नियं श्रृणुयाद्वा समाहितः ॥६३॥

एकाग्रचित्तो यो मर्त्यस्तस्य मुक्तिः करे स्थिता ॥

अतः श्रृणुध्वं मुनयो नित्यमेतां समाहिताः ॥६४॥

अनायासेनैव मुक्तिर्भविता नात्र संशयः ॥

कायक्लेशो मनःक्षोभो धनहानिर्न चात्मनः ॥६५॥

न पीडा श्रवणादेव यस्मात्कैवल्यमाप्नुयात् ॥

शिवगितामतो नित्यं श्रृणुध्वमृषिसत्तमाः ॥६६॥

ऋषय ऊचुः ।

अद्यप्रभृति नः सूत त्वमाचार्यः पिता गुरुः ॥

अविद्यायाः परं पारं यस्मात्तारयितासि नः ॥६७॥

उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ॥

तस्मात्सूतात्मज त्वत्तः सत्यं नान्योऽस्ति नो गुरुः ॥६८॥

इत्युक्त्वा प्रययुः सर्वे सायंसंध्यामुपासितुम् ॥

स्तुवन्तः सुतपुत्रं ते संतुष्टा गोमतीतटम् ॥६९॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सुब्रह्मविद्यायायोगशास्त्रे शिवराघवसंवादे गीताधिकारनिरूपणं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP