नारद उवाच -
हिरण्यकशिपु राजन्नजेयमजरामरम् ॥
आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥१॥
स तेपे मन्दरद्रोण्यां तपः परमदारुणम् ॥
ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥२॥
जटादीधितिभी रेजे संवतार्क इवांशुभिः ॥
तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ॥३॥
तस्य मूर्घ्नः समुद्भत सधूमोऽग्निस्तपोमयः
तिर्यगूर्ध्वमघोलोकानतपद्विष्वगीरितः ॥४॥
चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः ॥
निषेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ॥५॥
तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः ॥
धात्रे विज्ञापयामासुर्देवदेव जगत्पते ॥६॥
दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्रुमः ॥
तस्य चोपशमं भूमन्विवधेहि यदि मन्यसे ॥
लोका न यावन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः ॥७॥
तस्यायं किल संकल्पश्चरतो दुश्चरं तपः ॥
श्रूयतां किं न विदितस्तवाथापि निवेदिताः ॥८॥
सृष्ट्वा चराचरभिदं तपोयोगसमाधिना ॥
आध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥९॥
तदहं बर्धमानेन तपोयोगसमाधिना ॥
कालात्मनोश्च नित्यत्वात्साधयिष्ये तथान्मनः ॥१०॥
अन्यथेदं विधास्येऽहमयथापूर्वमोजसा ॥
किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः ॥११॥
इति शुश्रुम निर्बन्धं तपः परममास्थितः ॥
विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥१२॥
तवासनं द्विजगवां पारमेष्ठयं जगत्पते ॥
भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥१३॥
इति विज्ञापितो देवैर्भगवानात्मभूर्नृप ॥
परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥१४॥
न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः ॥
पिपीलिकाभिराचीर्णमेदस्त्वङ्मांसशोणितम् ॥१५॥
तपन्तं तपसा लोकान्यथाभ्रापिहितं रविम् ॥
विलक्ष्य विस्मितः प्राह प्रहसन्हंवाहनः ॥१६॥
ब्रह्मोवाच -
उचिष्ठोत्तिष्ठ भद्रं ते तपः सिद्धोऽसि काश्यप ॥
वरदोऽहमनुप्राप्तो वियतामीप्सितो वरः ॥१७॥
अद्राक्षमहमेतत्ते हत्सारं महदद्भुतम् ॥
दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥१८॥
नैतत्पूर्वर्षयःश्चक्रुर्न करिष्यन्ति चापरे ॥
निरम्बुर्धारयेत्प्राणान्को वै दिव्यसमाः शतम् ॥१९॥
व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् ॥
तपोनिष्ठेन भवता जितोऽहं दितिनन्दत ॥२०॥
ततस्त आशिषः सर्वा ददाम्यसुरपुंगव ॥
मर्त्यस्य ते अमर्त्यस्य दर्शनं नाफलं मम ॥२१॥
नारद उवाच -
इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकैः ॥
कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा ॥२२॥
स तत्कीचकवल्मीकात्सहओजोलान्वितः ॥
सर्वावयवसंपन्नो वज्रसंहननो युवा ॥
उत्थितस्तप्तहेमाभो विभावसुरिवैधसः ॥२३॥
स निरीक्ष्याम्बरे देवं हंसवाहमवस्थितम् ॥
ननाम शिरसा भूमौ तदृर्शनमहोत्सवः ॥२४॥
उस्थाय प्राञ्जलिः प्रह्व ईक्षयाणी दृशा विभुम् ॥
हर्षाश्रुपुलंकोद्भेदो गिरा गद्गदयागृणात् ॥२५॥
हिरण्यकशिपुरुवाच -
कल्पान्ते कालसृष्टेन योऽन्धेन तमसा वृतम् ॥
अभिव्यनक् जगदिदं स्वयंज्योतिः स्वरीचिषा ॥२६॥
आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ॥
रजः सत्त्वतमोधाम्ने पराय महते नमः ॥२७॥
नम अद्याय बीजाय ज्ञानविज्ञानमूर्तये ॥
प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ॥
प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ॥२८॥
त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् ॥
चित्तस्य चित्तेर्मनइन्द्रियाणां पतिर्महान्भूतगुणाशयेशः ॥२९॥
त्वं सप्ततन्तून्वितनोषि तन्वा त्रय्या चातुर्होत्रकविद्यया च ॥
त्वमेक आत्मात्मवतामनादिरनन्तपारः क विरन्तरात्मा ॥३०॥
त्वमेव कालोऽनिमिषो जनानामायुर्लवाद्यावयवैः क्षिणोपि ॥
कूटस्थ आत्मा परमेष्ठयजो महांस्त्वं जीवलोकस्य च जीव आत्मा ॥३१॥
त्वत्तः परं नापरमप्यनेजदेजच्च किंचिद्वयतिरिक्तमस्ति ॥
विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोसि बृहत्त्रिपृष्ठः ॥३२॥
व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम् ॥
भुङ्क्षे स्थितो धामनि पारमेष्ठ्य अव्यक्त आत्मा पुरुषः पुराणः ॥३३॥
अनन्ताव्यक्तरुपेण येनेदमखिलं ततम् ॥
चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ॥३४॥
यदि दास्यस्यभिमतान्वरान्मे वरतोत्तम ॥
भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ॥३५॥
नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः ॥
न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥३६॥
व्यसुभिर्वाऽसुमाद्भिर्वा सुरासुरमहोरगैः ॥
अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च दोहिनाम् ॥३७॥
सर्वेषां लोकपालानां महिमानं यथात्मनः ॥
तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् ॥३८॥
इति श्रीमद्भागवते महापुराणे सप्तमस्कन्धे नृसिंहाख्याने हिरण्यकशिपोर्वरयाचनं नाम तृतीयोऽध्यायः ॥३॥